| YouTube Channel

प्रौढं (prauDhaM)

 
शब्दकल्पद्रुमः
Sanskrit
प्रौढं, त्रि, (प्रोह्यते स्मेति प्र + वह् + क्तः सम्प्र-सारणम् “प्रादूहोढोढ्येषैष्येषु ।” इति वृद्धिः ।)वर्द्धितम् तत्पर्य्यायः प्रवृद्धम् एधितम् ।इत्यमरः ७६
(यथा, मेघदूते २७ ।“त्वत्सम्पर्कात् पुलकितमिव प्रौढपुष्पैः कदम्बैः
”)प्रगल्भः इति हेमचन्द्रः १३१
(यथा, रघुः ५८ ।“त्रासातिमात्रचटुलैः स्मरतः सुनेत्रैःप्रौढप्रिया नयनविभ्रमचेष्टितानि
”)निपुणः इति राजनिर्घण्टः
(यथा, भाग-वते ।“ईङ्गितज्ञाः पुरुप्रौढा एकारामाश्च सात्त्वताः
”)प्रकर्षेण ऊढश्च