| YouTube Channel

प्रोत्फुल्लं (protphullaM)

 
शब्दकल्पद्रुमः
Sanskrit
प्रोत्फुल्लं, त्रि, (प्रकर्षेण उत्फुल्लम् प्र + उत् +फुल्ल विकासे + कर्त्तरि अच् वा ।) विकसितम् ।यथा, --“ये वर्द्धिताः करिकपोलमदेन भृङ्गाःप्रोत्फुल्लपङ्कजरजःसुरभीकृताङ्गाः ।ते साम्प्रतं विधिवशाद्गमयन्ति कालंनिम्बेषु चार्ककुसुमेषु करीलकेषु
”इति भामिनीविलासः