| YouTube Channel

प्रायकः-यिका (prAyakaH-yikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“प्रा पूरणे”@} 2 प्रायकः-यिका, प्रापकः-पिका, पिप्रासकः-सिका, पाप्रायकः-यिका
इत्यादीनि सर्वाण्यपि रूपाणि आदादिकदाप्धातुवत् 3 ज्ञेयानि।
4 प्रायः, 5 प्रान्-प्रान्तौ-प्रान्तः, 6 प्राणः 7 -प्राणवान् इति रूपाणि भवन्त्यस्येति विशेषः।
प्रासङ्गिक्यः
01
=>
(१०७०)
02
=>
(२-अदादिः-१०६१। सक। अनि। पर।)
03
=>
(८३३)
04
=>
[[३। ‘श्याऽऽद्व्यध--’ (३-१-१४१) इत्यादिना कर्तरि णप्रत्यये युगागमः।]]
05
=>
[[४। शतरि, शपि, ‘अदिप्रभृतिभ्यः--’ (२-४-७२) इति शपो लुकि, ‘पदान्तस्य’ (८-४-३७) इति निषेधात् णत्वं नेति ज्ञेयम्।]]
06
=>
[[५। ‘संयोगादेरातो धातोर्यण्वतः’ (८-२-४३) इति निष्ठानत्वे, णत्वे रूपम्।]]
07
=>
[[B। ‘ख्यान्त्यः कथाः प्राणमुदां पतीनां निर्मान्त्य इष्टानि चटुन् वचत्यः।’ धा। का। २। ५०।]]
1 {@“प्रीङ् प्रीतौ”@} 2 ‘प्रीङ् प्रीतौ प्रीयतेऽप्रीणात् प्रीणीते तर्पणे ञितः।।
अणौ यौ ञित्त्वसाफल्यात् प्रीणयेत् प्रयते प्रयेत्।’ 3 इति देवः।
प्रायकः-यिका, प्रायकः-यिका, पिप्रीषकः-षिका, पेप्रीयकः-यिका
4 प्रियः-इत्यादीनि सर्वाण्यपि रूपाणि दैवादिकधीङ्धातुवत् 5 ज्ञेयानि।
6
प्रासङ्गिक्यः
01
=>
(१०७१)
02
=>
(४-दिवादिः-११४४। अक। अनि। आत्म।)
03
=>
(श्लो। १९। २०)
04
=>
[[६। ‘इगुपधज्ञाप्रीकिरः कः’ (३-१-१३५) इति कर्तरि कप्रत्ययः। एतच्च आत्रेयादीनां मतेनोक्तम्। काशिकायां तु ‘प्रीणातीति प्रियः।’ इति कैयादिकस्यैव कप्रत्ययः प्रोक्तः।]]
05
=>
(९०१)
06
=>
[पृष्ठम्०९०४+ २९]
1 {@“प्रीञ् तर्पणे कान्तौ च”@} 2 कान्तिः = कामना।
‘प्रीङ् प्रीतौ प्रीयतेऽप्रीणात् प्रीणीते तर्पणे ञितः।।
अणौ यौ ञित्त्वसाफल्यात् प्रीणयेत् प्रयते प्रयेत्।’ 3 इति देवः।
प्रायकः-यिका, 4 प्रीणकः-णिका, पिप्रीषकः-षिका, पेप्रीयकः-यिका
इत्यादीनि सर्वाण्यपि रूपाणि क्रैयादिकक्रीणातिवत् 5 ज्ञेयानि।
6 वत्सप्रीः।
प्रासङ्गिक्यः
01
=>
(१०७२)
02
=>
(९-क्र्यादिः-१४७४। सक। अनि उभ।)
03
=>
(श्लो। १९। २०)
04
=>
[[१। ‘धूञ्प्रीञोर्नुग् वक्तव्यः’ (वा। ७-३-३७) इति ण्यन्ते सर्वत्र नुगागमे णत्वे प्रीणकः, प्रीणयिता इत्यादीनि सर्वाण्यपि रूपाणि भवन्तीति यथायथमूह्यानि।]]
05
=>
(२७४)
06
=>
[[२। वत्सान् प्रीणातीति वत्सप्रीः। क्विपि रूपमेवम्। काशिकायां (६-४-१४८) रूपमेतदुदाहृतम्।]]
1 {@“प्रीञ् तर्पणे”@} 2 आधृषीयः।
‘--यौ ञित्त्वसाफल्यात् प्रीणयेत् प्रयते प्रयेत्।’ 3 इति देवः।
4 प्रीणकः-णिका, 5 प्रायकः-यिका, 6 पिप्रीणयिषकः-पिप्राययिषकः-षिका, 7 प्रायकः-यिका, 8 पिप्रीषकः-षिका, 9 पेप्रीयकः-यिका
प्रीणयिता-त्री, पिप्रीणयिषिता-त्री, प्रेता-त्री, पिप्रीषिता-त्री, पेप्रीयिता-त्री
प्रीणयन्-न्ती, पिप्रीणयिषन्-न्ती, 10 प्रयन् 11 -न्ती, पिप्रीषन्-न्ती
-- 12 प्रीणयिष्यन्-पिप्रीणयिषिष्यन्-न्ती-ती, प्रेष्यन्-न्ती-ती, पिप्रीषिष्यन्-न्ती-ती
मित्रप्रीः-मित्रप्रियौ-मित्रप्रियः
-- प्रीणितम्-तः, पिप्रीणयिषितः-तवान्, प्रीतम्-तः, पिप्रीषितः, पेप्रीयितः-तवान्
प्रीणः, पिप्रीणयिषुः, प्रियः, पिप्रीषुः, प्रेप्रियः
प्रीणयितव्यम्, पिप्रीणयिषितव्यम्, प्रेतव्यम्, पिप्रीषितव्यम्, प्रेप्रीयितव्यम्
प्रीणनीयम्, पिप्रीणयिषणीयम्, प्रयणीयम्, पिप्रीषणीयम्, पेप्रीयणीयम्
प्रीण्यम्, पिप्रीणयिष्यम्, प्रेयम्, पिप्रीष्यम्, पेप्रीय्यम्
ईषत्प्रीणः-दुष्प्रीणः-सुप्रीणः, ईषत्प्रयः-दुष्प्रयः-सुप्रयः
-- -- प्रीण्यमानः, पिप्रीणयिष्यमाणः, प्रीयमाणः, पिप्रीष्यमाणः, पेप्रीय्यमाणः
प्रीणः, पिप्रीणयिषः, 13 प्रयः, पिप्रीषः, पेप्रीयः
प्रीणयितुम्, पिप्रीणयिषितुम्, प्रेतुम्, पिप्रीषितुम्, पेप्रीयितुम्
प्रीणना, पिप्रीणयिषा, प्रीतिः, पिप्रीषा, पेप्रीया
प्रीणनम्, पिप्रीणयिषणम्, प्रयणम्, पिप्रीषणम्, पेप्रीयणम्
प्रीणयित्वा, पिप्रीणयिषित्वा, प्रीत्वा, पिप्रीषित्वा, पेप्रीयित्वा
विप्रीण्य, विपिप्रीणयिष्य, विप्रीय, विपिप्रीष्य, विपेप्रीय्य
प्रीणम् २, प्रीणयित्वा २, पिप्रीणयिषम् २, पिप्रीणयिषित्वा २, प्रायम् २, प्रीत्वा २, पिप्रीषम् २, पिप्रीषित्वा २, पेप्रीयम्
पेप्रीयित्वा २।
प्रासङ्गिक्यः
01
=>
(१०७३)
02
=>
(१०-चुरादिः-१८३७। सक। सेट्। उभ।)
03
=>
(श्लो। २०)
04
=>
[[३। ‘धूञ्प्रीञोर्नुग् वक्तव्यः’ (वा। ७-३-३७) इति ण्यन्ते सर्वत्र नुगागमो भवति। एतच्चाविशेषेण ण्यन्ते सर्वत्रेति मतेन लिखितम्।]]
05
=>
[[४। ‘धूञ्प्रीञोः--’ (वा। ७-३-३७) इति नुगागमः ‘धूञ्’ साहचर्येण क्रैयादिकस्य प्रीणातेर्णावेवेति, हरदत्तादिमते तु नुगभावात् वृद्धौ, आयादेशे रूपमेवम्। एवमेव तृजादिष्वपि प्राययिता-त्री इत्यादीनि रूपाणि यथायथमूह्यानि।]]
06
=>
[[५। चुरादिप्रीञोऽपि नुगागमवादिनां पक्षे ण्यन्तात् सनि रूपमेवम्। हरदत्तादिमते तु पिप्राययिषकः इत्यादीनि रूपाणीति ज्ञेयम्।]]
07
=>
[[६। ‘आधृषाद् वा’ (ग। सू। चुरादौ) इति वचनेन णिचो वैकल्पिकत्वात्, णिजभावपक्षे शुद्धाद्रूपमेवम्।]]
08
=>
[[७। णिजभावपक्षे सनि, ‘एकाच उपदेशे--’ (७-२-१०) इतीण्निषेधे, सनः कित्त्वे, दीर्घे रूपम्। धातोरस्य चुरादिपठितस्य सेट्त्वेऽपि णिजभावपक्षे भ्वादिपाठेऽनिट्त्वं शास्त्रवशादिति ज्ञेयम्।]]
09
=>
[[८। णिजभावपक्षे शुद्धात् यङन्ते रूपमेवमिति ज्ञेयम्।]]
10
=>
[[९। णिजभावपक्षे शुद्धात्, ‘शेषात् कतरि--’ (१-३-७८) इति शतैव।]]
11
=>
[[आ। ‘… स्वैरं तत्र जनान् प्रयन् विगलितश्रन्थान् कचान् ग्रन्थयन्।’ धा। का। ३। ५१।]]
12
=>
[पृष्ठम्०९०५+ २५]
13
=>
[[१। ‘एरच्’ (३-३-५६) इति भावे घञपवादोऽप्प्रत्ययः। ‘एरजण्यन्तानाम्’ इति मतं तु भाष्या सम्मतत्वादप्रामाणिकम्। स्पष्टमिदं कैयटे (३-२-१)।]]