| YouTube Channel

प्रेतपक्षः (pretapakSaH)

 
Apte Hindi
Hindi
प्रेतपक्षः
पुं*
प्रेत-पक्षः -
पितृपक्ष
Wordnet
Sanskrit
Synonyms:
पितृपक्षः, श्राद्धपक्षः, प्रेतपक्षः
noun
अश्विनमासस्य कृष्णपक्षः यस्मिन् पितृन् तृप्यते।
"मम पितामहः अग्रिमे पितृपक्षे पिण्डदानार्थे गयां गमिष्यति।"
शब्दकल्पद्रुमः
Sanskrit
प्रेतपक्षः,
पुं,
(प्रेतप्रियः पक्षः ।) गौणचान्द्रा-श्विनकृष्णपक्षः तत्र मृतस्य पार्व्वणविधिनार्सावत्सरिकं श्राद्ध्वं कर्त्तव्यम् यथा, --“आषाढ्याः पञ्चमे पक्षे कन्यासंस्थे दिवाकरे ।यो वै श्राद्धं नरः कुर्य्यादेकस्मिन्नपि वासरे
तस्य संवत्सरं यावत्तृप्ताः स्युः पितरो ध्रुवम्
नभा वाथ नभस्यो वा मलमासो यदा भवेत् ।सप्तमः पितृपक्षः स्यादन्यत्रैव तु पञ्चमः
इति ।तत्र मृतस्य ।“सपिण्डीकरणादूर्द्ध्वं यत्र यत्र प्रदीयते ।तत्र तत्र त्रयं कुर्य्याद्बर्ज्जयित्वा मृताहनि
अमावास्यां क्षयो यस्य प्रेतपक्षेऽथवा पुनः ।सपिण्डीकरणादूर्द्ध्वं तस्योक्तः पार्व्वणो विधिः
”इति शङ्खोक्तेन प्रत्याब्दिकं पार्व्वणविधिना कर्त्त-व्यम् इति मलमासतत्त्वम्
*
तत्र निषिद्ध-दिनेऽपि तिलतर्पणं कर्त्तव्यम् यथा, स्मृतिः ।“तीर्थे तिथिविशेषे गङ्गायां प्रेतपक्षके ।निषिद्धेऽपि दिने कुर्य्यात् तर्पणं तिलमिश्रितम्
”इति मलमासतत्त्वम्