| YouTube Channel

प्रेतशिला (pretazilA)

 
Monier Williams Cologne
English
प्रेत—शिला
f.
‘stone of the dead’,
N.
of a stone near Gayā on which Piṇḍas are offered (See पिण्ड),
GāruḍaP.
शब्दकल्पद्रुमः
Sanskrit
प्रेतशिला,
स्त्री,
(प्रेतानां प्रेतेभ्यो वा या शिला ।)पिण्डदानार्थगयास्थितप्रस्तरविशेषः यथा, --ब्रह्मोवाच ।“येयं प्रेतशिला ख्याता गयायां सा त्रिधा स्थिता ।प्रभासे प्रेतकुण्डे गयासुरशिरस्यपि
धर्म्मेण धारिता भूत्यै सर्व्वदेवमयी शिला
प्रेतत्वं ये गता नॄणां पित्राद्या बान्धवादयः ।तेषामुद्धरणार्थाय यतः प्रेतशिला ततः
अतोऽत्र मुनयो भूपा राजपत्न्यादयः सदा ।तस्यां शिलायां श्राद्धादिकर्त्तारो ब्रह्मलोकगाः
गयासुरस्य यन्मुण्डं तस्य पृष्ठे शिला यतः ।मुण्डपृष्ठो गिरिस्तस्मात् सर्व्वदेवमयो ह्ययम्
मुण्डपृष्ठस्य पादेषु यतो ब्रह्मसरोमुखाः ।अरविन्दवनन्तेषु तेन चैवोपलक्षितः
अरविन्दो गिरिर्नाम क्रौञ्चपादाङ्कितो यतः ।तस्माद्गिरिः क्रौञ्चपदः पितॄणां ब्रह्मलोकदः
गदाधरादयो देवा आद्या आदौ व्यवस्थिताः ।शिलारूपेण व्यक्तास्तस्माद्देवमयी शिला ।गयाशिरश्छादयित्वा गुरुत्वादास्थिता शिला
*
स्नात्वा प्रेतशिलादौ तु चरणाम्बुसृतेन ।पिण्डं दद्यादिमैर्म्मन्त्रैरावाह्य पितॄन् परान्
अस्मत्कुले मृता ये गतिर्येषां विद्यते ।तेषामावाहयिष्यामि दर्भपृष्ठे तिलोदकैः
पितृवंशे मृता ये मातृवंशे ये मृताः ।तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम्
मातामहकुले ये गतिर्येषां जायते ।तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम्
अजातदन्ता ये केचित् ये गर्भेषु पीडिताः ।तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम्
बन्धुवर्गाश्च ये केचिन्नामगोत्रविवर्ज्जिताः ।स्वगोत्रे परगोत्रे या गतिर्येषां विद्यते ।तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम्
उद्बन्धनमृता ये विषशस्त्रहताश्च ये ।आत्मोपघातिनो ये तेभ्यः पिण्डं ददाम्यहम्
अग्निदाहे मृता ये सिंहव्याघ्रहताश्च ये ।दंष्ट्रिभिः शृङ्गिभिर्व्वापि तेषां पिण्डं ददाम्यहम्
अग्निदग्धाश्च ये केचिन्नाग्निदग्धास्तथापरे ।विद्युच्चौरहता ये तेषां पिण्डं ददाम्यहम्
रौरवे चान्धतामिस्रे कालसूत्रे ये गताः ।तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम्
असिपत्रवने घोरे कुम्भीपाके ये गताः ।तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम्
अन्येषां यातनास्थानां प्रेतलोकनिवासिनाम् ।तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम्
पशुयोनिगता ये पक्षिकीटसरीसृपाः ।अथवा वृक्षयोनिस्थास्तेभ्यः पिण्डं ददाम्यहम्
असंख्ययातनासंस्था ये नीता यमशासने ।तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम्
जात्यन्तरसहस्राणि भ्रमन्तः स्वेन कर्म्मणा ।मानुष्यं दुर्लभं येषां तेभ्यः पिण्डं ददाम्यहम्
ये बान्धबाबान्धवा वा येऽन्यजन्मनि बान्धवाः ।ते सर्व्वे तृप्तिमायान्तु पिण्डदानेन सर्व्वदा
ये केचित् प्रेतरूपेण वर्त्तन्ते पितरो मम ।ते सर्व्वे तृप्तिमायान्तु पिण्डदानेन सर्व्वदा
ये मे पितृकुले जाताः कुले मातुस्तथैव ।गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः
ये मे कुले लुप्तपिण्डाः पुत्त्रदारविवर्जिताः ।क्रियालोपगता ये जात्यन्धाः पङ्गवस्तथा
विरूपास्त्वामगर्भा ये ज्ञाताज्ञाताः कुले मम ।तेषां पिण्डं मया दत्तमक्षय्यमुपतिष्ठताम्
साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस्तथा ।मया गयां समासाद्य पितणां निष्कृतिः कृता
आगतोऽहं गयां देव ! पितृकार्य्ये गदाधर ! ।तन्मे साक्षी भवस्वाद्य अनृणोऽहमृणत्रयात्
”इति गारुडे गयामाहात्म्ये ८५-८६ अध्यायौ
वाचस्पत्यम्
Sanskrit
प्रेतशिला स्त्री गयातीर्थस्थे प्रेतोद्धारणार्थे गुञ्जपृष्ठपर्वतादिस्थेशिलाभेदेवायुपु० गयाप्र० गरुडपु० ८५ अ० तन्माहात्म्यादियथा “येयं प्रेतशिला ख्याता गयायां सा त्रिधा स्थिता ।प्रभासे प्रेतकुण्डे गयासुरशिरस्यपि धर्मेण धा-रिता भूत्यै सर्वदेवमयी शिला प्रेतत्वं ये गता नृणांपित्राद्या बान्धवादयः तेषामुद्धरणार्थाय यतः प्रेतःशिला ततः अतोऽत्र मुन्यो भूपा राजपात्रादयःसदा तन्यां शिकायां श्राद्धादिकर्त्तारो ब्रह्मलोकगाः ।गयासुरस्य यन्मुण्डं तस्य वृष्ठे शिला यतः मुण्डपृष्ठोगिरिस्तस्मात् सर्वदेवमयो ह्ययम् मुण्डपृष्ठस्य पादेषुयतो ब्रह्मसरोमुखाः अरविन्दवनन्तेषु तेन चैवो-पलक्षितः अरविन्दगिरिर्नाम क्रौञ्चपादाङ्कितोयतः तस्माद्गिरिः क्रौञ्चपादः पितॄणां ब्रह्मलोकदः ।गदाधरादयो देवा आद्या आदौ व्यवस्थिताः शिला-रूपेण व्यक्तास्तस्माद्देवमयी शिला गयाशिरश्छा-दयित्वा गुरुत्वादास्थिता शिला स्नात्वा प्रेतशिलादौतु चरणाम्बुसृतेन पिण्डं दद्यादिमैर्मन्त्रैरा-वाह्य पितॄन् परान्”