| YouTube Channel

प्रातिपदिकः (prAtipadikaH)

 
Apte Hindi
Hindi
प्रातिपदिकः
पुं*
- प्रतिपदा + ठञ्
अग्नि
शब्दकल्पद्रुमः
Sanskrit
प्रातिपदिकः,
पुं,
(प्रतिपदि तिथौ भव इति ।प्रतिपद् + “कालात् ठञ् ।” ११ ।इति ठञ् ।) अग्निः यथा, --“इत्थम्भूतो महानग्निर्ब्रह्मक्रोधोद्भवो महान् ।उवाच देवं ब्रह्माणं तिथिर्मे दीयतां प्रभो !
यस्यामहं समस्तस्य जगतः ख्यातिमाप्नुयाम्
ब्रह्मोवाच ।देवानामथ यक्षाणां गन्धर्व्वाणाञ्च सत्तम ! ।आदौ प्रतिपदा येन त्वमुत्पन्नोऽसि पावक !
त्वत्पदात् प्रातिपदिकं सम्भविष्यन्ति देवताः ।अतस्ते प्रतिपन्नाम तिथिरेषा भविष्यति
”इति वराहपुराणम्
(प्रतिपदे धातुभिन्नपदे भव इति प्रति-पद + ठक् ।) नाम्नि, क्ली यथा अधातुविभ-क्त्यर्थवत् प्रातिपदिकम् इति सुपद्मव्याकरणम्