| YouTube Channel

प्रियङ्करः (priyaGkaraH)

 
शब्दकल्पद्रुमः
Sanskrit
प्रियङ्करः, त्रि, (प्रियं करोतीति प्रिय + कृ +“क्षेमप्रियमद्रेऽण् ।” ४४ इतिचकारात् खच् मुम् ।) प्रियकारकः यथा, “महाकुलीन ऐक्ष्वाके वंशे दाशरथिर्मम ।पितुः प्रियङ्करो भर्त्ता क्षेमकारस्तपस्विनाम्
”इति भट्टिः ७७
(दानवविशेषः यथा, कथासरित्सागरे ।४७ २४ ।“महाबुद्ध्यचलाख्यौ प्रियङ्करशुभङ्करौ ।एते महारथा यज्ञरुचिधर्म्मरुची तथा
”)