| YouTube Channel

प्रोषितभर्त्तृका (proSitabharttRkA)

 
शब्दकल्पद्रुमः
Sanskrit
प्रोषितभर्त्तृका,
स्त्री,
(प्रोषितो विदेशगतो भर्त्तायस्याः समसान्तकप्प्रत्ययः ।) विदेशस्य-पतिका इति जटाधरः
स्वीयादिनायिका-भेदः तस्या लक्षणं यथा देशान्तरे गतेभर्त्तरि सन्तापाकुला प्रोषितभर्त्तृका अस्या-श्चेष्टा दशावस्था यथा पत्यभिलाषः १चिन्ता स्मृतिः गुणोत्कीर्त्तनम् उद्वेगः५ विलापः उन्मादः व्याधिः जडता ९निधनम् १० मुग्धा प्रोषितभर्त्तृका यथा, --“दुःखं दीर्घतरं वहन्त्यपि सखीवर्गाय नो भाषतेशैवालैः शयनं सृजन्त्यपि पुनः शेते वालज्जया ।कण्ठे गद्गदवाचमञ्चति दृशा धत्ते वास्पोदकंसन्तापं सहते यदम्बुजमुखी तद्बेद चेतोभवः
”मध्या प्रोषितभर्त्तृका यथा, --“वासस्तदेव वपुषो वलयन्तदेवहस्तस्य सैव जघनस्य रत्नकाञ्ची ।वाचालभृङ्गसुभगे सुरतौ समस्त-मद्याधिकं भवति तत् सखि किन्निदानम्
”प्रगल्भा प्रोषितभर्त्तृका यथा, --“माला बालाम्बुजदलमयी मौक्तिकी हार-यष्टिःकाञ्ची स्थानात् प्रसरति हरौसुभ्रुवः प्रस्थितैव ।अन्यद्ब्रूमः किमपि धमनी विद्यते वा नवेतिज्ञातुं बाह्वोरहह वलयं पाणिमूलं प्रयाति
”परकीया प्रोषितभर्त्तृका यथा, --“श्वश्रूः पद्मदलं ददाति तदपि भ्रूसंज्ञया गृह्यतेसद्यो मर्म्मरशङ्कया तया संस्पृश्यतेपाणिना ।यातुर्व्वाचि सुहृज्जनस्य वचसा प्रत्युत्तरं दीयतेश्वासः किन्तु मुच्यते हुतवहक्रूरः कुरङ्गी-दृशा
”सामान्यवनिता प्रोषितभर्त्तृका यथा, --“विरहविदितमन्तःप्रेम विज्ञाय कान्तःपुनरपि वसु तस्मादेत्य मे दास्यतीति ।भरिचनिचयमक्ष्णोर्न्यस्य वास्पोदबिन्दून्सृजति पुरयोषिद्द्वारदेशोपविष्टा
”इति रसमञ्जरी
(अस्याः अकर्त्तव्यं यदुक्तं चिन्तामणौ तद्यथा, “हास्यं परगृहे यानं समाजोत्सवदर्शनम् ।क्रीडां शरीरसंस्कारं त्यजेत् प्रोषितभर्त्तृका
”)