| YouTube Channel

प्रादि (prAdi)

 
Shabdartha Kaustubha
Kannada
प्रादि
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಉಪಸರ್ಗಗಳ ಗಣ / ಪ್ರ ಮೊದಲಾದ ಉಪಸರ್ಗಗಳ ಗುಂಪು
विस्तारः - > प्र, परा, अप, सम्, अनु, अव, निस्, निर्, दुस्, दुर्, वि, आङ्, नि, अधि, अपि, अति, सु, उत्, अभि, प्रति, परि, उप ಇವು ಪ್ರಾದಿಗಳು.
Abhyankara Grammar
English
प्रादि a group of words beginning with प्र, which are all prefixes or upasargas e. g, प्र, परा, अप etc. cf कुगतिप्रादय: P. II. 2. 18.
वाचस्पत्यम्
Sanskrit
प्रादि
पु०
उपसर्गसंज्ञार्थं पा० उक्ते शब्दभेदे गणः पा०ग० उक्तो यथा “प्र परा अप सम् अनु अव निस् निर् दुस्दुर् वि आङ् नि अधि अपि अति सु उत्(द्) अभि प्रतिपरि उप” एते प्रादयः निस् दुस् सान्तौ “निसस्तपतावनासेवने इति (८ १२०) सूत्रे निस इति निर्देशात्निष्कृतं दुष्कृतमित्युदाहृत्य “इदुदुपधस्य यो विसर्जनीयः”इति भाष्योक्तेश्च निरः कुषः इति (७ ४६) “सु-दुरोरधिकरणे” इति निर्देशात् रान्तावपि मनो० ।उदिति दान्तोऽपि “उदोऽनूर्ध्वध्वेष्टायामिति” ।“उपसर्गाः क्रियायोगे” पा० “गतिश्च” पा० प्रादयः क्रियायोगे उपसर्गसंज्ञा गतिसंज्ञाश्च स्युः” सि० कौ०