| YouTube Channel

प्रेमभक्तिः (premabhaktiH)

 
शब्दकल्पद्रुमः
Sanskrit
प्रेमभक्तिः,
स्त्री,
(प्रेम्णा भक्तिः ।) स्नेहयुक्त-श्रीकृष्णसेवा विष्ण्वैकान्तिकममता तल्लक्षणंयथा, नारदपञ्चरात्रे ।“अनन्यममता विष्णौ ममता प्रेमसंप्लुता ।भक्तिरित्युच्यते भीष्म ! प्रह्लादोद्धवनारदैरिति
प्रेमभक्तेश्च माहात्म्यं भक्तेर्म्माहात्म्यतः परम् ।सिद्धमेव यतो भक्तेः फलं प्रेमैव निश्चितम्
*
अथ प्रेमसम्पत्तिचिह्नानि यथा, भागवते स्कन्धे७ अध्याये श्रीप्रह्लादस्य बालानुशासने ।“निशम्य कर्म्माणि गुणानतुल्यान्वीर्य्याणि लीलातनुभिः कृतानि ।यदातिहर्षोत्पुलकाश्रुगद्गदंप्रोत्कण्ठ उद्गायति रौति नृत्यति
यदा ग्रहग्रस्त इव क्वचिद्धस-त्याक्रन्दते ध्यायति वन्दते जनम् ।मुहुः श्वसन् वक्ति हरे जगत्पतेनारायणेत्यात्ममतिर्गतत्रपः
तदा पुमान् मुक्तसमस्तबन्धन-स्तद्भावभावानुकृताशयाकृतिः ।निर्द्दग्धबीजानुशयो महीयसाभक्तिप्रयोगेण समेत्यधोक्षजम्
”इति श्रीहरिभक्तिविलासे ११ विलासः