| YouTube Channel

प्रेतश्राद्धं (pretazrAddhaM)

 
शब्दकल्पद्रुमः
Sanskrit
प्रेतश्राद्धं,
क्ली,
(प्रेताय प्रेतोद्देश्यकं वा श्राद्धम् ।)प्रेतोद्देश्यकश्राद्धम् तदनुष्ठानं यथा तत्रगोभिलः अथैकोद्दिष्टमेकं पवित्रमेकोऽर्घ एकःपिण्डो नावाहनं नाग्नौकरणं नात्र विश्वेदेवाःस्वदितमिति तृप्तिप्रश्नः उपतिष्ठतामित्यक्षय्य-स्थाने अभिरम्यतामिति विसर्गोऽभिरतो-ऽस्मीति प्रतिवचनमेतत् प्रेतश्राद्धमिति इतिश्राद्धतत्त्वम्
*
तच्च नवश्राद्धं तत्तु साग्निक-कर्त्तव्यं चतुर्थपञ्चमनवमैकादशाहेषु प्रेतश्राद्धम् ।यथा यमः ।“चतुर्थे पञ्चमे चैव नवमैकादशे तथा ।तदत्र दीयते जन्तोस्तन्नवश्राद्धमुच्यते
”इति श्राद्धविवेकः
*
साग्निनिरग्न्युभयकर्त्तव्यं आद्यश्राद्धादिसपिण्डी-करणान्तं श्राद्धम् यथा, --“द्वादश प्रतिमास्यानि आद्यं षाण्मासिके तथा ।सपिण्डीकरणञ्चैव इत्येतत् श्राद्धषोडशम्
”इति श्राद्धतत्त्वम्
*
अम्बुघटश्राद्धम् तत्तु संवत्सरं यावत् प्रत्यहंप्रेतोद्देश्यकान्नजलदानरूपम् यथा पार-स्करः अहरहरन्नमस्मै ब्राह्मणायोदकुम्भञ्चदद्यात् पिण्डमप्येके निगृणन्ति ददतीत्यर्थः इतिश्राद्धविवेकः
*
गयादितीर्थद्रव्यादिप्राप्ति-निमित्तमेकोद्दिष्टश्राद्धम् यथा, --“पितृयज्ञन्तु निर्व्वर्त्त्य मासिके श्राद्ध एव तु ।श्राद्धं प्रतिरुचौ चैव मातापित्रोर्मृताहनि
असपिण्डीकृतं प्रेतमेकोद्दिष्टेन तर्पयेत्
तेनाम्बुघटश्राद्धे मृताहविहितमासिके तथाविशिष्टतीर्थद्रव्यादिप्राप्तौ प्रेतश्राद्धकरणेच्छायांमातापित्रोर्म्मृताहनि असपिण्डीकृतं प्रेत-मेकोद्दिष्टेन तर्पयेत् ।” इति श्राद्धतत्त्वम्