| YouTube Channel

प्रेततर्पण (pretatarpaNa)

 
शब्दकल्पद्रुमः
Sanskrit
प्रेततर्पणं,
क्ली,
(प्रेतस्य तर्पणम् ।) मरणावधि-सपिण्डीकरणपर्य्यन्तं प्रेतशब्दोल्लेखेन जलदानम् ।यथा “अत्र प्रेततर्पणे तिलांस्त्विति विशेषो-पादानात् सूर्य्यादिवारेणापि तिलैरेव तर्पणंप्रतीयते
तदनुष्ठानं यथा अपः सर्व्वे शव-स्पर्शिनो गत्वा पितृपदस्थाने प्रेतपदोहेन द्बिती-यान्तं तर्पयेयुः पितृशब्दोच्चारणेऽपि पितृहाभवति एतेन अमुकगोत्रं प्रेतं अमुकदेव-शर्म्माणं तर्पयामि इति सामगानां प्रयोगः ।यजुर्व्वेदिनान्तु अमुकगोत्र प्रेत अमुकदेवशर्म्मन्तृप्यस्व इति सम्बोधनान्तवाक्यम् ।” इतिशुद्धितत्त्वम्
वाचस्पत्यम्
Sanskrit
प्रेततर्पण
न०
त० मृगोद्देशेन् वर्षपर्य्यन्तं प्रेतशब्दोल्ले-खेन कर्त्तव्ये तर्पणविशेषे तद्विधानं शु० ति० यथामिश्राचार्य्यपृथ्वीधरधृतविष्णुसूत्रम् “अतः सर्वेशवस्पर्शिनो गत्वा पितृपदस्थाने प्रेतपदोहेन द्वितीयान्तंतर्पयेयुः पितृशब्दोच्चारेण पितृहा भवति” शाता-तपः “प्रेतान्तनामगोत्राभ्यामुत्सृजेदुपतिष्ठताम्” इतिप्रेतान्तेति तत्पुरुषः बहुव्रीहिः सर्वजघन्यत्वात्तेन प्रेतान्तनाम--गोत्रञ्चेति समासः एतद्वचनाच्चितापि-ण्डदाने उपतिष्ठतामिति पितृदयितायामप्युक्तम् एतेनप्रेतकार्ये समन्धार्थकपदप्रयोगो मैथिलोक्तो हेयः एते-नामुकगोत्रममुकदेवशर्माणं तर्पयामीति मामगानां प्र-योगः अत्र प्रेततर्पणे सतिलांस्त्विति विशेषापादानात्सूर्य्यादिवारेऽपि तिलैरेव तर्पणं प्रतीयते व्यक्तमाहकदमपारिजातधृता स्मृतिः “अयने विषुवे चैव संक्रान्त्यांग्रहणेषु उपाकर्मणि चोत्सर्गे युगादौ मृतवा-सरे सूर्य्यशुक्रादिवारे दोषस्तिलतर्पणे” तथा“तीर्थे तिथिविशेषे कार्य्यं प्रेते सर्वदा” तिथिवि-शेषे अमावस्यादशहरादौ अत्र दक्षिणाङ्गुष्ठसहित-मध्यमादिना वामहस्ते तिलदानं “वामहस्ते तिलान्दत्त्वा जलमध्ये तु तर्पयेत् मुक्तहस्तन्तु कर्त्तव्यं नमुद्रां तत्र दर्शयेत्” इति विद्याकरधृतवचने वामहस्तइति सप्तम्यन्तश्रवणात् “तिलान् संमिश्रयेज्जले” इतितिलाधिकरणमुपक्रम्याभिधानाच्च “सव्येन तिलाःग्राह्याः” इत्यत्रापि वामहस्ते स्थाप्या इत्यर्थः सव्येनेतिस्थाल्या पचतीतिवधिकरणे तृतीया “विवक्षातो हिकारकाणि भवन्ती” त्युक्तेः मुद्रा अङ्गुष्ठतर्जन्यात्मकयोग-रूपा तिलग्रहणायेति शेषः”