| YouTube Channel

प्रेतपिण्डः (pretapiNDaH)

 
Wordnet
Sanskrit
Synonyms:
प्रेतपिण्डः
noun
मरणावधिसपिण्डीकरणपर्यन्तं प्रेतसम्प्रदानकपिण्डाकारान्नम्।
"सः प्रेतपिण्डं पिप्पलवृक्षस्य अधः अस्थापयत्।"
शब्दकल्पद्रुमः
Sanskrit
प्रेतपिण्डः,
पुं,
(प्रेताय देयः पिण्डः ।) मरणावधि-सपिण्डीकरणपर्य्यन्तं प्रेतसम्प्रदानकपिण्डाकारा-न्नम् यथा, --“न स्वधाञ्च प्रयुञ्जीत प्रेतपिण्डे दशाहिके ।भाषेतैतच्च वै पिण्डं यज्ञदत्तस्य पूरकम्
*
तत्तत्पिण्डस्य प्रेताङ्गकरणत्वं यथा, ब्रह्मपुराणे ।“शिरस्त्वाद्येन पिण्डेन प्रेतस्य क्रियते सदा ।द्वितीयेन तु कर्णाक्षिनासिकास्तु समासतः
गलांसभुजवक्षांसि तृतीयेन तथा क्रमात् ।चतुर्थेन तु पिण्डेन नाभिलिङ्गगुदानि
जानुजङ्घे तथा पादौ पञ्चमेन तु सर्व्वदा ।सर्व्वमर्म्माणि षष्ठेन सप्तमेन तु नाडयः
दन्तलोमाद्यष्टमेन वीर्य्यञ्च नवमेन तु ।दशमेन तु पूर्णत्वं तृप्तता क्षुद्विपर्य्ययः
*
तदकरणे दोषो यथा, --“प्रेतपिण्डा दीयन्ते यस्य तस्य विमोक्षणम् ।श्माशानिकेभ्यो देवेभ्य आकल्पं नैव विद्यते
*
पूरकपिण्डदानदेरितिकर्त्तव्यता यथा पार-स्करः प्रेताय पिण्डं दत्त्वा अवनेजनदान-प्रत्यवनेजनेषु नामग्राहं मृण्मये तां रात्रिंविहायसि क्षीरोदके निदध्युः प्रेतात्र स्नाहिपिब चेदं क्षीरमित्युच्चार्य्येति अत्र दानशब्देनपिण्डदानमुक्तं बहुवचनात् तेनावनेजनपिण्ड-दानप्रत्यवनेजनेषु नामग्राहं नाम गृहीत्वाप्रेतपिण्डानुष्ठानं समाप्यम् विहायसि रात्रौक्षीरोदके प्रेतात्र स्नाहि पिब चेदं क्षीरमित्यु-च्चार्य्य निदध्युः ।“प्रथमेऽहनि यो दद्यात् प्रेतायान्नं समाहितः ।यत्नान्नवसु चान्येषु एव प्रददाव्यपि
*
प्रथमपिण्डकर्त्तृनियमवत् प्रथमपिण्डद्रव्यनियम-माह शुनः पुच्छः ।“प्रथमेऽहनि यद्द्रव्यं तदेव स्याद्दशाहिकम् ।सद्यःशौचेऽपि दातव्याः सर्व्वेऽपि युगपत्तथा
त्र्यहाशौचे प्रदातव्याः प्रथमे त्वेक एव हि ।द्वितीयेऽहनि चत्वारस्तृतीये पञ्च चैव हि
एकस्तोयाञ्जलिस्त्वेवं पात्रमेकञ्च दीयते ।द्वितीये द्वौ तृतीये त्रीन् चतुर्थे चतुरस्तथा
पञ्चमे पञ्च षष्ठे षट् सप्तमे सप्त एव ।अष्टमेऽष्टौ नवमे नवैव दशमे दश
येन स्युः पञ्चपञ्चाशत् तोनस्याञ्जलयः क्रमात् ।तोयपात्राणि तावन्ति संयुक्तानि तिलादिभिः
”इति शुद्धितत्त्वम्