| YouTube Channel

प्रुषु (pruSu)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
प्रुष्
मूलधातुः:
प्रुषु
धात्वर्थः:
दाहे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
प्रोषति
कृदन्तरूपमाला
Sanskrit
1 {@“प्रुषु दाहे”@} 2 ‘--स्नेहनादिषु।
प्रुष्णाति च, प्रोषति दाहे--।।’ 3 इति देवः।
प्रोषकः-षिका, प्रोषकः, पुप्रोषिषकः-पुप्रुषिषकः-षिका, पोप्रुषकः-षिका-इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकपोषतिवत् 4 ज्ञेयानि।
5 प्रोषित्वा-प्रुष्ट्वा, 6 7 प्रुष्टम्-प्रुष्टवान् इति रूपाण्यस्माद्भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१०७६)
02
=>
(१-भ्वादिः-७०३। सक। सेट्। पर।)
03
=>
(श्लो। १७२)
04
=>
(१०२६)
05
=>
[[७। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इट्पक्षे ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधात् प्रोषित्वा इति रूपम्।]]
06
=>
[पृष्ठम्०९०७+ २६]
07
=>
[[१। निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इति इण्निषेधः।]]