| YouTube Channel

प्रेततर्पणं (pretatarpaNaM)

 
शब्दकल्पद्रुमः
Sanskrit
प्रेततर्पणं,
क्ली,
(प्रेतस्य तर्पणम् ।) मरणावधि-सपिण्डीकरणपर्य्यन्तं प्रेतशब्दोल्लेखेन जलदानम् ।यथा “अत्र प्रेततर्पणे तिलांस्त्विति विशेषो-पादानात् सूर्य्यादिवारेणापि तिलैरेव तर्पणंप्रतीयते
तदनुष्ठानं यथा अपः सर्व्वे शव-स्पर्शिनो गत्वा पितृपदस्थाने प्रेतपदोहेन द्बिती-यान्तं तर्पयेयुः पितृशब्दोच्चारणेऽपि पितृहाभवति एतेन अमुकगोत्रं प्रेतं अमुकदेव-शर्म्माणं तर्पयामि इति सामगानां प्रयोगः ।यजुर्व्वेदिनान्तु अमुकगोत्र प्रेत अमुकदेवशर्म्मन्तृप्यस्व इति सम्बोधनान्तवाक्यम् ।” इतिशुद्धितत्त्वम्