| YouTube Channel

प्रारब्धं (prArabdhaM)

 
शब्दकल्पद्रुमः
Sanskrit
प्रारब्धं,
क्ली,
(प्रकृष्टमारब्धं स्वकार्य्यजननायेति ।)प्रालब्धम् शरीरारम्भकादृष्टविशेषः यथा, --“प्रारब्धकर्म्मणां भोगादेव क्षयः
इति स्मृतिः ।“प्रारब्धमश्नन्नभिमानशून्यः ।”इति श्रीभागवतम्
“प्रारब्धकर्म्मविक्षेपाद्बासना तु नश्यति
”इति भगवद्गीतायां मधुसूदनसरस्वती
(प्र + + रभ् + कर्म्मणि क्तः कृतारम्भे, त्रि यथा, रघौ १४ ।“अथाभिषेकं रघुवंशकेतोःप्रारब्धमानन्दजलैर्जनन्योः ।निर्वर्त्तयामासुरमात्यवृद्धा-स्तीर्थाहृतैः काञ्चनकुम्भतोयैः
”)