| YouTube Channel

प्रातःसन्ध्या (prAtaHsandhyA)

 
शब्दसागरः
English
प्रातःसन्ध्या
f.
(-न्ध्या)
1. Dawn.
2. The morning-sacrifice.
E.
प्रातः and सन्ध्या part of the day.
Capeller Eng
English
प्रातःसंध्या
f.
morning twilight, dawn.
Yates
English
प्रातः-सन्ध्या (न्ध्या) 1.
f.
Idem
dawn.
Spoken Sanskrit
English
प्रातःसन्ध्या - prAtaHsandhyA -
f.
- morning twilight
प्रातःसन्ध्या - prAtaHsandhyA -
f.
- dawn
Wilson
English
प्रातःसन्ध्या
f.
(-न्ध्या)
1 Dawn.
2 The morning sacrifice.
E.
प्रातर, and सन्ध्या part of the day.
Monier Williams Cologne
English
प्रातः—संध्या
f.
twilight, dawn,
Pur.
(cf.
RTL.
401)
Macdonell
English
प्रातःसंध्या prātaḥ-saṃdhyā,
f.
morning twilight, 🞄dawn
-sava,
m.
, -savaná,
n.
early 🞄Soma libation (the ritual of which consists 🞄of ten parts)
-sāvá,
m.
morning Soma libation
🞄-snāna,
n.
morning ablution
-snāyin, 🞄a. bathing in the early morning.
Apte Hindi
Hindi
प्रातःसन्ध्या
स्त्री*
प्रातर्-सन्ध्या -
प्रातः काल की संध्या या भजन
प्रातःसन्ध्या
स्त्री*
प्रातर्-सन्ध्या -
प्रातः काल की संध्या या भजन
Shabdartha Kaustubha
Kannada
प्रातःसन्ध्या
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಸೂರ್ಯೋದಯಕ್ಕೆ ಪೂರ್ವದಲ್ಲಿ ಆಕಾಶದಲ್ಲಿ ಹರಡುವ ಪ್ರಕಾಶ
निष्पत्तिः - > ध्यै (चिन्तायाम्) - "अङ्" (३-३-१०६)
व्युत्पत्तिः - > सम्यक् ध्यायन्त्यस्याम्
विस्तारः - > ರಾತ್ರಿಯು ಕಳೆದು ಮರುದಿನ ಸೂರ್ಯೋದಯಕ್ಕೆ ಪೂರ್ವದಲ್ಲಿ ಒಂದು ಮುಹೂರ್ತ ಕಾಲವು ಪ್ರಾತಃಸಂಧ್ಯಾಕಾಲ "सूर्योदयाच्च प्रथमं यदा स्यादरुणोदयः प्रातःसन्ध्या तदोदेति देवानां प्रीतिकारिणी अस्तङ्गते ततः सूर्ये शोणपद्मनिभा सादा उदेति सायंसन्ध्यापि पितॄणां मोदकातिणी ॥" - कालिकापु०
L R Vaidya
English
prAtar-saMDyA {% f. %} 1. the morning twilight
2. the morning prayers of a Brāhmaṇa.
शब्दकल्पद्रुमः
Sanskrit
प्रातःसन्ध्या,
स्त्री,
(सन्धौ भवा यत् प्रत्ययः टाप्प्रातः प्रथमार्द्धीया सन्ध्या ।) सन्ध्यादेहपूर्व्वार्द्धम् ।तदुत्पत्तिर्यथा ।“तस्मिन् गिरौ चन्द्रभागे बृहल्लोहिततीरगाम्सन्ध्यां दृष्ट्वाथ पप्रच्छ वशिष्ठः सादरन्तदा
वशिष्ठ उवाच ।किमर्थमागता भद्रे ! निर्जनं त्वं महीधरम् ।कस्य वा तनया गौरि ! किं वा तव चिकीर्षितम्
एतदिच्छाम्यहं श्रोतुं यदि गुह्यं ते भवेत् ।वदनं पूर्णचन्द्राभं निश्रीकं वा कथं तव
श्रीमार्कण्डेय उवाच ।तत् श्रुत्वा वचनं तस्य वशिष्ठस्य महात्मनः ।दृष्ट्वा तन्महात्मानं ज्वलन्तमिव पावकम्
शरीरधृग्ब्रह्मचर्य्यसदृशं तं जटाधरम् ।सादरं प्रणिपत्याथ सन्ध्योवाच तपोधनम्
सन्ध्योवाच ।यदर्थमागता शैलं सिद्धं तन्मे तपोधन ! ।तव दर्शनमात्रेण तन्मे सेत्स्यति वा विभो !
तपः कर्त्तुमहं ब्रह्मन् ! निर्जनं शैलमागता ।ब्रह्मणोऽहं मनोजाता सन्ध्या नाम्ना विश्रुता ।नोपदेशमहं जाने तपसो मुनिसत्तम ! ।यदि ते युज्यते गुह्यं मां त्वं समुपदेशय
एतच्चिकीर्षितं गुह्यं नान्यत् किञ्च विद्यतेअज्ञात्वा तपसो भावं तपोवनमुपस्थिता
चिन्तया परिशुष्येऽर्ह वेपते मनः सदा
श्रीमार्कण्डेय उवाच ।आकर्ण्य तस्या वचनं वशिष्ठो ब्रह्मणः सुतः ।स्वयं सर्व्वकृत्यज्ञो नान्यत् किञ्चन पृष्टवान्
अथ तां नियतात्मानं तपसेऽतिधृतोद्यमाम् ।वशिष्ठो मन्त्रयाञ्चक्रे गुरुवत् शिष्यवत्तदा
वशिष्ठ उवाच ।परमं यो महत्तेजः परमं यो महत्तपः ।परमः परमाराध्यो विष्णुर्मनसि धीयताम्
मन्त्रेणानेन देवेशं विष्णुं भज शुभानने ! ।ओँ नमो वासुदेवाय इत्यनेन सन्ततम्
मार्कण्डेय उवाच ।उपदिश्य वशिष्ठोऽथ सन्ध्यायै तपसः क्रियाम् ।तामाभाष्य यथान्यायं तत्रैवान्तर्दधे मुनिः
यथोक्तन्तु वशिष्ठेन मन्त्रं तपसि साधनम् ।व्रतेन तेन गोविन्दं पूजयामास भक्तितः
प्रसन्नस्तेन रूपेण यद्रूपं चिन्तितं तया ।पुरः प्रत्यक्षतां यातस्तस्यां विष्णुर्जगत्पतिः
निमीलिताक्ष्यास्तस्यास्तु प्रविश्य हृदयं हरिः ।दिव्येङ्गितं ददौ तस्यै वाचं दिव्ये चक्षुषी
दिव्यं ज्ञानं दिव्यचक्षुर्दिव्यां वाचमवाप्य सा ।प्रत्यक्षं वीक्ष्य गोविन्दं तुष्ठाव जगतां पतिम्
अथ तस्याः शरीरन्तु वल्कलाजिनसंवृतम् ।परिक्षीणं जटाव्रातैः पवित्रं मूर्द्ध्नि राजितम्
निरीक्ष्य कृपयाविष्टो हरिः प्रोवाच तामिदम्
श्रीभगवानुवाच ।यः पश्यति सकामस्त्वां पाणिग्राहमृते तव ।स सद्यः क्लीवतां प्राप्य दुर्ब्बलत्वं गमिष्यति
पतिस्तव महाभागस्तपोरूपसमन्वितः ।सप्तकल्पान्तजीवी भविष्यति सह त्वया
अन्यच्च ते वदिष्यामि पूर्व्वं यन्मनसि स्थितम् ।अग्नौ शरीरत्यागस्ते पूर्व्वमेव प्रतिश्रुतः
मेधातिथेर्यज्ञे मुनेर्द्वादशवार्षिके ।घृतप्रज्वलिते वह्नौ चिरात् क्रियतां त्वया
तत्र गत्वा स्वयं छन्नं मुनिभिर्नोपलक्षिता ।मत्प्रसादाद्वह्निजाता तस्य पुत्री भविष्यसि
यस्ते वा वाञ्छनीयोऽस्ति स्वामी मनसि कश्चन ।तन्निधाय निजस्वान्ते त्यज वह्नौ वपुः स्वकम्
नारायणः स्वयं सन्ध्यां पस्पर्शाथाग्नपाणिना ।ततः पुरोडाशमयं तत् शरीरमभूत् क्षणात्
समिद्धेऽग्नौ महायज्ञे मुनिभिर्नोपलक्षिता ।तदा विष्णोः प्रसादेन सा विवेश विधेः सुता
वह्निस्तस्याः शरीरं तद्दग्ध्वा सूर्य्यस्य मण्डले ।शुद्धं प्रवेशयामास विष्णोरेवाज्ञया पुनः
सूर्य्यो द्बिधा विभज्याथ तत् शरीरं तदा रथे ।स्वके संस्थापयामास प्रीतये पितृदेवयोः
यदूर्द्ध्वभागस्तस्यास्तु शरीरस्य द्बिजोत्तमाः ।प्रातः सन्ध्याभवत् सा तु अहोरात्रादिमध्यगा
यच्छेषभागस्तस्यास्तु अहोरात्रान्तमध्यगः ।सा सायमभवत् सन्ध्या पितृप्रीतिप्रिया सदा
सूर्य्योदयाञ्च प्रथमं यदा स्यादरुणोदयः ।प्रातःसन्ध्या तदोदेति देवानां प्रीतिकारिणी
अस्तं गते ततः सूर्य्ये शोणपद्मनिभा सदा ।उदेति सायंसन्ध्यापि पितॄणां मोदकारिणी
”इति कालिकापुराणे २२ अध्यायः
प्रातःकालकर्त्तव्यवैदिकतान्त्रिकोपासनाविशेषः ।वैदिके तदनुष्ठानानि यथा मार्जनम् प्रार्थ-नम प्राणायामः आचमनम् आपो-मार्जनम् अघमर्षणम् सूर्य्योपस्थानम् ७देवतर्पणम् सावित्र्यावाहनम् सावित्री-ध्यानम् १० सावित्रीजपः ११ सावित्रीविस-र्जनम् १२ आदित्यशुक्रप्रीणनम् १३ आत्मरक्ष-णम् १४ रुद्रोपस्थानम् १५ ब्रह्मादिभ्यो जल-दानम् १६ सूर्य्यार्घदानम् १७ सूर्य्यनतिः १८
तान्त्रिके तदनुष्ठानानि यथा मन्त्राचमनम् १जलशुद्धिः करन्यासः अङ्गन्यासः अघ-मर्षणम् हस्तक्षालनम् आचमनम् ७सूर्य्यार्घदानम् गायत्त्र्या जलदानम् तर्पणम्१० गायत्त्रीध्यानम् ११ गायत्त्रीजपः १२ जल-समर्पणम् १३ इष्टदेवध्यानम् १४ प्राणायामः१५ मूलमन्त्रजपः १६ जलसमर्पणम् १७ प्राणा-यामः १८ नमस्कारः १९ इति स्मृतितन्त्रे
वाचस्पत्यम्
Sanskrit
प्रातःसन्ध्या स्त्री सन्धौ भवः यत् सन्ध्या त० गतरात्रेर-नन्तरं मुहूर्त्तात्मके भाविसूर्य्योदयस्य मध्यवर्तिनि दण्डच-तुष्टयात्मके वा काले “त्रियामां रजनीं प्राहुस्त्यक्त्वाद्यन्तचतु-ष्टयम् नाडीनां तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञिते” ति० त० ।सन्ध्या ब्रह्मणो मनोजाता कन्या सा वसिष्ठोपदेशेनतपः कृत्वा पूर्वप्रतिज्ञातस्याग्नौ शरीरत्यागस्य सम्पाद-नार्थं विष्णुवरेण पुरोडाशमयं देहमवाप्य मेधातिथि-यज्ञाग्नौ शरीरं जुहाव तस्याः पूर्वार्द्धं प्रातःसन्ध्या ।३ तस्याञ्च तत्कथा कालिकाप० २२ अ० यथा“तदा विष्णोः प्रसादेन सा विवेश विधेः सुता बह्नि-स्तस्याः शरीरं तद्दग्ध्वा सूर्य्यस्त मण्डले शुद्धं प्रवेश-यामास विष्णोरेवाज्ञया पुनः सूर्य्यो द्विधा विभज्याथतच्छरीरं तदा रथे स्वके संस्थापयामास प्रीतये पितृ-देवयोः यदर्द्ध्वभागस्तस्यास्तु शरीरस्य द्विजोत्तमाः! ।प्रातःसन्ध्याभवत् सा तु अहोरात्रान्तमध्यगा यःशेषभागस्तस्यास्तु अहोरात्रान्तमध्यगः सायमभवत्सन्ध्या पितृप्रीतिप्रिया सदा सूर्य्योदयाच्च प्रथमंयदा स्यादरुणादयः प्रातःसन्ध्या तदोदति देवानांप्रीतिकारिणी अस्तं गते ततः सूर्य्ये शोणपद्मनिभासदा उदेति सायसन्ध्यापि पितॄणां मोदकारिणी” ।सन्धौ काले उपास्या सन्ध्या त० पूर्वसन्ध्याकालेउपास्यायां गायत्रीप्रतिपाद्यपरमेश्वररूपायां देवता-याञ्च यथोक्तं भरद्वाजस्मृतौ अ० यथा“गायन्तं त्रायते यस्मात् गायत्रीति स्मृता ततः प्राणागया इति प्रोक्तास्त्रायते तानथापि वा गायत्रीतिभवेन्नाम केवलं त्रायतीति वा व्यानशे प्राणजिह्वासुसदा वाग्रसवर्तनात् सरस्वतीति नाम्ना समा-ख्याता महर्षिभिः सवितृप्रकाशकरणात् सावित्री-त्यभिधा भवेत् जगतः प्रसवित्रीति हेतुनानेन वापिच तस्मादियं सदोपास्या निशादिवसयोर्द्विजैः गा-यत्री सन्धिवेलायां सैव सन्ध्येति कीर्त्तिता यो जपे-द्वदनं ज्ञात्वा नश्यन्त्यंहांसि तत्क्षणात् ऋषिच्छन्दोदेवताश्च जपेत्ताश्चान्विताः क्रमात् ज्ञात्वा पदानिश्रुत्वाथ तुरीयं पादमव्ययम् ब्रह्मणा याति तत्साम्यपदं ज्ञात्वा तुरीयकम् या गायत्री त्रिचरणा सात्रिमूर्त्तिस्वरूपिणी उपास्यानन्तरं विप्रैस्त्रिसन्ध्यासुत्रिमूर्त्तिषु तुरीयपादमेतस्या ज्ञात्वा योपास्तिमाचरेत् ।सा रत्नपूर्णां पृथिवीं गृह्णन्नो दोषभाग्भवेत् ब्रह्म-केशवरुद्रादिदेवताभिरुपासिता सन्ध्यान्तां कोन सेवेतविप्रः स्यादभिलाषुकः प्रातः सतारकां सन्ध्यां सायंसन्ध्यां सभाष्कराम् स्नानकर्मणि तन्मध्यामुपासीतयथाविधि प्रातरेवमुपास्यैव प्रकुर्य्यात् हवनं जपम् ।स्नानस्याननतरं कुर्य्यात् तर्पणञ्च महाक्रतून् सायंसन्ध्यामुपासीत होमं कुर्वीत शासनात् सन्ध्योपा-सनहीनो यो योग्यः सर्वकर्मसु तस्मादुपास्य विधिनासन्ध्यामन्यक्रियाश्चरेत् नोपासयेद्द्विजः सन्ध्यां यो-ऽसौ शूद्रत्वमाप्नुयात् कर्माण्यन्यानि संत्यज्य सन्ध्यांयः केवलं द्विजः उपास्ते, सर्वपुण्यानि कृतवान् सभवेदसम् सन्ध्योपास्तिं विनाविप्रः पुण्यान्यन्यानिचाचरेत् यस्तस्य तानि पापानि भवन्त्येव संशयः ।नाशयेत् जन्मजनितं पापं दशजपादनु पुराकृतंशतजपाद्गायत्र्यास्तु द्विजन्मनः कृतं युगेऽपि चैकस्मिन्सहस्रेण जपेन तु सद्भक्त्या जपतस्तस्माद्गायत्रींसर्वदा जपेत् समस्तसप्ततन्तुभ्यो जपयज्ञः परं स्मृतः ।हिंसया ते प्रवर्तन्ते जपयज्ञो हिंसया यावन्तःकर्मयज्ञाश्च दानानि तपांसि ते सर्वे जपथज्ञस्यकलां नार्हन्ति षोडशीम् जपेन देवता नित्यंस्तूयमाना प्रसीदति प्रसन्ना विपुलान् भोगान्दद्यान्मुक्तिञ्च शाश्वतीम् यक्षराक्षसवेतालप्रेतभूतपिशा-चकाः जपाश्रयं द्विजं दृष्ट्वा दूरन्ते यान्ति भीतितः ।तस्माज्जपः सदा श्रेष्ठः सर्वस्मात् पुण्यसाधनात् इत्येवंसर्वथा ज्ञात्वा विप्रो जपरो भवेत् एवं जपपरःसन्ध्यां भक्त्योपासीत यो द्विजः नियमेन सदा गच्छे-दृषित्वं नात्र संशयः तस्माज्जितेन्द्रियो नित्यं सन्ध्यो-पास्तिं समाचरेत् सर्वलोकान् जित्वाऽथ विप्रःस्ववशमानयेत् तदन्ते ब्रह्मभावेन यावदाभूतसंप्लवम् ।तावन्नित्यो निरातङ्को भवेदत्र संशयः एवं सन्ध्या-विधिं सर्वं यो विप्रोऽध्यापयेत् द्विजः अध्यापकोयथावस्थः श्रोता चैकाग्रमानसः सर्वपापनिर्मुक्तःसर्वविद्याविशारदः अथ धान्यधनोपेतो जीवेद्वर्षशतंसुखी एतद्विधानंयोऽधीत्य श्रावयेत् ब्राह्मणोत्तमान् ।प्रीतिपूर्वं प्रयत्नेन ब्राह्मणो नियमेन अज्ञानेनप्रमादेन दुरितं यत् समुत्थितम् तस्य तत् सकलं नाशंव्रजेदत्र संशयः याः सन्ध्योपास्तयस्तिस्रो यस्यस्नानं विधीयते पर्वणि श्रावणी यस्य तत् सर्वं पूर्ण-तामियात् कामान्मोहाच्च लोभाच्च सन्ध्यां नाति०क्रमेद् द्विजः सन्ध्यातिक्रमणाद्विप्रो ब्राह्मण्याच्च्यवतेयतः अनागतां तु ये पूर्वामनतीताञ्च पश्चिमाम् ।सन्ध्यां नोपासते विप्राः कथं ते ब्राह्मणाः स्मृताः? ।सायं प्रातः सदा सन्ध्यां ये विप्रा उपासते काम-न्तान् धार्मिको राजा शूद्रकर्मसु योजयेत् विधान-मेतन्नो देयं रहस्यं यस्य कस्यचित् वेदाध्यायाभिजा०ताय प्रदेयं द्विजन्मने” ब्राह्मणस० योगियाज्ञवल्क्यः“अतःपरं प्रवक्ष्यामि सन्ध्योपासनमुत्तमम् अहोरात्र-कृतैः पापैर्यामुपास्य प्रमुच्यते” तथा “यावन्तोऽस्यां पृ-थिव्यां हि विकर्मस्थास्त वै द्विजाः तेषां वै षावनार्थायसन्ध्या सृष्टा स्वयम्भुवा या सन्ध्या सा तु गायत्रींद्विधा भूता प्रतिष्ठिता” तथा “सा सत्यं कर्म विप्राणाम-होरात्रकृतस्य तु पापापनुत्तये यस्मात् तस्मान्नित्यंसमाचरेत्” यमः “सन्ध्यामुपासते ये तु सततं संशित-व्रताः विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम्” शा-तातपः “अनृत्तं मद्यगन्धञ्च दिवामैथुनमेव पुनातिवृषलस्यान्नं बहिः सन्ध्या ह्युपासिता” याज्ञवल्क्यःनिशायां वा दिवा वापि यदज्ञानकृतं भवेत् त्रिकाल-सन्ध्याचरणात् तत्सर्वं विप्रणश्यति” देवलः “सायं प्रातःसदा सन्ध्यामुपासीत शुचिर्बहिः” विष्णुपु० “सर्वकाल-मुपस्थान सन्ध्यायांः पार्थिवेष्यते अन्यत्र सूतकाशौ चविभ्रमातुरभीतितः” योगियाज्ञवलक्यः “सर्वावस्थो-ऽपि यो विप्रः सन्ध्योपसनतत्परः ब्राह्मण्यान्न हीयेतअन्यजन्मगतोऽपि सन् सन्ध्या तूपसिता येन तेनविष्णुरुपासितः दोर्घमायुः बिन्देत सर्वपापैः प्रमु-च्यते तथा “सायं प्रातस्तु यः सन्ध्यां सऋचां पर्यु-पासिते जप्त्वैव पाबनीं देवीं सावित्रीं लोकमात-रम् तया पावितो देव्या ब्राह्मणो धूतकिल्विषः ।न सीदेत् प्रतिगृह्णानोह्यपि पृथ्वीं ससागराम्” अग्नि-पुराणे मुनय ऊन्वुः कथं मुने! दिवं याति ब्राह्मणोमुक्तकिल्विषः अनाग्नको हि नो ब्रूहि यदुक्तं वह्निनावुरा” सूत उवाच “सायं प्रातश्च यः सन्ध्यामुपास्तेऽक्षुण्णमानसः जपते पावनीं देवीं गायत्रीं वेदमातरम् ।तया भावितो देव्या ब्राह्मणः धूतकिल्विषः सी-देत् प्रतिगृह्णानः पृथिवीञ्च ससामराम् ये चान्ये दा-रुणाः केचिद्ग्रहाः सूर्य्यादयो दिवि ते चास्य सौ-म्यतां यान्ति शिवाः शिवतरास्तथा यत्र तत्र मतञ्चैनंदारुणाः पिशिताशनाः धोररूपा महाकायाः प्रभवन्तिन राक्षसाः यावन्तश्च पृथिव्यां हि चीर्णवेदव्रताद्विजाः अचीर्णव्रतवेदा वा विकर्मपथमाश्रिताः ते-षान्तु पावनार्थाय गायत्री नित्यमेव हि द्वेसन्ध्येह्युपतिष्ठेत तदन्वर्थं महाव्रतम्” तथा “द्वे सन्ध्येह्युपतिष्ठेत गायत्रीं प्रयतः शुविः यस्तस्य दुष्कृतिर्नास्ति पूर्वतः परतोऽपि वा एवं किल्विषयुक्तो हिविनिर्दहति पातकम् उभे सन्ध्ये ह्युपासीत तस्मा-न्नित्यं द्विजोत्तमः” तथा “सन्ध्या येन विज्ञाता सन्ध्यानेवाप्युपासिता जीवन्नेव भवेत् शूद्रो मृतः श्वा चाभिजायते” मनुः “न तिष्ठति तु यः पूर्वां नोपास्ते यश्चपश्चिमाम् साधुभिर्बहिष्कार्य्यः सर्वस्मातु द्विजक-र्मणः” व्यासः बहिः सन्ध्या दशगुणा गोष्ठप्रस्रवणा-दिषु खाते तीर्थे दशगुणा साहस्री जाह्नवीजले” ।बहिरिति अनाच्छादितस्थाने प्राङ्गणादौ शातातपः“गृहेषु प्राकृती सन्ध्या गोष्ठे शतगुणा स्मृता नदीषुशतसाहस्रा अनन्ता शिवसनिधौ” गृहेषु गृहवीथ्यादौ ।योगियाज्ञवल्क्यः “सन्धौ सन्ध्यामुपासीत नास्तगे नोद्-गते रवौ सन्ध्यात्रयन्तु कर्त्तव्यं द्विजेनात्मविदासदा” संवर्त्तः “प्रातःसन्ध्यां सनक्षत्रामुपासीतयथाविधि सादित्यां पश्चिमां सन्ध्यामर्द्धास्तमितमा-स्कराम्” नरसिंहषुराणे “पूर्वां सन्ध्यां सनक्षत्रामु-पक्रम्य यथाविधि गायत्रीमभ्यमेत्तावद्यावदादित्य-दर्शनम्” मनुः “ऋषयो दीर्घसन्ध्यत्वात् दीर्घमायुरवा-प्नुयुः पूजां यशश्च कीर्त्तिञ्च ब्रह्मवर्चसमेव उ-पास्ते यस्तु नो सन्ध्यां ब्राह्मणो हि विशेषतः सजीव-न्नेव शूद्रः स्यान्मृतःश्वा चाभिधीयते” तथा “सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्ममु यदन्यत् कुरुते किञ्चित् नतस्य फलवाग्भवेत्” यमः “अनागतान्तु ये पूर्वामतीतांचापि पश्विमाम् ये विप्रा नानुतिष्ठन्ति सन्ध्यां ते वृषलाःस्मृताः” छन्दोगपरिशिष्टे कात्यायनः “सन्ध्यां नोपास्यचाकर्त्ता स्नानदानस्य यः सदा तं दोषा नोपसर्पन्तिवैनतेयमिवोरगाः” तथा “एतत् सन्ध्यात्रयं प्रोक्तं ब्राह्मण्यंयदधिष्ठितम् यस्य नास्त्यादरस्तत्र ब्राह्मण उ-च्यते” कूर्मपुराणे “न तिष्ठति तु यः पूर्वां नोपास्ते यस्तुपश्चिमाम् शूद्रेण समो लोके सर्वधर्मविवर्जितः” ।मुख्यकाले सन्ध्यावन्दनाकरणे प्रायश्चित्तमाह व्यासः“आदित्योऽभ्युदियाद्यस्य सन्ध्योपास्तिमकुर्वतः ।स्नात्वा प्राणांस्त्रिराचभ्य गायत्र्यष्टशतं सपेत्” पारि-जाते तु “कालातिकमणे चैव चतुर्थ्यार्घ्यं प्रदापयेत्”इत्युक्तम् मलमामुतत्त्वे तु “कालातीता वृथा सन्ध्याबन्ध्यस्त्रामैथुने यथा गायत्रीं दशधा जप्त्वा पुनः सन्ध्यांसमाचरेत्” काशीखण्डोक्तं प्रायश्चित्तान्तरमुक्तम् अत्रयथाचारं व्यवस्था सङ्गवपर्य्यन्तप्रातः सन्ध्याया गौण-कालः आप्रदोषावसानं सायंसन्ध्यायाः इति मण्डनः ।“उदयास्तमयादूर्द्ध्वं यावत् स्याद्घटिकात्रयम् तावत्सन्ध्यामुपासीत प्रायश्चित्तमतःपरम्” इति स्कान्दे वि-शेष उक्तेः मध्याह्ने तु दक्षः “आध्यर्द्धयामादासायंसन्ध्या माध्याह्निकीष्यते अर्घ्यप्रदानतः पूर्वमुदया-स्तमयेऽपि वा गायत्यष्टशतं जप्यं प्रायश्चित्तं द्विजा-तिभिः” इति गौणकालेऽप्यसम्भवे यमः “दिवोदितानिकर्माणि प्रमादादकृतानि चेत् शर्वर्य्याः प्रथमे यामेतावत् कुर्य्याद्यथाक्रमम्” अत्र मुख्यकालानुरोधात्सायंसन्ध्योपासनं पूर्वं कृत्वा “आगन्तूनामन्ते निवेशः”इति न्यायेनातीतकालं कर्म पश्चात् कार्य्यमिति न्यायतःप्राप्वं तस्य निषेधार्थं यथाक्रममिति वचनमिति “दिवोदिनानि कर्माणि प्राप्नुवन्तीतराणि दिवोदितानिकृत्वैव विदध्यादुत्तराणि तु” मदनपरिजाते वसिष्ठोक्तेः ।सूतके विशेषः सूतके इत्यनुवृत्तौ “अवगाहं ब्रह्मयज्ञंसौरजप्यञ्च वर्जयेत्” इति “स्नानं सन्ध्यां त्यजन् विप्रःसप्ताहाच्छूद्रतां व्रजेत् तस्मात् स्नानञ्च सन्ध्याञ्चसूतकेऽपि सन्त्यजेत् सूतके मृतके चैव सन्ध्याकर्मसमाचरेत् मनसोच्चारयेन्मन्त्रान् प्राणायाममृते द्विजः”इत्यनयोरविरोधाय मानससन्ध्यानिषेध इति क-ल्प्याम् किन्तु प्राणायाममन्त्रा मनसापि नोच्चार्य्याइत्यर्थः पैठिनसिस्तु “सूतके सावित्र्याञ्जलिं प्रक्षिप्यप्रदक्षिणं कृत्वा सूर्यन्ध्यायन्नमस्कुर्य्यात्” इत्यर्घ्यदानान्तांसन्ध्यामाह अन्ये तु उच्चार्य्य याचा गायत्रीं दद्याद-र्ष्याञ्जीनपि अष्टविंशतिकृत्वोऽत्र गायत्रीं मनसाजपेत्” इति गायत्रीजपमप्याहुः “सूतके कर्मणा-न्त्यागः सन्ध्यादीनां बिधीयते” इति यद्यपि सन्ध्या-यानिवृत्तिः श्रूयते तथाप्यञ्जलिप्रक्षेपादिकं कार्य्यम् ।“सूतके सावित्र्या चाञ्जलिम्प्रक्षिप्य प्रदक्षिणं कृत्वासूर्य्यं ध्यायन्नमस्कुर्य्यादिति” पैठिनसिस्मरणात् इतिमिताक्षरा सन्ध्यादीनामप्यपवादमाहापरार्के पुलस्त्यः“सन्ध्यामिष्टिं चरुं होमं यावज्जीवं समाचरेत् ।न त्यजेत् सूतके वापि त्यजन् गच्छेदधो द्विजः सूतकेमृतके चैव सन्ध्याकर्म समाचरेत् मनसोच्चारयेन्मन्त्रान्प्राणायाममृते द्विजः”? यत्तु चन्द्रिकायां जावालः“सन्ध्यां पञ्च महायज्ञान् नैत्यिकं स्मृतिकर्म तन्मध्येहापयेत्तेषां दशाहान्ते पुनः क्रिया” यच्च संवर्त्तः “सू-तके कर्मणां त्याग सन्ध्यादीनां विधीयते” यच्च वि-ष्णुपु० “सर्वकालमुपसा तु सन्ध्ययोः पार्थिवेष्यते ।अन्यत्र सूतकाशौचविभ्रमातुरभीतितः” इति तत्संपर्ण्णसन्ध्यानिषेधपरम् “अर्घ्यान्ता मानसी सन्ध्याकुशवारिविवर्जिता” इति शुद्धिद्वीपे च्यवनोक्तेः पैठीनसि-ख्यत्व मन्त्रोच्चारणमप्याह” सूतके सावित्र्याञ्जलिं प्रक्षिप्यसूर्य्यंध्यायन्नमस्कुर्य्यात्” प्रयोगपरिजाते भरद्वाजोपि“सूतके मृतके कुर्य्यात् प्राणायामममन्त्रकम् तथामार्जनमन्त्रांस्तु मनसोच्चार्य मार्जयेत् गायत्रीं सम्यगु-च्चार्य्य सूर्य्यार्घ्यं निवेदयेत् मार्जनं तु वा कार्य्य-मुपस्थानं चैव हि” इत्येवं मिताक्षरापरिजातादौअशौचे सन्ध्याकरणविशेषस्योक्तेः गौडानां तदनाचर-णमनाचार एव तस्य श्रीतत्वेन स्मृत्या बाधानुचितत्वा-दपि मिताक्षराद्युक्तं युक्तभिति द्रष्टव्यम्
Capeller
German
प्रातःसंध्या
f.
Morgendämmerung.