| YouTube Channel

प्राप्तिसम (prAptisama)

 
Monier Williams Cologne
English
प्राप्ति—सम
m.
a partic. Jāti (q.v.) in logic,
Nyāyas.
वाचस्पत्यम्
Sanskrit
प्राप्तिसम
न०
गौ० उक्ते जात्युत्तरभेदे “प्राप्य साध्यमप्राप्यवा हेतोः प्राप्त्या विशिष्टत्वात् प्राप्तिसमः” सृ० “हेतुःप्राप्य वा साध्यं साधयेदप्राप्य वा? तावत् प्राप्य ।प्राप्त्यामविशिष्टत्वादसाधकः द्वयोर्विद्यमानयोः प्राप्तौसत्यां किं कस्य साधकं साध्यं वा? अप्राप्यसाधकं नभवति नाप्राप्तः प्रदीपः प्रकाशयतीति प्राप्त्या प्रत्य-वस्थानं प्राप्तिसमः” वात्स्था० “प्राप्त्या विशेषादनिष्टापादनेन प्रत्यवस्थानम्” गौ० वृ० यथा आत्मा सक्रियः क्रियाहेतुगुणवत्त्वादित्यादौ क्रियाहेतुगुणवत्त्वेनैवकिमिति क्रियावत्त्वं साध्यते किमिति क्रियावत्त्वेनतादृशगुणवत्त्वं न? उभयोरविशेषादिति”