| YouTube Channel

प्रोष्ठपदाः (proSThapadAH)

 
अभिधानचिन्तामणिः
Sanskrit
--source--
वारुणी तु शतभिषगजाहिर्बुध्नदेवताः ११४
पूर्वोत्तरा भाद्रपदा द्वय्यः प्रोष्ठपदाश्च ताः
-wordlist-
वारुणी (स्त्री), शतभिषज् (स्त्री), अजदेवताः (स्त्रीब), पूर्वभद्रपदाः (स्त्रीब), अहिर्बुध्नदेवताः (स्त्रीब), उत्तरभद्रपदाः (स्त्रीब), प्रोष्ठपदाः (स्त्रीब)
वैजयन्तीकोषः
Sanskrit
Word: प्रोष्ठपदाः
Root: प्रोष्ठपद
Gender: पुं
Number: बहु
अर्थः पूर्वोत्तरभाद्रपदौ
Meaning(s):
Two of the 27 nakṣatras
Shloka(s):
2|1|41|2 ज्येष्ठा ज्येष्ठीघ्नी स्यात्प्रोष्ठपदाः पुंस्त्रियोः सभाद्रपदाः॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
2|1|41|2 प्रोष्ठपदाः (प्रोष्ठपद) (पुं) Two of the 27 nakṣatras पूर्वोत्तरभाद्रपदौ
2|1|41|2 प्रोष्ठपदाः (प्रोष्ठपद) (स्त्री) Two of the 27 nakṣatras पूर्वोत्तरभाद्रपदौ
2|1|41|2 भद्रपदाः (भद्रपदा) (पुं) Epithet of Proṣhṭapada पूर्वोत्तरभाद्रपदौ
2|1|41|2 भद्रपदाः (भद्रपदा) (स्त्री) Epithet of Proṣhṭapada पूर्वोत्तरभाद्रपदौ
Related word(s):
isa_k २७ नक्षत्राः
परा_अपरासंबन्धः नक्षत्रम्
जातिः नक्षत्रम्
शब्दकल्पद्रुमः
Sanskrit
प्रोष्ठपदाः,
स्त्री,
(प्रोष्ठो गौस्तस्येव पादा यासाम् ।“सुप्रातसुश्वेति ।” १२० इति बहु-व्रीहावच् पद्भावश्च निपातितः ।) पूर्व्वभाद्रपद-नक्षत्रम् २५ उत्तरभाद्रपदनक्षत्रम् २६ ।तत्पर्य्यायः भाद्रपदाः इत्यमरः ।२२
द्बे पूर्व्वभाद्रपदोत्तरभाद्रपदासु प्रोष्ठो गौःभद्रश्च गौः तस्येव पाद आसां तास्तथा पूर्व्वेप्रोष्ठपदे द्वे उत्तरे तु भाद्रपदे द्बे समुदायश्चासांचतुःसंख्य इति बहुवचनम् कदा पूर्व्वे प्रोष्ठ-पदे कदा उत्तरे प्रोष्ठप्रदे इति तारकयोर्द्वित्वा-द्द्विवचनम् इति भरतः
भाद्रपदशब्देनतारकाविशेषाणां समुदाय उच्यते तिरोहिता-वयवभेदपक्षे एकवचनम् प्रोष्ठपदाशब्दस्तू-द्रिक्तावयवभेदपक्षे बहुवचनमिति मैत्रेयः ।इति रायमुकुटः