| YouTube Channel

प्रोक्षितं (prokSitaM)

 
शब्दकल्पद्रुमः
Sanskrit
प्रोक्षितं, त्रि, (प्र + उक्ष + क्त ।) निहतम् ।सिक्तम् इति मेदिनी ते, १३६
यज्ञार्थंमन्त्रैः संस्कृतमांसादि यथा, --“भक्षयेत् प्रोक्षितं मांसं सकृद्ब्राह्मणकाम्यया ।दैवे नियुक्तः श्राद्धे वा नियमे तु विवर्ज्जयेत्
”आरण्यानामिदानीन्तनप्रोक्षणापेक्षा नास्ति ।यथा, महाभारते ।“आरण्याः सर्व्वदैवत्याः प्रोक्षिताः सर्व्वशोमृगाः ।अगस्त्येन पुरा राजन् ! मृगया येन पूज्यते
”इति तिथ्यादितत्त्वम्