| YouTube Channel

प्रोषितभर्तृका (proSitabhartRkA)

 
शब्दसागरः
English
प्रोषितभर्तृका
f.
(-का) A woman whose husband is absent.
E.
प्रोषित ab-
road, भर्त्तृ a husband,
aff.
कन् and टाप्
Yates
English
प्रोषित-भर्तृका (का) 1.
f.
A woman
whose husband is absent.
Wilson
English
प्रोषितभर्तृका
f.
(-का) A woman whose husband is absent.
E.
प्रोषित abroad, भर्तृ a husband,
aff.
कन् and टाप्.
Monier Williams Cologne
English
प्रोषित—भर्तृका
f.
(a wife) whose husband is abroad
Apte Hindi
Hindi
प्रोषितभर्तृका
स्त्री*
प्रोषित-भर्तृका -
"वह स्त्री जिसका पति परदेश गया हो, शृंगारकाव्यान्तर्गत आठ नायिकाओं में से एक"
L R Vaidya
English
prozita-BartfkA {% f. %} a woman whose husband is abroad (considered as one of the eight Nāyikās
the S.D. thus describes her- नानाकार्यवशद्यस्या दूरदेशं गतः पतिः सा मनोभवदुःखार्ता भवेत् प्रोषितभर्तृका).
शब्दकल्पद्रुमः
Sanskrit
प्रोषितभर्त्तृका,
स्त्री,
(प्रोषितो विदेशगतो भर्त्तायस्याः समसान्तकप्प्रत्ययः ।) विदेशस्य-पतिका इति जटाधरः
स्वीयादिनायिका-भेदः तस्या लक्षणं यथा देशान्तरे गतेभर्त्तरि सन्तापाकुला प्रोषितभर्त्तृका अस्या-श्चेष्टा दशावस्था यथा पत्यभिलाषः १चिन्ता स्मृतिः गुणोत्कीर्त्तनम् उद्वेगः५ विलापः उन्मादः व्याधिः जडता ९निधनम् १० मुग्धा प्रोषितभर्त्तृका यथा, --“दुःखं दीर्घतरं वहन्त्यपि सखीवर्गाय नो भाषतेशैवालैः शयनं सृजन्त्यपि पुनः शेते वालज्जया ।कण्ठे गद्गदवाचमञ्चति दृशा धत्ते वास्पोदकंसन्तापं सहते यदम्बुजमुखी तद्बेद चेतोभवः
”मध्या प्रोषितभर्त्तृका यथा, --“वासस्तदेव वपुषो वलयन्तदेवहस्तस्य सैव जघनस्य रत्नकाञ्ची ।वाचालभृङ्गसुभगे सुरतौ समस्त-मद्याधिकं भवति तत् सखि किन्निदानम्
”प्रगल्भा प्रोषितभर्त्तृका यथा, --“माला बालाम्बुजदलमयी मौक्तिकी हार-यष्टिःकाञ्ची स्थानात् प्रसरति हरौसुभ्रुवः प्रस्थितैव ।अन्यद्ब्रूमः किमपि धमनी विद्यते वा नवेतिज्ञातुं बाह्वोरहह वलयं पाणिमूलं प्रयाति
”परकीया प्रोषितभर्त्तृका यथा, --“श्वश्रूः पद्मदलं ददाति तदपि भ्रूसंज्ञया गृह्यतेसद्यो मर्म्मरशङ्कया तया संस्पृश्यतेपाणिना ।यातुर्व्वाचि सुहृज्जनस्य वचसा प्रत्युत्तरं दीयतेश्वासः किन्तु मुच्यते हुतवहक्रूरः कुरङ्गी-दृशा
”सामान्यवनिता प्रोषितभर्त्तृका यथा, --“विरहविदितमन्तःप्रेम विज्ञाय कान्तःपुनरपि वसु तस्मादेत्य मे दास्यतीति ।भरिचनिचयमक्ष्णोर्न्यस्य वास्पोदबिन्दून्सृजति पुरयोषिद्द्वारदेशोपविष्टा
”इति रसमञ्जरी
(अस्याः अकर्त्तव्यं यदुक्तं चिन्तामणौ तद्यथा, “हास्यं परगृहे यानं समाजोत्सवदर्शनम् ।क्रीडां शरीरसंस्कारं त्यजेत् प्रोषितभर्त्तृका
”)
वाचस्पत्यम्
Sanskrit
प्रोषितभर्तृका स्त्री प्रोषितः भर्त्ता यस्या कप् यस्याःपतिः विदेशं गतस्तस्यां स्त्रियाम् “नानाकार्य्यावशाद्यस्यादूरदेशं गतः पतिः सा मनोभवदुःखार्त्ता भवेत्प्रोषितभर्तृका” सा० द०