| YouTube Channel

प्रौढा (prauDhA)

 
Monier Williams Cologne
English
प्रौढा
f.
a married woman from 30 to 55 years of age,
W.
a violent or impetuous woman (described as a Nāyikā who stands in no awe of her lover or husband),
W.
Apte Hindi
Hindi
प्रौढा
वि* - "प्र + वह् + क्त + टाप् सम्प्रसारणम्, वृद्धिः "
"साहसी और बड़ी उम्र की स्त्री, अपने स्वामी के सामने भी निर्भीक और निर्लज्ज, काव्यरचनाओं में वर्णित चार प्रकार की मुख्य स्त्रियों में से एक भेद "
Shabdartha Kaustubha
Kannada
प्रौढा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಮೂವತ್ತು ವರ್ಷಗಳಿಂದ ಐವತ್ತೈದು ವರ್ಷ ವಯಸ್ಸಿನೊಳಗಿರುವ ಹೆಂಗಸು /ತಾರುಣ್ಯಾವಸ್ಥೆಯನ್ನು ಮೀರಿದ ಹೆಂಗಸು
प्रयोगाः - > "बाला तु तरुणी प्रौढा वृद्धा भवति नायिका गुणयोगेन रन्तव्या नारीवश्या भवेत्तदा ॥"
विस्तारः - > ನಾಯಿಕೆಯರ ಪ್ರಭೇದಗಳಲ್ಲಿ ಇದೊಂದು ಭೇದ. "अशोडशी भवेद्बाला तरुणी त्रिंशता मता पञ्चपञ्चाशती प्रौढा भवेद्वृद्धा ततः परम् ॥"
L R Vaidya
English
pro(prO)QA {% f. %} A bold woman advanced in youth who is no longer bashful
the third of the four female characters in poetic composition, (the other three being बाला, तरुणी and वृद्धा).
Wordnet
Sanskrit
Synonyms:
प्रौढा
noun
सा स्त्री यस्याः आयुः युवावस्थायाः तथा वृद्धावस्थायाः मध्ये वर्तमानम् अस्ति।
"श्यामेन प्रौढया सह विवाहः कृतः।"
शब्दकल्पद्रुमः
Sanskrit
प्रौढा,
स्त्री,
(प्रौढ + टाप् ।) नायिकाभेदः तत्-पर्य्यायः चिरिण्टी सुवयाः श्यामा ४दृष्टरजाः इति राजनिर्घण्टः
यथा, --“बाला तु तरुणी प्रौढा वृद्धा भवति नायिका ।गुणयोगेन रन्तव्या नारी वश्या भवेत्तदा
”त्रिंशद्बर्षादूर्द्घं पञ्चपञ्चाशद्वर्षपर्य्यन्तं प्रौढा-वस्था यथा, --“आषोडशी भवेद्बाला तरुणी त्रिंशता मता ।पञ्चपञ्चाशती प्रौढा भवेद्वृद्धा ततः परम्
”अस्या वश्यत्वकारणं यथा, --“अलङ्कारादिभिर्ब्बाला तरुणी रतियोगतः ।प्रेमदानादिभिः प्रौढा वृद्धा दृढताडनात्
”तस्या रमणे दोषो यथा, --“बाला तु प्राणदा प्रोक्ता तरुणी प्राणहारिणी ।प्रौढा करोति वृद्धत्वं वृद्धा मरणदा भवेत्
”इति रतिमञ्जरी
मुग्धादित्रिविधान्तर्गतप्रगल्भा नायिका तत्रप्रोढा खण्डिता यथा, --“मामुद्बीक्ष्य विपक्षपक्ष्मलदृशः पादाम्बुजालक्तकै-रालिप्ताननमानतीकृतमुखी चित्रार्पितेवाभवत् ।रूक्षं नोक्तवती वा कृतवती निश्वासकोष्णा-दृशःप्रातर्मङ्गलमङ्गला करतलादादर्शमादर्शयत्
”प्रौढा कलहान्तरिता यथा, --“अकरोः किभु नेत्रशोणिमानंकिमकार्षीः करपल्लवे निरोधम् ।कलहं किमधाः क्रुधा रसज्ञेहितमर्थं विदन्ति दैवदुष्टाः
”प्रौढा उत्कण्ठिता यथा, --“भ्रातर्निकुञ्जसखियूथिरश्चालबन्धोमातस्तमस्विनि पितस्तिमिर प्रसीद ।पृच्छामि किञ्च नवनीरधराभिरामोदामोदरः कथय किं समाजगाम
”प्रौढा वासकसज्जा यथा, --“कृतं वपुषि भूषणं चिकुरधोरणी धूपिताकृता शयनसन्निधौ क्रमुकवीटिकासम्भृतिः ।अकारि हरिणीदृशा भवनमेत्य देहत्विषास्फुरत्कनककेतकीकुसुमकान्तिभिर्दुर्द्दिनम्
”प्रौढाभिसारिका यथा, --“स्फुरदुरसिजभारभङ्गुराङ्गीकिसलयकोमलकान्तिना पदेन ।अथ कथय कथं सहेत गन्तुंयदि निशासु मनोरथो रथः स्यात्
”प्रौढा प्रवत्स्यत्पतिका यथा, --“नायं मुञ्चति सुभ्रुवामपि तनुत्यागे वियोगज्वर-स्तेनाहं विहिताञ्जलिर्यदुपते ! पृच्छामि सत्यंवद ।ताम्बूलं कुसुमं पटीरमुदकं यद्बन्धुभिर्दीयतेतत् स्यादत्र परत्र वा किमु विषज्वालावली-दुःसहम्
”इति रसमञ्जरी
अन्यत् प्रगल्भाशब्दे द्रष्टव्यम्