| YouTube Channel

प्रान्तरं (prAntaraM)

 
शब्दकल्पद्रुमः
Sanskrit
प्रान्तरं,
क्ली,
(प्रकृष्टमन्तरमवकाशो व्यवधानं वायत्र ।) दूरशून्योऽध्वा इत्यमरः १७
छायातरुजलादिरहिते पथि प्रान्तरं दूरं शून्योदूरशून्यः दूरश्चासौ शून्यश्चेति वा दूरशून्योजलादिवर्जितत्वात् ईदृक् योऽध्वा प्रान्तर-मित्यन्वयः प्रकृष्टमन्तरं व्यवधानमवकाशो वाअत्रेति प्रान्तरम् इति भरतः
(यथा, महा-निर्व्वाणतन्त्रे ६४ ।“ह्रदे गर्त्ते प्रान्तरे प्रासादात् पर्व्वतादपि ।पतिष्यन्ति मरिष्यन्ति मनुजा मदविह्वलाः
”)विपिनम् कोटरम् इति मेदिनी