| YouTube Channel

प्रास्थिकः (prAsthikaH)

 
शब्दकल्पद्रुमः
Sanskrit
प्रास्थिकः, त्रि, (प्रस्थ + “सम्भवत्यवहरति पचति ।”५ ५२ इति ठञ् प्रस्थपरिमितधान्यादेःसमावेशकः अवहारकः पाचकश्च ।) प्रस्थं सम्म-वति प्रास्थिकः कटाहः प्रस्थं स्वस्मिन् समा-वेशयतीत्यर्थः प्रास्थिकी ब्राह्मणी प्रस्थमव-हरति पचति वेत्यर्थः इति सिद्धान्तकौमुदी
(प्रस्थं परिमाणमस्येति “तदस्य परिमाणम् ।”५ ५७ इति ठञ् प्रस्थपरिमितः ।यथा, सुश्रुते चिकित्सितस्थाने १२ अध्याये ।“यवकोलकुलस्थांश्च प्रास्थिकान् सलिलद्रोणेनिःक्वाथ्येति
प्रस्थेन क्रीतमिति “तेनक्रीतम् ।” ३७ इति ठञ् प्रस्थक्रीतः
प्रस्थस्य वापः “तस्य वापः ।” ४५ ।इति ठञ् प्रस्थपरिमितव्रीह्यादिवपनयोग्येक्षेत्रे यथा, शब्दरत्नावल्याम् ।“द्रोणाढकखार्य्यादेर्वापादौ द्रौणिकस्तथा ।स्यादाढकिकखारीकौ उत्तमर्णादयस्त्रिषु ।आदिभ्यां प्रास्थिकादिश्च पाकादौ द्रौणिकोऽपि
”)