प्रेतपक्ष (pretapakSa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiप्रेतपक्षः
प्रेत-पक्षः -
पितृपक्ष
Shabdartha Kaustubha
Kannadaप्रेतपक्ष
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪಿತೃಪಕ್ಷ
L R Vaidya
Englishशब्दकल्पद्रुमः
Sanskritप्रेतपक्षः, (प्रेतप्रियः पक्षः ।) गौणचान्द्रा-श्विनकृष्णपक्षः । तत्र मृतस्य पार्व्वणविधिनार्सावत्सरिकं श्राद्ध्वं कर्त्तव्यम् । यथा, --“आषाढ्याः पञ्चमे पक्षे कन्यासंस्थे दिवाकरे ।यो वै श्राद्धं नरः कुर्य्यादेकस्मिन्नपि वासरे ॥
तस्य संवत्सरं यावत्तृप्ताः स्युः पितरो ध्रुवम् ॥
नभा वाथ नभस्यो वा मलमासो यदा भवेत् ।सप्तमः पितृपक्षः स्यादन्यत्रैव तु पञ्चमः ॥
” इति ।तत्र मृतस्य ।“सपिण्डीकरणादूर्द्ध्वं यत्र यत्र प्रदीयते ।तत्र तत्र त्रयं कुर्य्याद्बर्ज्जयित्वा मृताहनि ॥
अमावास्यां क्षयो यस्य प्रेतपक्षेऽथवा पुनः ।सपिण्डीकरणादूर्द्ध्वं तस्योक्तः पार्व्वणो विधिः ॥
”इति शङ्खोक्तेन प्रत्याब्दिकं पार्व्वणविधिना कर्त्त-व्यम् । इति मलमासतत्त्वम् ॥
* ॥
तत्र निषिद्ध-दिनेऽपि तिलतर्पणं कर्त्तव्यम् । यथा, स्मृतिः ।“तीर्थे तिथिविशेषे च गङ्गायां प्रेतपक्षके ।निषिद्धेऽपि दिने कुर्य्यात् तर्पणं तिलमिश्रितम् ॥
”इति च मलमासतत्त्वम् ॥
वाचस्पत्यम्
Sanskritप्रेतपक्ष प्रेतानां पितॄणां प्रियः पक्षः शा० त० । गौणा-श्विनकृष्णपक्षे अत्र मृतयोः पित्रोः पार्वणविधिनात्रैपुरुषिकं श्राद्धं करणीयं यथाह श्रा० त० शङ्खः“सपिण्डीकरणादूर्द्ध्वं यत्र यत्र प्रदीयते । तत्र तत्रत्रयं कुर्य्यात् वर्जयित्वा मृताहनि । अमावस्यां क्षयोयस्य प्रेतपक्षेऽथ वा पुनः । सपिण्डीकरणादूर्द्ध्वंतस्योक्तः पार्वणो विधिः” । त्रयं सम्प्रदानानां त्रयंकुर्य्यात् त्रिभ्यो दद्यादित्यर्थः । मृताहपर्युदस्तत्रिदै-वतत्वस्य प्रतिप्रसवमाह अमावस्यामिति प्रेतपक्षोऽत्रपितृपक्षः अश्वयुक्कृष्णपक्ष इति यावत् न तु कृष्ण-पक्षमात्रं कृष्णपक्षसामान्यपरत्वेऽमावास्यापदवैयर्थापत्तेःपितृपक्षं विशेषयति हेमाद्रिमाधवाचार्य्यधृतं नाग-रखण्डम् “नभो वाऽथ नभस्यो वा मलमासो यदाभवेत् । सप्नमः पितृपक्षः स्यादन्यत्रैव तु पञ्चमः” । अत्रश्रावणभाद्रयोरन्यतरस्य मलमासत्वे आषाढापेक्षयासप्तमपक्षस्य पितृपक्षत्वात् अत्र मृतस्यैव प्रेतपक्षमृतत्वंन तु मलमासभाद्रकृष्णबक्षे मृतस्य । ततश्च तत्र मृतस्यवर्षान्तरेऽश्वयुक्कृष्ण क्षेऽपि तच्छ्राद्धकरणे न पार्वणंकिन्त्वेकोद्दिष्टमिति । अत्र पार्वणो विधिः पार्वणेतिकर्त-व्यताकैकोद्दिष्टविधिरिति नव्यवर्द्धमानप्रभृतयः । तन्नपूर्यवचनोक्तत्रैपुरषिकस्य मृताहे पर्युदस्तस्य पार्वणोवि-धिरित्यनेन प्रतिप्रसवात् । तस्मात् सदैकोद्दिष्टं त्रैपुरुषिकंन तु षाट्पौरुषिकं “कर्षूसमन्वितं मुक्त्वा तथाद्यं श्राद्ध-षोडशम् । प्रत्याव्दिकञ्च शेषेषु पिण्डाः स्युः षडितिस्थितिः” इति छन्दोगपरिशिष्टवचनेन प्रत्याव्दिकव्यतिरेकेण षट्संख्यानियमात् एवममावस्यादिमरणनिमित्तेनप्रातुरपि प्रत्याव्दिकं पार्वणविधिनैव “अपुत्रा येमृताः केचित् स्त्रियो वा पुरुषाश्च ये । तेषामपि चदेयं स्यादेकोद्दिष्टं न पार्वणम्” इति आपस्तम्बवचनेअपुत्रा इति विशेषणोपादनात् सपुत्राणां पार्वणाभ्यनु-ज्ञानात् । एतच्च मात्रादित्रितयदैवतं कार्यम् । “मात्रेपितामह्यै प्रपितामह्यै पूर्ववत् व्राह्मणान् भोजयित्वा”इत्यन्वष्टकायां तथादर्शनात् अवसानदिननिमित्तत्वेनपार्वणविधिना छन्दोगैरपि मात्रादित्रिकाणां श्राद्धंकर्त्तव्यम् “न योषिद्भ्यः पृथग् दद्यादवसानदिनादृते” ।इति छन्दोगपरिशिष्टवचने विशेषतः प्रतिप्रसवात् ।एवं सपिण्डीकरणेऽपि । एतच्च मृताहपार्वणं माता-पित्रोरेव । तथा च हेमाद्रिधृतकात्यायनवचनम् “सपि-ण्डीकरणादूर्द्ध्वं पित्रोरेव हि पार्वणम् । पितृव्यभा-तृमातृणामेकोद्दिष्टं सदैव तु” । मातृपदं सपत्नीमातृ-परम् । सपत्नीमात्रित्यत्र मातृपदस्य राजदन्तादि-त्वात् परनिपातः ततश्च वाक्ये मातृसपत्नीति न प्र-योज्यं किन्तु सपत्नीमातरित्यादिकम् । एवं साग्नि-कौरसक्षेत्रजाभ्यां मृताहे पार्वणं कर्त्तव्यम् “औरसक्षे-त्रजौ पुत्रौ विधिना पार्वणेन तु । प्रत्यव्दमितरे कुर्युरे-कोद्दिष्टं सुता दश” इति जावालवचनस्य “यत्र यत्रप्रदातव्यं सपिण्डीकरणात् परम् । प्रार्वणेन विधानेनदेयमग्निमता सदा” इति मत्स्यपुराणवचनस्य चैकवा-क्यत्वात् । उशना च “प्रत्यव्दं दर्शवच्छ्राद्धं साग्निःकुर्वीत वै द्विजः । एकोद्दिष्टं सदा कुर्य्यान्निरग्निःश्राद्धदः सुतः” । अत्र नि० सि० विशेषमाहवृद्धपराशरः “संग्रामे संस्थितानाञ्च प्रेतपक्षे शशि-क्षये । तेषां पार्वणमेवोक्तं क्षयाहेऽपि च सत्तमैः” । “चन्द्रक्षयानाशकंयुगेषु यः प्रेतपक्षे मृतवान् सपिण्डः ।मपिमिद्धतानामपि चाव्दिकानि भवन्ति तेषानिह पार्ब-णानि” । तथा “भ्रातुर्ज्येष्ठस्य कुर्वीत ज्येष्ठो भ्रातामु-जस्य च । दैवहीनं तु तत्कुर्य्यादिति धर्मविदब्रवीत्” ।दैवहीनमेकोद्दिष्टम् ज्येष्ठो भ्रातानाद्यगर्भजः तथा चतत्रैवशातातपः “अनाद्यगर्भोज्येष्ठोऽपि भ्राता सद्भि-र्निगद्यते । ऋते सपिण्डनात्तस्य नैव पार्वणमाचरेत्” ।आद्यगर्भे तु पार्वणमेकोद्दिष्टं वेत्यर्थः । मातुस्तु हेमाद्रौकात्यायनः “प्रत्यव्दं यो यथा कुर्य्यात् पुत्रः पित्रे सदाद्विजः । तथैव मातुः कर्त्तव्यं पार्वणं चान्यदेव वा” ।यत्तु तेनैवोक्तम् “सपिण्डीकरणादूर्ध्वं पित्रोरेव हिपार्वणम् । पितृव्यभ्रातृमातृणामेकोद्दिष्टं सदैव तु”इति तत् सापत्नमातृपरम् । यत्तु वृद्धपराशरः “अपुत्रस्यपितृव्यस्य तत्पुत्रो भ्रातृजो भवेत् । स एवास्य तु कु-र्वीत पिण्डदानादिकक्रियाम् । पार्वणं तेन कार्य्यंस्यात् पुत्रवद्भ्रातृजेन तु । पितृस्थाने तु त कृत्वा शेषंपूर्ववदाचरेत्” इति तत्पितृवद्देशाचारवद्व्यवस्थितमितिपृथ्वी चन्द्रः । श्राद्धदीपकलिकायां चतुर्विंशतिंवते तु“पितृव्यभ्रातृसातृणां ज्येष्ठानां पार्वणं भवेत् । एकोद्-दिष्टं कनिष्ठानां दम्पत्योः पार्वणं मिथः । अपुत्रस्य पि-तृध्यस्य भ्रातुश्चैवाग्रजन्मनः । मातामहस्य तत्पत्न्याःश्राद्धं पार्वणवद्भवेत्” इत्युक्तं तत्पत्न्याः कर्तृत्वेऽपि पार्व-णमेव “सर्वाभावे स्वयं पत्न्याः स्वभ्रातॄणाममन्त्रकम् ।सपिण्डीकरणं कुर्युस्ततः पार्वणमेव च” इति लौगाक्षिस्मृतेः । “ततः पत्न्यपि कुर्वीत सापिण्ड्यं पार्वणं तथेति”सुमन्तूक्तेश्चेति निर्णयामृते उक्तम् । अन्ये त्वेतत्पाक्षिकपार्वणपरमाहुः अतएव “भर्तुः श्राद्धं तु या नारीमोहात्पार्वणमाचरेत् । न तेन तृप्यते भर्त्ता कृत्वा तुनरकं व्रजेत्” इति वचनं क्षयाहे पाक्षिकैकोद्दिष्टप्रशंसार्थं न पार्वणनिषेधार्थमित्युक्तं त्रिस्थलीसेतौ भट्टच-रणैः । स्वभर्तृप्रभृतित्रिभ्य इत्यनेन विरोधाच्च अपुत्राणामृचाह हेमाद्रावापस्तम्वः “अपुत्रा ये मृताः केचित्स्त्रियो वा पुरुषाश्च गे । तेषामपि च देयं स्यादैकोद्-दिष्टं न पार्वणम् । मित्रबन्धुसपिण्डेभ्यः स्त्रीकुमारीभ्यएव च । दद्याद्वै मासिकं श्राद्धं सांवत्सरमतोऽन्यथा” ।पारिजाते तु अन्यथा पार्वणमित्युक्त्वा सर्वत्र पार्वणमि-त्युक्तम् एकोद्दिष्टवाक्यानि तु तीर्थमहालयपराणी-त्युक्तम् । पृथ्वीचन्द्रोदये वृद्धगार्ग्यः “मातुः सहोदराया च पितुः सहभवा च या । तयोश्च नैव कुर्वीत्पार्वणं पिण्डनादृते” प्रचेताः “सपिण्डीकरणादूर्ध्व-मेकोददिष्टं विधीयते । अपुत्राणां च सर्वेषामपत्नीनांतथैव च” । अपत्नीनां ब्रह्मचर्य्यादीनाम् । मार्कण्डेयपु-राणे “प्रतिसंवत्सरं कार्यमेकोद्दिष्टं नरैः स्त्रियाः ।मृताहनि यथान्यायं नृणां यद्वदिहोदितम्” । नृणा-मिति दृष्टान्तात् नोविप्रहतपाषण्ड्यादीनां सपिण्ड-नाभायेऽपि सांवत्सरमेकोद्दिष्टं कार्यमेवेति शूलपाणिः ।अत्रिवृद्धवसिष्ठौ “सपिण्डीकरणादूर्ध्वं यत्र यत्र प्रदी-यते । भ्रात्रे भगिन्यै पुत्राय स्वामिने मातुलाय च ।पितृव्यगुरवे श्राद्धमेकोद्दिष्टं न पार्वणम्” । यत्तुजातूकर्ण्यः “पितृव्यभ्रातृमातॄणामपुत्राणां तथैव च ।मातामहस्यासुतस्य श्राद्धादि पितृवद्भवेत्” इति तदाव-श्यकत्वार्थं न तु पार्वणार्थमिति हेमाद्रिः । युक्तन्त्वेवम्“मायः पितरमारभ्य त्रयो मातामहाः स्मृताः । तेषांतु पितृवच्छाद्धं कुर्युर्दुहितृसूनवः” इति पुलस्त्योक्ते-र्मातामहस्य पार्वणमेव तत्साहचर्य्यात् पितृव्यादौ तथा“पितृव्यभ्रातृमातॄणामेकोद्दिष्टं च पार्वणमिति” क्षयाहो-पक्रमे पुलस्त्योक्तेश्च विकल्पः । केचित्त्वापस्तम्बादिवा-क्यानि “व्युत्क्रमाच्च प्रमीतानां नैव कायां सपिण्डता”इत्यस्य पितृव्यादिपरत्वादकृतसपिण्ड न पितृव्यादिपराणी-त्याहुः । माता सपत्नीमाता । एकोद्दिष्टं तु कनिष्टपर-मिति पृथ्वीचन्द्रोदयेऽप्येवम् । विशेषस्मधिकारिनिर्णयेपागुक्तः । केवित्पुत्राभावेऽपि पितामहवार्षिकमप्याव-श्यकम् “पुत्राभावे च तत्पुत्रः पत्नी माता तथा पिता ।वित्तामानेऽपि सच्छिव्यः कुर्य्यात्तखौर्ध्वदेहिकम्” इतिमार्कण्डेयपुराणादित्याहुस्तत्र “पौत्रेणैकादशाहादिकर्त्तव्यं श्राद्धषोडशमिति” कातीये विशेषोक्तेः ।प्रेतपक्षे श्राद्धकालादिनिरूपणम् श्वा० बि० यथाब्रह्मपुराणे “अश्वयुक्कृष्णपक्षे त श्राद्धं कुर्य्याद् दिने-दिने । त्रिमागहीनं पक्षं बा त्रिभावं स्वर्द्धमेव वा ।न सन्ति पितरश्चेति कृत्वा मनसि यो नरः । श्राद्धंन कुरते तत्र तस्य रक्तं पिनन्ति ते । यावच्च कन्यातुलयोःक्रमादास्ते दिवाकरः । तावत् श्रद्धस्य कालः स्या-च्छून्यं प्रेतपुरं तदा” । दिने दिने इति वीप्सा पक्षश्राद्धार्था तेन पञ्चदश श्राद्धानि दर्शितानि । ननु तिथि-ह्रामादेकस्विन्नेव वक्षे चतुर्दशत्वादह्नां चतुर्दश श्राद्धानिप्राप्नुवन्ति । एवं तिथिवृद्याहर्वृद्धौ षोडशस्युः । न पञ्च-दशतिथ्यात्मकत्वाच्चान्द्रपक्षस्य दिने दिने पन्नदशतिथि-ष्वित्यर्थः तथा च एकस्मिन् दिने श्रातयोग्यतिथिद्वय-स्वाभे श्राद्धद्वयम् अहोरात्रवृद्धौ न श्राद्धवृद्धिः । तथा चविष्णुधर्मोत्तरप्रथमकाण्डम् “तिथिनैकेन दिवसश्चान्द्र-मानेन कीर्त्तितः । अहोरात्रेण चैकेन सावनो दिवसःस्मृतः” । त्रिभामहीनं पक्षं वा इति षष्ठ्यादिकल्प उक्तःत्रिभागमित्येकादश्यादिकल्प उक्तः अर्द्धमेवेति त्रयो-दश्यादिकल्पः । न तु अर्द्धमिति पक्षार्द्धमिति व्याख्यानंकल्पतरूक्तं० युक्तम् उत्तरोत्तरलघुकालोपदेशात् सन्नि-धानाच्च त्रिभागार्द्धप्रतीतेः । त्रिभागहीनत्रिभागपदयो-रपि पञ्चम्यादिविवेचनं कल्पतरोर्न युक्तमेव पक्षापेक्षयापञ्चम्यादेस्त्रिभागहीनादिपदार्थत्वानुपपत्तेरमुख्यत्वात् ।गोतमोक्तपञ्चम्यादिकल्पस्य सामान्योपक्रमान्नाश्वयुक्पर-त्वम् । अतएव विष्णुधर्मोत्तरप्रथमकाण्डम् “उत्त-रादयनात् श्राद्धे श्रेष्ठं स्याद्दक्षिणायनम् । चातुर्मास्यञ्चतत्रापि प्रसुप्ते केशवे हितम् । प्रौष्ठपद्याः परः पक्ष-स्तत्रापि च विशेमतः । पञ्चम्यूर्ध्वञ्च तत्रापि दश-म्यूर्ध्वमतोऽप्यति । मघायुक्ता च तत्रापि शस्ता राजं-स्त्रयोदशी” । पञ्चव्यूर्ध्वदशम्यूर्ध्वमित्यनेन षष्ठ्याद्येकादश्या-दिकल्पावुक्तौ । न सन्वीत्यनेनाकरणे प्रत्यवायदर्शनंनित्यत्वज्ञापनार्थं तत्र च पक्षश्राद्धादिकल्पानां विषम-शिष्टत्वेनेच्छाविकल्पाऽसम्भवादेकादेया तिस्रो देयाःषड्देया इतिवत् फलभूमा कल्पनीयः । एतेषामेव क-ल्पानां दर्शितत्वादाश्विने कृष्णपक्षे एकस्मिन्नपि दिने श्राद्धंकर्त्तव्यमिति पक्षश्चिन्तनीयः सामान्यमासविहितन्तुस्यादेव । अत्र संशयः प्रौष्ठपद्यूर्ध्वं यः कृष्णपक्षः सपौर्णमास्यन्तमासव्यवस्थयाऽश्वयुक्कृष्णपक्षो भवति स यदाकन्योपक्रमः कन्यासमाप्यश्च तदा तत्र पक्षश्राद्धमविवाद-मेय यदा सिंहोपक्रमः कन्यासमाप्यश्च समस्त एव वासिंहसमाप्यः तदा कीदृशः शास्त्रार्थः । अत्र स्विकन-प्रभृतयः ब्रह्मपुराणादिवचनैरेवात्र व्यवस्यां द्रष्टव्या-माहुः । यथा ब्रह्मपुराणम् “यावच्च कन्यातुलयोःक्रसादास्ते दिवाकरः । तावत् श्राद्धस्य कालः स्यात्शून्यं प्रेतपुरं तदा” । तथा भविष्यपुराणे “कन्यां गतेसवितरि पितृराजानुशासनात् । तावत् प्रेतपुरी शून्यायावद्वृश्चिकदर्शनम् । ततो वृश्चिक आधाते निराशाःपितरो नृप! । पुनः स्वभवनं यान्ति शापं दत्त्वा सुदा-रुणम् । हंसे वर्षासु कन्यास्थे शाकेनापि मृहे वसन् ।पञ्चम्या उत्तरे दद्यादुभयोर्वंशयोरृणम् । सूर्ये कन्या-स्थिते श्राद्धं यो न कुर्य्याद्गृहाश्रमी । कुतस्तस्म धनंपुत्राः पितृनिःश्वासपीडनात्” । हंसे सूर्य्ये इति । ऋण-मिव ऋणं पितृमातृकुलस्येदमवश्यं परिशोध्यम् इत्यर्थःएवमादिवचनैः कन्यासम्बन्धेनैव श्राद्धप्रतिपादनात् एत-स्यापि वचनस्य तदेकवाक्यतया सौराश्विनपरत्वम् । सौर-परत्वे लक्षणा स्यादिति चेन्न पौर्णमास्यन्तेऽपि तथात्वात् ।अतः सिंहोपक्रमे कृष्णपक्षे कन्यासम्बन्धिन्येव भागेश्राद्धं स्यात् न सिंहसम्बन्धिनि अत पक्षश्राद्धं तत्रनिवर्त्तत एव त्रिभागहीनमित्यादयः पक्षास्तत्र यथा-सम्भवं योजनीयाः । कन्यासम्बन्धिन्यपरपक्षे श्राद्ध-विधानात् उपक्रमे सिंहसम्बन्धेऽपि पक्षस्य कन्यासम्ब-न्धोऽस्त्येवेति चेन्न एकस्य पक्षावयविनः पञ्चदशतिथ्या-त्मकस्याभावात् अत एव पञ्चदशब्राह्मणसमुदायमध्येएकस्य पुरुषोत्तमस्पर्शे न सर्वेषां पुण्यभागिता एतन्मूलमेवेदं वचनं “कृत्तिकादिभरण्यन्तं वारा वा रविसप्तकाः ।नैते संयोगमात्रेण पुनन्ति सकलां तिथिम्” । एकस्यतिथ्यवयविनोऽभावादित्यर्थः इतरथा तु पूर्वदिने रात्रौचतुर्थीमौमवारयोगे बुधवारेऽपि भौमयुक्तचतुर्थीविहितस्नानदानाद्यापत्तेः । यदा समस्त एवापरपक्षःसिंहार्के निपतेत् तदा तं पक्षं विहाय कन्यागतापर-पक्ष एव श्राद्धम् । नन्वेवं पञ्चमपक्षविरोधः । तथाकार्ष्णाजिनिः “शक्रध्वजनिपाताङ्को यः स्यात् पक्षस्तुपञ्चमः । स विज्ञेयोऽपरः पक्षः श्राद्धं तत्र विधीयते ।पुत्रमायुर्धनं धान्यं भूतिमारोग्यमेव च । प्राप्नोति पञ्चमेदत्त्वा श्राद्धं कामांस्तथा परान् । एतानेव हि हिंसन्तिपञ्चमं यो व्यतिक्रमेत् । तस्मान्नातिक्रमेद् विद्वान् पञ्चमेपैवृकं विधिम्” । तथा जातूकर्ण्यः “आषाढीमवधिं कृत्वायः स्यात् पक्षस्तु पञ्चमः । तत्र श्राद्धं प्रकुर्वीत कन्यांगच्छतु वा न वा” । जावालः “अगतेऽपि रवौ कन्यांश्राद्धं कुर्वीत यत्नतः । आषाद्याः पञ्चमः पक्षः प्रशस्तःपिवृकर्मणि” । उच्यते एतेषां वचनानां भोजदेवप्रभृतिभि-रलिस्यितत्वेन प्रामाण्याभावात् प्रत्युत पुत्रादिफलसम्ब-न्धावगमात् काम्यं तद्भविष्यति । कन्यागतस्य च निन्यत्वंप्रागेव दर्शितम् । न च काम्याधिकारनित्याधिकारयो-रेकशास्त्रार्थत्वं यावज्जीवाधिकरणविरोधात् । तद्यदिफलार्थितथा कन्यासम्बन्धरहित एव श्राद्धं कृतंतथापि कन्यायामवश्यं कर्त्तव्यम् । वस्तुतस्तु श्राद्धभेदेविधिगौरवापत्तेः कन्यागतश्राय एव फलार्थितया पञ्चम-पक्षाख्यगुणफनविधिः तदा केवलं भ्रमपक्षे श्राद्ध-मसङ्गतमेव “कन्यां गच्छतु वा नवेति” पञ्चमपक्षस्तुत्यर्थंन तु कन्यासम्बन्धाभावेऽपि श्राद्धविधानपरं प्राप्ते कन्या-गतश्राद्धे गुणफलविधित्वात् तदसङ्गतं ब्रह्मपुराणे“पौर्णमास्यन्तमासेनैव समस्ततिथिकृत्याभिधानात् अश्वयुक्शब्दस्यापि पौर्णमास्यान्तपरत्वात् न सौराश्विनपरत्वम्“आश्वयुज्यां तु कृष्णायां त्रयोदश्यां मघासु च” इतिब्रह्मपुराण एव अश्वयुक्शब्दस्यापि पौर्णमास्यन्तपरत्वावधा-रणाच्च पौर्णमास्यन्ताश्विन एव मघा त्रयोदशी भवति नदर्शान्ते, लक्षणा च सौरेऽप्यविशिष्टा । अतएव न मुख्य-त्वाय दर्शान्तपरतापि क्लप्ततात्पर्य्यानुपपत्त्या लक्षणायांधान्यमस्यधिकरणे दर्शितत्वात् । इदन्तु उच्यते उक्तयुक्तेःपौर्णमास्यान्ताश्विनपरत्वे कन्यानिरपेक्षपञ्चमपक्षे पक्षश्रा-द्धादिकल्पा नित्यतयाऽवगम्यन्ते न कन्याविशिष्टा निरपेक्ष-श्रुतेः अत एव न गुणफलविधिः । अत एव कन्यासम्बन्धा-नुद्भेदेनैव प्रौष्ठपद्यूर्ध्वं पञ्चमपक्षे कृष्णपक्षश्राद्धादिकं दर्श-यति विष्णुधर्मोत्तरप्रथमकाण्डम् “उत्तरादयनात् श्राद्धेश्रेष्ठं स्यात् दक्षिणायनम् । चातुर्मास्यञ्च तत्रापिप्रसुप्ते केशवे हितम् । प्रौष्ठपद्याः परः पक्षस्तत्रापि चविशेषतः । पञ्चम्यूर्द्धञ्च तत्रापि दशम्यूर्ध्वमतोऽप्यति ।मघा युक्ता च तत्रापि शस्ता राजंस्त्रयोदशी । तत्राक्षयंभवेत् श्राद्धं मधुना पायसेन तु । सर्वस्वेनावि कर्त्तव्यंश्राद्धमत्र नराधिप! । परान्नभोजी त्वपचः श्राद्धमत्रतु कारयेत्” । यानि च कन्याविषयाणि वचनानितानि पञ्चमपक्षानपेक्षश्राद्धान्तरविधायकान्येव । कन्याप्रौष्ठपद्यूर्द्ध्वपञ्चमपक्षसमुच्चयेऽपि कन्थागतस्यापि श्राद्धस्यनित्यत्वेनावगम्यमानस्य तन्त्रादेव सिद्धेर्न पृथक्करणम् ।यदा न कन्यासमुच्चयस्तदा कन्यायामपि नित्यत्वात् कर्त्तव्यमेव परन्तु पक्षश्राद्धादिकल्पेषु प्राभाणाभावात् सकृत्-कृते कृतः शास्त्रार्थ इति न्यायात् सकृदेव श्राद्धं कर्त्त-व्यम् न अधिमासपाते तत्र श्राद्धं न कर्त्तव्य यथा लघु-हारीतः “सपिण्डीकरणादूर्द्ध्वं यत्किञ्चित् श्राद्धिकं भ-वेत् । इष्टं वाप्यथ वा पूर्त्तं तन्न कुर्य्यान्मलिम्लुचे” ।एवमधिमासदोषेणापाटवादिना च तत्र श्राद्धाकरणे तु-लायां कर्त्तव्यतामाहं ब्रह्मपुराणे “यावच्च कन्यातुलयोःकमादास्ते दिवाकरः । तावत् श्राद्धस्य कालः स्यात्शून्यं प्रेतपुरं तदा” । अत्र कन्यातुलयोर्दिवाकरावस्थितेःक्रमादेव प्राप्तत्वात् क्रमात् श्राद्धस्य कालः स्वादित्यम्बयःमुख्यकल्पामुकल्पभावेनेत्यर्थः ।यस्य या मृततिथिस्तस्य प्रेतपक्षे तत्सजातीयतिथिःपौर्णमासीमृतस्य तु प्रौष्ठपद्येव पार्वणश्राद्धकालः इतिहेमाद्रिप्रभृतिव्यवस्थेति पाश्चात्त्यदक्षिणात्यानां तथा-चारः । प्रा० वि० तन्मूलव बनानाममूलकत्वमुक्तमतोवङ्गानांन तथाचार इति बोध्यम् । अधिकमपरपक्षशब्दे २३१पृ० दृश्यम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
