| YouTube Channel

प्रेतदेहः (pretadehaH)

 
शब्दकल्पद्रुमः
Sanskrit
प्रेतदेहः, पुं
क्ली,
(प्रेतस्य देहः ।) प्रेतशरीरम् ।यथा, --“कृते सपिण्डीकरणे नरः संवत्सरात् परम् ।प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यते
”इति तिथ्यादितत्त्वधृतविष्णुधर्म्मोत्तरीयवचनम्
पूरकपिण्डदानेन तदुत्पत्तिर्यथा, --“शिरस्त्वाद्येन पिण्डेन प्रेतस्य क्रियते सदा ।द्बितीयेन तु कर्णाक्षिनासिकास्तु समासतः
गलांसभुजवक्षांसि तृतीयेन यथाक्रमात् ।चतुर्थेन तु पिण्डेन नाभिलिङ्गगुदानि
जानुजङ्घे तथा पादौ पञ्चमेन तु सर्व्वदा ।सर्व्वमर्म्माणि षष्ठेन सप्तमेन तु नाडयः
दन्तलोमाद्यष्टमेन वीर्य्यश्च नवमेन तु ।दशमेन पूर्णत्वं तृप्तता क्षुद्विपर्य्ययः
”इति शुद्धितत्त्वधृतकूर्म्मपुराणवचनम्