प्रीञ् (prIJ)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुपाठः (Krishnacharya)
Sanskrit प्री
प्रीञ्
तर्पणे, कान्तौ च
क्र्यादिः
सकर्मकः
अनिट्
उभयपदी
प्रीणाति-प्रीणीते
इकारान्तः
प्री
प्रीञ्
तर्पणे, कान्तौ च
चुरादिः
सकर्मकः
सेट्
उभयपदी
प्रीणयति-ते
आधृषीयः, ईकारान्तः
धातुप्रदीपः
Sanskritप्रीञ् तर्पणे
- प्रीणाति प्रीणीते पिप्राय पिप्रिये प्रीणयति अपिप्रीणत् प्रियः छात्रप्रियोऽध्यायः 2
प्रीञ् तर्पणे
- प्राययति प्रयति प्रयते ञित्त्वफलं केवले चरितार्थम् इति ण्यन्तात् परस्मैपदमेव 280
क्षीरतरङ्गिणी
Sanskritप्रीञ् तर्पणे, कान्तौ च
- (अर्थविवरणम्) कान्तिरभिलाषः
प्रीणाति, प्रीणीते धूञ्प्रीञोर्नुक् (7337 वा0)-प्रीणयति इगुपधज्ञा (31135) इति कः-प्रियः दिवादौ प्रीङ् प्रीतौ (434)-प्रीयते 2
प्रीञ् तर्पणे
- प्रीणयति, प्रीञ्धूञोर्नुक् च साहचर्यात् (तु0 7337 वा0) प्राययति इत्येके, प्रयते, प्रयति, प्रीणितः दिवादौ प्रीङ् प्रीतौ (434)-प्रीयते, क्र्य्यादौ (92) प्रीणाति, प्रीणीते 279
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुवृत्तिः
Sanskritप्रीञ् (अर्थः) तर्पणे, कान्तौ च
(अर्थविवरणम्) कान्तिः कामनेति
पुरुषकारे ( प्रीणाति प्रीणीते ) इत्यादि क्रीणातिवत् ( प्रीणयति अपिप्रीणत् ) [ धूञ्प्रिञोर्नुक्वक्तव्यः ] इति नुक् प्रीणातीति ( प्रियः ) "इगुपधज्ञाप्रीकिरः कः'' इति कः प्रेष्ठ इत्यादि दिवादावुक्तम् 2
प्रीञ् (अर्थः) तर्पणे
अत्र केचन धातुवृत्तिकाराः [धूञ्प्रीञोर्नुग्वक्तव्यः] इति पठन्तः प्रीणयतोत्युदाहरन्ति हरदत्तस्तु धूञ्प्रीणोरिति श्नानुकरणाद्दैवादिकस्य नेत्याह दैवादिकग्रहणेनात्र चौरादिकोऽप्युपलक्षयितव्य इति पुरुषकारे तन्मते प्राययतीति भाव्यम् मैत्रेयोऽप्यनेनैवाभिप्रायेण प्राययतीत्युदाजहार 294
कृदन्तरूपमाला
Sanskrit1 {@“प्रीञ् तर्पणे कान्तौ च”@} 2 कान्तिः = कामना।
‘प्रीङ् प्रीतौ प्रीयतेऽप्रीणात् प्रीणीते तर्पणे ञितः।।
अणौ यौ ञित्त्वसाफल्यात् प्रीणयेत् प्रयते प्रयेत्।’ 3 इति देवः।
प्रायकः-यिका, 4 प्रीणकः-णिका, पिप्रीषकः-षिका, पेप्रीयकः-यिका
इत्यादीनि सर्वाण्यपि रूपाणि क्रैयादिकक्रीणातिवत् 5 ज्ञेयानि।
6 वत्सप्रीः।
01 (१०७२)
02 (९-क्र्यादिः-१४७४। सक। अनि उभ।)
03 (श्लो। १९। २०)
04 [[१। ‘धूञ्प्रीञोर्नुग् वक्तव्यः’ (वा। ७-३-३७) इति ण्यन्ते सर्वत्र नुगागमे णत्वे च प्रीणकः, प्रीणयिता इत्यादीनि सर्वाण्यपि रूपाणि भवन्तीति यथायथमूह्यानि।]]
05 (२७४)
06 [[२। वत्सान् प्रीणातीति वत्सप्रीः। क्विपि रूपमेवम्। काशिकायां (६-४-१४८) रूपमेतदुदाहृतम्।]]
1 {@“प्रीञ् तर्पणे”@} 2 आधृषीयः।
‘--यौ ञित्त्वसाफल्यात् प्रीणयेत् प्रयते प्रयेत्।’ 3 इति देवः।
4 प्रीणकः-णिका, 5 प्रायकः-यिका, 6 पिप्रीणयिषकः-पिप्राययिषकः-षिका, 7 प्रायकः-यिका, 8 पिप्रीषकः-षिका, 9 पेप्रीयकः-यिका
प्रीणयिता-त्री, पिप्रीणयिषिता-त्री, प्रेता-त्री, पिप्रीषिता-त्री, पेप्रीयिता-त्री
प्रीणयन्-न्ती, पिप्रीणयिषन्-न्ती, 10 प्रयन् 11 -न्ती, पिप्रीषन्-न्ती
-- 12 प्रीणयिष्यन्-पिप्रीणयिषिष्यन्-न्ती-ती, प्रेष्यन्-न्ती-ती, पिप्रीषिष्यन्-न्ती-ती
मित्रप्रीः-मित्रप्रियौ-मित्रप्रियः
-- प्रीणितम्-तः, पिप्रीणयिषितः-तवान्, प्रीतम्-तः, पिप्रीषितः, पेप्रीयितः-तवान्
प्रीणः, पिप्रीणयिषुः, प्रियः, पिप्रीषुः, प्रेप्रियः
प्रीणयितव्यम्, पिप्रीणयिषितव्यम्, प्रेतव्यम्, पिप्रीषितव्यम्, प्रेप्रीयितव्यम्
प्रीणनीयम्, पिप्रीणयिषणीयम्, प्रयणीयम्, पिप्रीषणीयम्, पेप्रीयणीयम्
प्रीण्यम्, पिप्रीणयिष्यम्, प्रेयम्, पिप्रीष्यम्, पेप्रीय्यम्
ईषत्प्रीणः-दुष्प्रीणः-सुप्रीणः, ईषत्प्रयः-दुष्प्रयः-सुप्रयः
-- -- प्रीण्यमानः, पिप्रीणयिष्यमाणः, प्रीयमाणः, पिप्रीष्यमाणः, पेप्रीय्यमाणः
प्रीणः, पिप्रीणयिषः, 13 प्रयः, पिप्रीषः, पेप्रीयः
प्रीणयितुम्, पिप्रीणयिषितुम्, प्रेतुम्, पिप्रीषितुम्, पेप्रीयितुम्
प्रीणना, पिप्रीणयिषा, प्रीतिः, पिप्रीषा, पेप्रीया
प्रीणनम्, पिप्रीणयिषणम्, प्रयणम्, पिप्रीषणम्, पेप्रीयणम्
प्रीणयित्वा, पिप्रीणयिषित्वा, प्रीत्वा, पिप्रीषित्वा, पेप्रीयित्वा
विप्रीण्य, विपिप्रीणयिष्य, विप्रीय, विपिप्रीष्य, विपेप्रीय्य
प्रीणम् २, प्रीणयित्वा २, पिप्रीणयिषम् २, पिप्रीणयिषित्वा २, प्रायम् २, प्रीत्वा २, पिप्रीषम् २, पिप्रीषित्वा २, पेप्रीयम् २
पेप्रीयित्वा २।
01 (१०७३)
02 (१०-चुरादिः-१८३७। सक। सेट्। उभ।)
03 (श्लो। २०)
04 [[३। ‘धूञ्प्रीञोर्नुग् वक्तव्यः’ (वा। ७-३-३७) इति ण्यन्ते सर्वत्र नुगागमो भवति। एतच्चाविशेषेण ण्यन्ते सर्वत्रेति मतेन लिखितम्।]]
05 [[४। ‘धूञ्प्रीञोः--’ (वा। ७-३-३७) इति नुगागमः ‘धूञ्’ साहचर्येण क्रैयादिकस्य प्रीणातेर्णावेवेति, हरदत्तादिमते तु नुगभावात् वृद्धौ, आयादेशे च रूपमेवम्। एवमेव तृजादिष्वपि प्राययिता-त्री इत्यादीनि रूपाणि यथायथमूह्यानि।]]
06 [[५। चुरादिप्रीञोऽपि नुगागमवादिनां पक्षे ण्यन्तात् सनि रूपमेवम्। हरदत्तादिमते तु पिप्राययिषकः इत्यादीनि रूपाणीति च ज्ञेयम्।]]
07 [[६। ‘आधृषाद् वा’ (ग। सू। चुरादौ) इति वचनेन णिचो वैकल्पिकत्वात्, णिजभावपक्षे शुद्धाद्रूपमेवम्।]]
08 [[७। णिजभावपक्षे सनि, ‘एकाच उपदेशे--’ (७-२-१०) इतीण्निषेधे, सनः कित्त्वे, दीर्घे च रूपम्। धातोरस्य चुरादिपठितस्य सेट्त्वेऽपि णिजभावपक्षे भ्वादिपाठेऽनिट्त्वं शास्त्रवशादिति ज्ञेयम्।]]
09 [[८। णिजभावपक्षे शुद्धात् यङन्ते रूपमेवमिति ज्ञेयम्।]]
10 [[९। णिजभावपक्षे शुद्धात्, ‘शेषात् कतरि--’ (१-३-७८) इति शतैव।]]
11 [[आ। ‘… स्वैरं तत्र जनान् प्रयन् विगलितश्रन्थान् कचान् ग्रन्थयन्।’ धा। का। ३। ५१।]]
12 [पृष्ठम्०९०५+ २५]
13 [[१। ‘एरच्’ (३-३-५६) इति भावे घञपवादोऽप्प्रत्ययः। ‘एरजण्यन्तानाम्’ इति मतं तु भाष्या सम्मतत्वादप्रामाणिकम्। स्पष्टमिदं कैयटे (३-२-१)।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
