| YouTube Channel

प्रामाण्यवादः (prAmANyavAdaH)

 
शब्दकल्पद्रुमः
Sanskrit
प्रामाण्यवादः,
पुं,
(प्रामाण्यस्य वादः कथनम् ।)प्रमाकरणताकथनम् तद्वति तत्प्रकारकत्व-प्रमात्वकथनम् चिन्तामणिन्यायग्रन्थविशेषः ।इति पूर्व्वाचार्य्याः
यथा अथ जगदेवपङ्कनिमग्नमुद्दिधीर्षुरष्टादशसु विद्यास्थानेष्वभ्य-र्हिततमामान्वीक्षिकीं परमकारुणिको मुनिःप्रणिनाय तत्र प्रेक्षावत् प्रवृत्त्यर्थं प्रमाणादि-पदार्थतत्त्वज्ञानान्निःश्रेयसाधिगम इत्यादावसूत्र-यत् तेषु प्रमाणाधीना सर्व्वेषां व्यवस्थितिरितिप्रमाणतत्त्वमत्र विविच्यते इत्यादि गङ्गेशो-पाध्यायः