| YouTube Channel

प्रोथृ (prothR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
प्रोथ्
मूलधातुः:
प्रोथृ
धात्वर्थः:
पर्याप्तौ
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
प्रोथति-ते
धातुप्रदीपः
Sanskrit
प्रोथृँ प्रोथृ पर्य्याप्तौ
- प्रोथति प्रोथते प्रोथ्यते प्रोथयति अपुप्रोथत् प्रोथः ।। 870 ।।
क्षीरतरङ्गिणी
Sanskrit
प्रोथृँ प्रोथृ पर्याप्तौ
- (अर्थविवरणम्) पर्याप्तिः पूर्णता
प्रोथते, प्रोथति अपुप्रोथत् प्रोथोऽश्वघोणा प्रियं प्रोथमनुव्रजेत् 838
धातुवृत्तिः
Sanskrit
प्रोथृँ प्रोथृ (अर्थः) पर्याप्तौ
( प्रोथति पुप्रौथ प्रोथिता प्रोक्षते ) इत्यादि ( पुप्रोथिषति पुप्रोथिषते पोप्रोथ्यते प्रोप्रोति प्रोथयति अपुप्रोथत् ) ऋदित्त्वान्नोपधाह्रस्वः "प्रोथदश्चोभयवस''इत्यत्र प्रोथति सूदति शश्वदश्वइवायमग्निरिति भट्टभास्करः अयमेवापप्रोदुन्दुभे दुच्छुनादित्यत्रापप्रोथत् यमारभ्य दुच्छुनात् दुरवलिप्तात् उपसर्गस्य तकारः, प्रोथु पर्याप्तिगतावित्याह क्षरे अपुप्रोथनं कारणमिति ( प्रोथः ) "हलश्च'' इति करणे घञ् 852
कृदन्तरूपमाला
Sanskrit
1 {@“प्रोथृ पर्याप्तौ”@} 2 ‘प्रोथति = सूदति’ इति ‘प्रोथदश्वो यवसे--’ 3 इति मन्त्रव्याख्यायां व्याख्यानात्, ‘अपप्रोथ दुन्दुभे दुच्छुनाम्--’ 4 इत्यत्र, ‘अपप्रोथ = मारय--’ इति व्याख्यानाच्च भट्टभास्करमते हिंसार्थकोऽयं धातुः इति मा।
धा।
वृत्तिदर्शनाज्ज्ञायते।
“--पर्याप्तिगतौ’ इत्यपि क्वचिदर्थनिर्देशः कृतः।
‘अपप्रोथनम् = हुङ्करणम्।’ इति क्षुरे।” इत्यपि मा।
धा।
वृत्तिः।
‘शब्दार्थोऽपि।
अपपूर्वस्तु मारणे हुङ्करणे वा’ इति धा।
का।
व्याख्याने 5।
भाष्यप्रदीपोद्योतात् 6 नायं धातुरिति ज्ञायते।
प्रोथकः-थिका, प्रोथकः-थिका, पुप्रोथिषकः-पुप्रुथिषकः-षिका, पोप्रुथकः-थिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककेपतिवत् 7 ज्ञेयानि।
8 प्रोथः = अश्वादीनां नासारज्जुः।
प्रासङ्गिक्यः
01
=>
(१०७९)
02
=>
(१-भ्वादिः-८६७। सक। सेट्। उभ।)
03
=>
(तैत्ति। सं। ४। ४। ३। ३)
04
=>
(तैत्तिरीय- संहिता ४। ६। ६। ७)
05
=>
(२। २५)
06
=>
(१-४-५६)
07
=>
(२६१)
08
=>
[[२। ‘हलश्च’ (३-३-१२१) इति संज्ञायां करणे घञ्।]]