| YouTube Channel

प्रातःस्नानं (prAtaHsnAnaM)

 
शब्दकल्पद्रुमः
Sanskrit
प्रातःस्नानं,
क्ली,
(प्रातः प्रभातकाले यत् स्नानम् ।)प्रभातकर्त्तव्यावगाहनादि यथा, गारुडे ५० अः ।“उषःकाले तु संप्राप्ते कृत्वा चावश्यकं बुधः ।स्नायान्नदीषु शुद्धासु शौचं कृत्वा यथाविधि
प्रातःस्नानेन पूयन्ते येऽपि पापकृतो जनाः ।तस्मात् सर्व्वप्रयत्नेन प्रातःस्नानं समाचरेत्
प्रातःस्नानं प्रशंसन्ति दृष्टादृष्टकरं हि तत् ।मुखे सुप्तस्य सततं लालाद्याः संस्रवन्ति हि
अतो नैवाचरेत् कर्म्माण्यकृत्वा स्नानमादितः ।अलक्ष्मीः कालकर्णी दुःस्वप्नं दुर्विचिन्तितम्
प्रातःस्नानेन पापानि पूयन्ते नात्र संशयः ।न स्नानं विना पुंसां प्राशस्त्यं कर्म्म संस्मृ-तम् ।होमे जप्ये विशेषेण तस्मात् स्नानं समाचरेत्
अशक्तावशिरस्कन्तु स्नानमस्य विधीयते
”अपि गारुडे २१५ अध्याये ।“प्रातःसंक्षेपतः स्नानं मध्याह्ने विधिविस्तरम् ।प्रातर्मध्याह्नयोः स्नानं वानप्रस्थगृहस्थयोः
यतेस्त्रिसवनं प्रोक्तं सकृत्तु ब्रह्मचारिणः
”अपि ।“उषस्युषसि यत् स्नानं सन्ध्यायामुदिते रवौ ।प्राजापत्येन तत्तुल्यं महापातकनाशनम्
यत् फलं द्बादशाब्दानि प्राजापत्यैः कृतैर्भवेत् ।प्रातःस्नायी तदाप्नोति वर्षेण श्रद्धयान्वितः
इच्छेद्बिपुलान् भोगान् चन्द्रसूर्य्यग्रहोपमान् ।प्रातःस्नायी भवेन्नित्यं द्बौ मासौ माघफाल्गुनौ
षट्तिली माघमासन्तु प्रातःस्नायी हविष्यभुक् ।अतिपापं महाघोरं मासादेव व्यपोहति
मातरं पितरञ्चापि भ्रातरं सुहृदं गुरुम् ।समुद्दिश्य निमज्जेत द्वादशांशं लमेत्तु सः