प्रेमभक्ति (premabhakti)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritप्रेमभक्तिः, (प्रेम्णा भक्तिः ।) स्नेहयुक्त-श्रीकृष्णसेवा । विष्ण्वैकान्तिकममता । तल्लक्षणंयथा, नारदपञ्चरात्रे ।“अनन्यममता विष्णौ ममता प्रेमसंप्लुता ।भक्तिरित्युच्यते भीष्म ! प्रह्लादोद्धवनारदैरिति ॥
प्रेमभक्तेश्च माहात्म्यं भक्तेर्म्माहात्म्यतः परम् ।सिद्धमेव यतो भक्तेः फलं प्रेमैव निश्चितम् ॥
” * ॥
अथ प्रेमसम्पत्तिचिह्नानि यथा, भागवते ७ स्कन्धे७ अध्याये श्रीप्रह्लादस्य बालानुशासने ।“निशम्य कर्म्माणि गुणानतुल्यान्वीर्य्याणि लीलातनुभिः कृतानि ।यदातिहर्षोत्पुलकाश्रुगद्गदंप्रोत्कण्ठ उद्गायति रौति नृत्यति ॥
यदा ग्रहग्रस्त इव क्वचिद्धस-त्याक्रन्दते ध्यायति वन्दते जनम् ।मुहुः श्वसन् वक्ति हरे जगत्पतेनारायणेत्यात्ममतिर्गतत्रपः ॥
तदा पुमान् मुक्तसमस्तबन्धन-स्तद्भावभावानुकृताशयाकृतिः ।निर्द्दग्धबीजानुशयो महीयसाभक्तिप्रयोगेण समेत्यधोक्षजम् ॥
”इति श्रीहरिभक्तिविलासे ११ विलासः ॥
वाचस्पत्यम्
Sanskritप्रेमभक्ति स्त्री प्रेम्णा भक्तिः । श्रीकृष्णे प्रेम्णा स्नेहेनभक्तौ तल्लक्षणं नारदपञ्चरात्रे उक्तं यथा “अनन्य-ममता बिष्णौ ममता प्रेमसप्लुता । भक्तिरित्युच्यतेमीष्मप्रह्लादोद्धवनारदैरिति” । प्रेमभक्तेश्च माहात्म्यंभक्तेर्माहात्म्यतः परम् । सिद्धमेव यतो भक्तेः फलंप्रेमैव निश्चितम्” । तच्चिह्नानि भाग० ७ स्क० उक्तानियथा “निशम्य कर्माणि गुणानतुल्यान् वीर्य्याणि ली-लातनुभिः कृतानि । यदाऽतिहर्षोत्पुलकाश्रुगद्गदं प्रोत्-कण्ठ उद्गायति नृत्यते च । यदा ग्रहग्रस्त इव क्वचिच्चहसति क्रन्दते ध्यायति वन्दते जनः । मुहुः श्वसन् वक्तिहरे! जगत्पते! नारायणेत्यात्ममतिर्गतत्रपः । तदापुमान् मुक्तसमस्तबन्धनस्तद्भावभावानुशयाकृताकृतिः । निर्द-ग्धवीजानुशयो महीयसा भक्तिप्रयोगेण समेत्यधोक्षजम्” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
