| YouTube Channel

प्रातःकृत्यं (prAtaHkRtyaM)

 
शब्दकल्पद्रुमः
Sanskrit
प्रातःकृत्यं,
क्ली,
(प्रातः प्रभातकालस्य कृत्यं कर्त्तव्याक्रिया ।) प्रभातकर्त्तव्यकर्म्म तदनुष्ठानं यथा, “ब्राह्मे मुहूर्त्ते उत्थाय धर्म्ममर्थञ्च चिन्तयेत् ।कायक्लेशन्तदुद्भूतं ध्यायेत्तु मनसेश्वरम्
उषःकालेऽथ संप्राप्ते कृत्वा चावश्यकं बुधः ।स्नायान्नदीषु शुद्धासु शौचं कृत्वा यथाविधि
प्रातःस्नानेन शुध्यन्ति येऽपि पापकृतो जनाः ।तस्मात् सर्व्वप्रयत्नेन प्रातःस्नानं समाचरेत्
प्रातःस्नानं प्रशंसन्ति दृष्टादृष्टकरं शुभम् ।ऋषीणां शुचिता नित्यं प्रातःस्नानान्नं संशयः
मुखे सुप्तस्य सततं लालाद्याः प्रस्रवन्ति हि ।ततो नैवाचरेत् कर्म्माण्यकृत्वा स्नानमादितः
अलक्ष्मीः कालकर्णी दुःस्वप्नं दुर्विचिन्तितम् ।प्रातःस्नानेन पापानि पूयन्ते नात्र संशयः
स्नानं विना पुंसां पावनं प्रत्यहं स्मृतम् ।होमे जप्ये विशेषेण तस्मात् स्नानं समाचरेत्
अशक्तावशिरस्कं वा स्नानमस्य विधीयते ।आर्द्रेण वाससा चाथ मार्जनं कायिकं स्मृतम्
अप्रायत्ये समुत्पन्ने स्नानमेव समाचरेत् ।ब्राह्मादीनि यथाशक्तौ स्नानान्याहुर्म्मनीषिणः
ब्राह्ममाग्नेयमुद्दिष्टं वायव्यं दिव्यमेव ।वारुणं यौगिकं तद्वत षोढास्नानं प्रकीर्त्तितम्
ब्राह्मन्तु मार्ज्जनं मन्त्रैः कुशैः सोदकबिन्दुभिः ।आग्नेयं भस्मना पादमस्तकादिविधूननम्
गवां हि रजसा प्रोक्तं वायव्यं स्नानमुत्तमम् ।यत्तु सातपवर्षेण स्नानन्तद्दिव्यमुच्यते
वारुणञ्चावगाह्यन्तु मानसन्त्वात्मवेदनम् ।यौगिकं स्नानमाख्यातं योगो विष्णुविचिन्तनम्
आत्मतीर्थमिति ख्यातं सेवितं ब्रह्मवादिभिः
मनःशुचिकरं पुंसां नित्यन्तत्स्नानमाचरेत् ।शक्तश्चेव्वारुणं विद्वान् प्राजापत्यन्तथैव
*
प्रक्षाल्य दन्तकाष्ठं वै भक्षयित्वा विधानतः ।आचम्य प्रयतो नित्यं स्नानं प्रातः समाचरेत्
मध्याङ्गुलसमस्थौल्यं द्वादशाङ्गुलसम्मितम् ।सत्वचं दन्तकाष्टं स्यात्तस्याग्रेण धावयेत्
क्षीरिवृक्षसमुद्भूतं मालतीसम्भवं शुभम् ।अपामार्गञ्च विल्वञ्च करवीरं विशेषतः
वर्ज्जयित्वा निन्दितानि गृहीत्बैनं यथोदितम् ।परिहृत्य दिनं पापं भक्षयित्वा विधानतः
नोत्पाटयेद्दन्तकाष्ठं नाङ्गुल्या धावयेत् क्वचित् ।प्रक्षाल्य भुक्त्वा तज्जह्याच्छुचौ देशे समाहितः
स्नात्वा सन्तर्पयेद्देवानृषीन् पितृगणांस्तथा ।सम्मार्ज्य मन्त्रै रात्मानं कुशैः सोदकबिन्दुभिः
आपोहिष्ठाव्याहृतिभिः सावित्र्या वारुणैःशुभैः ।ओँकारयाहृतियुतां गायत्त्रीं देवमातरम् ।जप्त्वा जलाञ्जलिं दद्याद्भास्करं प्रति तन्मनाः
प्राक्कूलेषु समासीनो दर्भेषु सुसमाहितः ।प्राणायामत्रयं कृत्वा ध्यायेत् सन्ध्यामिति स्मृतिः
या सन्ध्या सा जगत्सूतिर्मायातीता चनिष्कला ।ऐश्वरी तु परा शक्तिस्तत्तन्मन्त्रसमुद्भवा
ध्यात्वार्कमण्डलगतां सावित्रीं वै जपन् बुधः ।प्राङ्मुखः सततं विप्रः सन्ध्योपासनमाचरेत्
सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्व्वकर्म्मसु ।यदन्यत् कुरुते किञ्चित् तस्य फलमाप्नुयात्
अनन्यचेतसः शान्ता ब्राह्मणा वेदपारगाः ।उपास्य विधिषत् सन्ध्यां प्राप्ताश्च परमां गतिम्
योऽन्यत्र कुरुते यत्नाद्धर्म्मकार्य्यं द्विजोत्तमः ।विहाय सन्ध्याप्रणतिं याति नरकायुतम्
तस्मात् सर्व्वप्रयत्नेन सन्ध्योपासनमाचरेत् ।उपासितो भवेत्तेन देवो योगतनुः परः
सहस्रपरमां नित्यं शतमध्यां दशावराम् ।सावित्रीं वै जपेद्बिद्बान् प्राङ्मुखः प्रयतः स्थितः
अथोपतिष्ठेदादित्यमुदयन्तं समाहितः ।मन्त्रैस्तु विविधैः सौरैरृग्यजुःसामसम्भवैः
उपस्थाय महायोगं देवदेवं दिवाकरम् ।कुर्व्वीत प्रणतिं भूमौ मूर्द्ध्ना नित्यञ्च मन्त्रतः
*
ओँ खं खखोल्काय शान्ताय कारणत्रयहेतवे ।निवेदयामि चात्मानं नमस्ते ज्ञानरूपिणे
नमस्ते घृणये तुभ्यं सूर्य्याय ब्रह्मरूपिणे ।त्वमेव ब्रह्म परममापो ज्योती रसोऽमृतम्
भूर्भुवः स्वस्त्वमोङ्कारः सर्व्वे रुद्राः सनातनाः ।पुरुषः सन्महोऽतस्त्वां प्रणमामि कपर्द्दिनम्
त्वमेव विश्वं बहुधा सदसत् सूयसे यत् ।नमो रुद्राय सूर्य्याय त्वामहं शरणं गतः
प्राचेतसे नमस्तुभ्यमुमायाः पतये नमः ।नमोऽस्तु नीलग्रीवाय नमस्तुभ्यं पिनाकिने
विलोहिताय भर्गाय सहस्राक्षाय ते नमः ।नम उमापतये तुभ्यमादित्याय नमोऽस्तु ते
नमस्ते बहुहस्ताय त्र्यम्बकाय नमोऽस्तु ते ।प्रपद्ये त्वां विरूपाक्ष ! महान्तं परमेश्वरम्
हिरण्मये गृहे गुप्तमात्मानं सर्व्वदेहिनाम् ।नमस्यामि परं ज्योतिर्ब्रह्माणं त्वां परामृतम्
विश्वं पशुपतिं भीमं नरनारीशरीरिणम् ।नमः सूर्य्याय रुद्राय भास्वते परमेष्ठिने ।उग्राय सर्व्वभक्ष्याय त्वां प्रपद्ये सदैव हि
*
एतद्वै सूर्य्यहृदयं जप्त्वा स्तवमनुत्तमम् ।प्रातःकालेऽथ मध्याह्ने नमस्कुर्य्याद्दिवाकरम्
इदं पुत्त्राय शिष्याय धार्म्मिकाय द्बिजातये ।प्रदेयं सूर्य्यहृदयं ब्रह्मणा तु प्रदर्शितम्
सर्व्वपापप्रशमनं वेदसारं समुद्धृतम् ।ब्राह्मणानां हितं पुण्यं ऋषिसंघैर्निषेवितम्
यस्तु नित्यं पठेद्धीमान् प्रेक्षन्नादित्यमण्डलम् ।महापातकयुक्तोऽपि पूयते नात्र संशयः
क्षयापस्मारकुष्ठाद्यैर्व्याधिभिः पीडितोऽपि सन् ।जप्त्वा शतगुणं स्तोत्रं श्लाघ्यो भवति द्रुतम्
भूतग्रहपिशाचातिबीजव्यसनकर्षिभिः ।स्तुवन् ध्यात्वा हरिं विप्रो मुच्यते महतो भयात्
अथागत्य गृहं विप्रः समाचम्य यथाविधि ।प्रज्वाल्य वह्निं विधिवज्जुहुयाज्जातवेदसम्
ऋत्विक्पुत्त्रोऽथ पत्नी वा शिष्यो वापि सहो-दरः ।प्राप्यानुज्ञां विशेषेण जुहुयुर्व्वा यथाविधि
पवित्रपाणिः पूतात्मा शुक्लाम्बरधरोत्तरः ।अनन्यमानसो भूत्वा जुहुयात् संयतेन्द्रियः
विना दर्भेण यत् कर्म्म विना मन्त्रेण वा पुनः ।राक्षसं तद्भवेत् सर्व्वं नामुत्रेह फलप्रदम्
*
दवतानि नमस्कुर्य्याद्देयमारान्निवेदयेत् ।दद्यात् पुष्पादिकं तेषां वृद्धांश्चैवाभिवादयेत्
गुरुञ्चैवाभ्युपासीत हितञ्चास्य समाचरेत् ।वेदाभ्यासं ततः कुर्य्यात् प्रयत्नाद्भक्तितो द्विजः
जपेदध्यापयेच्छिष्यान् श्रावयेच्च विधारयेत् ।अवेक्षेत शास्त्राणि धर्म्मादीनि द्विजोत्तमः
वैदिकांश्चैव नियमान् वेदाङ्गानि विशेषतः ।उपेयादीश्वरञ्चाथ योगक्षेमप्रसिद्धये
साधयेद्विविधानर्थान् कुटम्बार्थे ततो द्बिजः
”इति कौर्म्मे उपविभागे १७ अध्यायः
*
अपि ।“प्रातः शिरसि शुक्लाब्जे द्विनेत्रं द्बिभुजं गुरुम् ।प्रसन्नवदनं शान्तं स्मरेत्तन्नामपूर्व्वकम्
”ओँ नमो गुरवे तस्मा इष्टदेवस्वरूपिणे ।यस्य वाक्यामृतं हन्ति विषं संसारसंज्ञकम्
”इति पठेत्
“अहं देवो चान्योऽस्मि ब्रह्मैवास्मि शोक-भाक् ।सच्चिदानन्दरूपोऽहं नित्यमुक्तस्वभाववान्
”इति भावयेत् ।“लोकेश ! चैतन्यमयादिदेवश्रीकान्त विष्णो भवदाज्ञयैव ।प्रातः समुत्थाय तव प्रियार्थंसंसारयात्रामनुवर्त्तयिष्ये
जानामि धर्म्मं मे प्रवृत्ति-र्जानाम्यधर्म्मं मे निवृत्तिः ।त्वया हृषीकेश ! हृदि स्थितेनयथा नियुक्तोऽस्मि तथा करोमि
”विष्णुपुराणे ।“प्रबुद्धश्चिन्तयेद्धर्म्ममर्थञ्चास्याविरोधिनम् ।अपीडया तयोः काममुभयोरपि चिन्तयेत्
”धर्म्मलक्षणन्तु भविष्ये ।“धर्म्मः श्रेयः समुद्दिष्टं श्रेयोऽभ्युदयसाधनम्
”अतएव जैमिनिः चोदनालक्षणोऽर्थो धर्म्मइति तेन वैदिकलिङ्प्रतिपाद्योऽर्थो धर्म्मः ।कोऽर्थो योऽभ्युदयाय इति तु भविष्ये
*
ततः ओँ प्रियदत्तायै भुवे नमः इति नमस्कृत्यदक्षिणं चरणं न्यसेत् छन्दोगपरिशिष्टम् ।“श्रोत्रियं सुभगामग्निं गाञ्चैवाग्निचितं तथा ।प्रातरुत्थाय यः पश्येदापद्भ्यः विमुच्यते
पापिष्ठं दुर्भगां मद्यं नग्नमुत्कृत्तनासिकम् ।प्रातरुत्थाय यः पश्येत्तत् कलेरुपलक्षणम्
”अतएव व्यासः ।“धनिनः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः ।पञ्च यत्र विद्यन्ते तत्र वासं कारयेत्
”महाभारते ।“कर्कोटकस्य नागस्य दमयन्त्या नलस्य ।ऋतुपर्णस्य राजर्षेः कीर्त्तनं कलिनाशनम्
”मात्स्ये ।“कार्त्तवीर्य्यार्ज्जुनो नाम राजा बाहुसहस्रभृत् ।योऽस्य संकीर्त्तयेन्नाम कल्यमुत्थाय मानवः
तस्य वित्तनाशः स्यान्नष्टञ्च लभते पुनः
”कल्यं प्रातः
*
अथ विण्मूत्रोत्सर्गः विष्णुधर्म्मोत्तरे ।“निद्रां जह्याद्गृही राम ! नित्यमेवारुणोदये ।वेगोत्सर्गं ततः कृत्वा दन्तधावनपूर्व्वकम्
स्नानं समाचरेत् प्रातः सर्व्वकल्मषनाशनम्
”अरुणोदयकालमाह स्कन्दपुराणम् ।“उदयात् प्राक् चतस्रस्तु नाडिका अरुणोदयः ।तत्र स्नानं प्रशस्तं स्यात्तद्धि पुण्यतमं स्मृतम्
”नाडिका दण्डः विष्णुधर्म्मोत्तरे ।“वेगरोधं कर्त्तव्यमन्यत्र क्रोधवेगतः ।”आयुर्व्वेदीयेऽपि वेगितोऽन्यकार्य्यसिद्धिःस्यान्नाजित्वा साध्यमामयम् अङ्गिराः ।“उत्थाय पश्चिमे रात्रेस्तत आचम्य चोदकम् ।अन्तर्द्धाय तृणैर्भूमिं शिरः प्रावृत्य वाससा
वाचं नियम्य यत्नेन ष्ठीवनोच्छासवर्ज्जितः
कुर्य्यान्मूत्रपुरीषे तु शुचौ देशे समाहितः
”विष्णुपुराणम् ।“ततः कल्यं समुत्थाय कुर्य्यान्मैत्रं नरेश्वर ! ।नैरृत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः
तिष्ठेन्नातिचिरं तत्र नैव किञ्चिदुदीरयेत्
”कल्यमुषःकालम् मैत्रं मित्रदेवताकपायुसम्ब-न्धात् पुरीषोत्सर्गः नैरृत्यामुत्थानदेशमारभ्यउत्थायेत्यनेन उपस्थितेः इषुप्रक्षेपयोग्यदेशा-द्बहिः तद्देशपरिमाणमाह पितामहः ।“मध्यमेन तु चापेन प्रक्षिपेत्तु शरत्रयम् ।हस्तानाञ्च शते सार्द्धे लक्ष्यं कृत्वा विचक्षणः
”आपस्तम्बः ।“मूत्रपुरीषोत्सर्गं कुर्य्याद्दक्षिणां दिशं दक्षिणा-परां वेति ।” दक्षिणापरां नैरृतीम् मनुः ।“मूत्रोच्चारसमुत्सर्गं दिवा कुर्य्यादुदङ्मुखः ।दक्षिणाभिमुखो रात्रौ सन्ध्ययोश्च यथा दिवा
”यत्तु यमवचनम् ।“प्रत्यङ्मुखश्च पूर्व्वाह्णे त्वपराह्णे प्राङ्मुखः ।उदङ्मुखस्तु मध्याह्ने निशायां दक्षिणामुखः
”इति तदिच्छाविकल्पार्थं सूर्य्याभिमुखनिरा-सार्थञ्च तु नियमार्थं देवलवचनविरोधात् ।तथा देवलः ।“सदैवोदङ् मुखः प्रातः सायाह्ने दक्षिणामुखः ।विण्मूत्रमाचरेन्नित्यं सन्ध्यायां परिवर्ज्जयेदिति
”अत्र प्रातःसायाह्नशब्दौ दिवारात्रिपरौपूर्व्वोक्तमनुवचनैकवाक्यत्वात् सन्ध्यायां परि-वर्ज्जयेदिति तु पीडितेतरपरम्
*
यमः ।“कृत्वा यज्ञोपवीतन्तु पृष्ठतः कण्ठलम्बितम् ।विण्मूत्रे गृही कुर्य्याद्यद्वा कर्णे समाहितः
”पृष्ठतः पृष्ठे कण्ठलम्बितं निवीतं तत् पृष्ठ-लम्बितं निवीतमापृष्ठदेशावलम्बं ग्राम्यधर्म्मेष्वितिनिगमपरिशिष्टवचनात् ।“नियम्य प्रयतो वाचं संवीताङ्गोऽवगुण्ठितः
”इति मनुवचनाच्च
अत्र संवीतं निवीतं संवीतं मानुष इति तैत्ति-रीयश्रुतेः मानुषे सनकादिकृत्ये पृष्ठलम्बितंनिवीती वेति वौधायनीयाच्च ततश्च हारवत्कृत्वा पृष्ठलम्बितं स्कन्धे इत्यर्थः एकवस्त्रता-पक्षे व्यवस्थामाह सांख्यायनः यद्येकवस्त्रोयज्ञोपवीतं कर्णे कृत्वा अवगुण्ठित इति कर्णेदक्षिणे पवित्रं दक्षिणे कर्णे विण्मूत्रमाचरे-दिति स्मृतौ तथा दर्शनात् अवगुण्ठितः कृत-शिरोऽवगुण्ठनः मनुः ।“छायायामन्धकारे वा रात्रावहनि वा द्बिजः ।यथासुखमुखः कुर्य्यात् प्राणवाधभयेषु
”महाभारते ।“प्रत्यादित्यं प्रतिजलं प्रति गाञ्च प्रति द्विजम् ।मेहन्ति ये पथिषु ते भवन्ति गतायुषः
”प्रतिः सांमुख्ये
*
मनुः ।“न मूत्रं पथि कुर्व्वीत भस्मनि गोव्रजे ।न फालकृष्टे जले चित्यां पर्व्वते
जीर्णदेवायतने वल्मीके कदाचन ।न ससत्त्वेषु गर्त्तेषु गच्छन्नापि संस्थितः
नदीतीरमासाद्य पर्व्वतमस्तके ।गवाग्निविप्रानादित्यमपः पश्यंस्तथैव
कदाचन कुर्व्वीत विण्मूत्रस्य विसर्ज्जनम् ।ससत्त्वेषु प्राणिमत्सु संस्थित उत्थितःपर्व्वतनिषेधादेव मस्तकनिषेधे सिद्धे पुनर्निषेधंयत्र पर्व्वतोऽशक्यपरीहारस्तत्रापि मस्तकवर्ज्जनार्थः अथवा पर्व्वतमस्तकनिषेधोऽधिकदोषाय
*
वशिष्ठः ।“आहारनिर्हारविहारयोगाःसुसंवृता धर्म्मविदा तु कार्य्याः ।वाग्बुद्धिगुप्ती तपस्तथैवधनायुषी गुप्ततमे तु कार्य्ये
”निर्हारो मूत्रपुरीषोत्सगः विहारः स्त्रीसं-भोगः योगः समाधिः वाग्गुप्तिरशुभालाप-त्यागः बुद्धिगुप्तिरनिष्टचिन्तात्यागः हारीतः ।“आहारन्तु रहः कुर्य्यान्निर्हारञ्चैव सर्व्वदा ।गुप्ताभ्यां लक्ष्म्यपेतः स्यात् प्रकाशे हीयते तथा
”विष्णुपुराणम्“सोमाग्न्यर्काम्बुवायूनां पूज्यानाञ्च संमुखम् ।कुर्य्यात् ष्ठीवनविण्मूत्रसमुत्सर्गञ्च पण्डितः
”आपस्तम्बः “न सोपानत्को मूत्रपुरीषेकुर्य्यादिति ।” बृहन्मनुः ।“करगृहीतपात्रेण कृत्वा मूत्रपुरीषके ।मूत्रतुल्यन्तु पानीयं पीत्वा चान्द्रायणञ्चरेत्
”भरद्वाजः ।“अथावकृष्यविण्मूत्रं लोष्टकाष्ठतृणाद्विना ।उदस्तवासा उत्तिष्ठेद्दृढं विधृतमेहनः
*
उदस्तवासाः कटिदेशादूर्द्ध्वक्षिप्तवस्त्रः ।अथ शौचम् देवलः ।“धर्म्मविद्दक्षिणं हस्तमधःशौचे योजयेत् ।तथैव वामहस्तेन नाभेरुर्द्ध्वं शोधयेत् ।प्रकृतिस्थितिरेषा स्यात् कारणादुभयक्रिया
”कारणाद्रोगादेः ब्रह्माण्डपुराणम् ।“उद्धृतोदकमादाय मृत्तिकाञ्चैव वाग्यतः ।उदङ्मुखो दिवा कुर्य्याद्रात्रौ चेद्दक्षिणारुखः
सुनिर्निक्ते मृदं दद्यान्मृदन्ते त्वप एव
”कुर्य्याच्छौचमिति शेषः सुनिर्निक्ते भरद्वाजोक्त-लोष्टादिप्रमृष्टे गुदे उदकपात्राभावे करेणजलाशयात् उदकग्रहणमाह आदित्यपुराणम् ।“रत्निमात्रं जलं-त्यक्त्वा कुर्य्याच्छौचमनुद्धृते ।पश्चाच्च शोधयेत्तीर्थमन्यथा शुचिर्भवेत्
”तस्मिन् देशे शौचं कर्त्तव्यं यस्माद्रत्निमात्रव्यव-हितं जलं तत्स्थलमेव तीर्थं जलसमीपत्वात्
*
विष्णुपुराणम् ।“वल्मीकमूषिकोत्खातां मृदमन्तर्जलान्तथा ।शौचावशिष्टां गेहाच्च नादद्याल्लेपसम्भवाम्
अन्तःप्राण्यवपन्नाञ्च हलोत्खातां सकर्द्दमाम्
”मनुदक्षौ ।“एका लिङ्गे गुदे तिस्रस्तथा वामकरे दश ।उभयोः सप्त दातव्या मृदः शुद्धिमभीप्सता
”उभयोः करयोः वामहस्ते दशदानानन्तरंतत्पृष्ठे षड्दामाह हारीतः दशमध्ये चषट् पृष्ठे इति शङ्खदक्षौ ।“तिस्रस्तु मृत्तिका देयाः कृत्वा तु नखशोधनम् ।तिस्रस्तु पादयोर्देयाः शुद्धिकामेन नित्यशः
”नखशोधनं तृणादिना नखान्तर्मलशोधनम् ।तिस्र इति हस्तयोरिति शेषः
*
पादप्रक्षालनं कांस्ये कर्त्तव्यमित्याह विष्णु-धर्म्मोत्तरम् ।“दर्भैर्न मार्ज्जयेत् पादौ कांस्ये प्रधावयेत्
”दक्षः ।“लिङ्गे तत्र समाख्याता त्रिपर्व्वी पूर्य्यते यया ।अर्द्धप्रसृतिमात्रा तु प्रथमा मृत्तिका स्मृता
द्बितीया तृतीया तदर्द्धं परिकीर्त्तितम्
”यदा तु उक्तप्रमाणया मृदा गन्धलेपक्षयो नभवति तदा अधिकयापि कर्त्तव्यम् ।“गन्धलेपक्षयकरं शौचं कुर्य्यादतन्द्रितः
”इति याज्ञवल्क्यवचनात्
गुदादन्यत्र परिमाणमाह यमः ।“मृत्तिका तु समुद्दिष्टा त्रिपर्व्वी पूर्य्यते यया ।”त्रिपर्व्वी तर्ज्जनीमध्यमानामिकानामग्रपर्व्व-त्रयम्
*
मूत्रमात्रे तु स्मृतिः ।“एकां लिङ्गे मृदं दद्यात् वामहस्ते तु मृत्त्रयम् ।उभयोर्हस्तयोर्द्वे तु मूत्रशौचं प्रकीर्त्तितम्
”ब्रह्मपुराणे ।“पादयोर्द्वे गृहीत्वा सुप्रक्षालितपाणिमान् ।द्विराचम्य ततः शुद्धः स्मृत्वा विष्णुं सनातनम्
”पादयोर्द्वे एकैका इदं मूत्रे पुरीषोत्सर्गेतिसृणां विधानात्
*
दक्षः ।“यथोदितं दिवा शौचमर्द्धं रात्रौ विधीयते ।आतुरे तदर्द्धं स्यात् तदर्द्धन्तु पथि स्मृतम्
”यथोक्तकरणाशक्तावेवेदं तु निशादिपुरस्कारे-णैव वाक्यस्यादृष्टार्थतापत्तेः
*
आपस्तम्बः ।“पथि पादस्तु विज्ञेय आर्त्तः कुर्य्याद्यथाबलम् ।”एतयोर्व्विरोधस्तु आर्त्तानार्त्ताभ्यां परिहर-णीयः दक्षः ।“देशं कालं तथात्मानं द्रव्यं द्रव्यप्रयोजनम् ।उपपत्तिमवत्थाञ्च ज्ञात्वा शौचं प्रकल्पयेत्
”ब्रह्मपुराणे ।“न यावदुपनीयेत द्विजः शूद्रस्तथाङ्गना ।गन्धलेपक्षयकरं शौचं तेषां विधीयते
प्रमाणं शौचसंख्या वा शिष्टैरुपदिश्यते ।यावच्च शुद्धिं मन्येत तावत शौचं समाचरेत्
”दक्षः ।“न्यूनाधिकं कर्त्तव्यं शौचं शुद्धिमभीप्सता ।प्रायश्चित्तं प्रसज्जेत विहितातिक्रमे कृते
शौचाचारविहीनस्य समस्ता निष्फलाःक्रियाः
”गन्धलेपक्षये सत्यधिकं कर्त्तव्यं पूर्व्वोक्तयाज्ञ-वल्क्यविरोधात् गन्धलेपाक्षये त्वधिकसंख्य-यापि याज्ञवल्क्यवचनमनुपनीतादिपरं वापूर्व्वोक्तब्रह्मपुराणैकवाक्यत्वात्
*
“एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।त्रिगुणन्तु वनस्थानां यतीनाञ्च चतुर्गुणम्
”इदन्तु द्बैमुण्यादिकं संख्यामात्रे तदनन्तराभि-धानात् व्याघ्रपादः ।“शौचन्तु द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा ।मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिस्तथापरम्
गङ्गातोयेन कृत्स्नेन मृद्भारैश्च नगोपमैः ।आमृत्योः स्नातकश्चैव भावदुष्टो शुध्यति
”स्मृतिः ।“धावन्तञ्च प्रमत्तञ्च मूत्रोच्चारकृतन्तथा ।भुञ्जानमाचमानञ्च नास्तिकं नाभिवादयेत्
जन्मप्रभृति यत्किञ्चित् चेतसा धर्म्ममाचरेत् ।सर्व्वं तन्निष्फलं याति एकहस्ताभिवादनात्
”ऋष्यशृङ्गः ।“यस्मिन् स्थाने कृतं शौचं वारिणा तद्विशो-धयेत् ।न शुद्धिस्तु भवेत्तस्य मृत्तिकां यो शोधयेत्
”शौचानन्तरं हारीतः गोमयेन मृदा वाकमण्डलुं प्रमृज्य पूर्व्ववदुपस्पृश्य आदित्यं सोम-मग्निं वा वीक्षेतेति अत्र मार्जनानन्तरंक्षलनं अन्यत्र तथादर्शनात् आचमनान-न्तरं आदित्यादिदर्शनं यथासम्भवम् शौचंकृत्वा मूत्रोच्चारं पश्येत् दृष्ट्वादित्यमग्निं सोमंवा पश्येदिति
*
अथाचमनविधिः दक्षः ।“प्रक्षाल्य पाणी पादौ त्रिः पिबेदम्बु वीक्षि-तम् ।संवृत्याङ्गुष्ठमूलेन द्विः प्रमृज्यात्ततो मुखम्
संहत्य तिसृभिः पूर्व्वमास्यमेवमुपस्पृशेत् ।अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम्
अङ्गुष्ठानामिकाभ्याञ्च चक्षुःश्रोत्रे पुनः पुनः ।नाभिं कनिष्ठाङ्गुष्ठेन हृदयन्तु तलेन वै
सर्व्वाभिस्तु शिरः पश्चाद्बाहू चाग्रेण संस्पृशेत्
”पादप्रक्षालनं विशेषयति देवलः ।“प्रथमं प्राङ्मुखः स्थित्वा पादौ प्रक्षालयेत् शनैः ।उदङ्मुखो वा दैवत्ये पैतृके दक्षिणामुखः
”शनैरत्वरः दैवपैतृकेतरत्रापस्तम्बः प्रत्यक्-पादावसेचनमिति प्रत्यक् पश्चिमाभिमुखः ।क्रममाह गोभिलः सव्यं पादमवनेनिज इतिसव्यं पादं प्रक्षालयेत् दक्षिणं पादमवनेनिजइति दक्षिणं पादं प्रक्षालयेदिति अर्हणीयेतथादर्शनात् सर्व्वत्र तथा कल्प्यते पारस्करः ।सव्यं पादं प्रक्षाल्य दक्षिणं प्रक्षालयतीति सूत्रेणप्राक् सव्यपादप्रक्षालने सिद्धे सव्यं प्रक्षाल्यदक्षिणं प्रक्षालयतीत्यत्र सव्यग्रहणं सामान्यार्थंतेनान्यस्यापि पादप्रक्षालने सव्यस्यैव प्राथम्यम्अन्यार्थं पुनर्व्वचनमिति न्यायात् अन्यार्थमधि-कार्थम् ब्राह्मणश्चेद्दक्षिणं प्रथममिति सूत्रंतस्य पादौ यदि ब्राह्मणः प्रक्षालयति तदादक्षिणं प्रथममिति सव्यम् यथा प्रक्षाल-यतीत्यनुवृत्तौ आश्वलायनः दक्षिणमग्रे ब्राह्म-णाय प्रयच्छेत् सव्यं शूद्रायेति स्वयं प्रक्षालनेसव्यस्यैव प्राथम्यमिति एवं हरिशर्म्मापि ।आचमने पाणिपादप्रक्षालनं मूत्राद्यत्मर्गे ।यथा वृद्धपराशरः ।“कृत्वाथ शौचं प्रक्षाल्य हस्तौ पादौ चमृज्जलैः ।निबद्धशिख आसीनो द्विज आचमनञ्चरेत्
कृत्वोपवीतं सव्यांशे वाङ्मनःकायसंयतः
”आपस्तम्बः ।“इत्येवमद्भिराजानु प्रक्षाल्य चरणौ पृथक् ।हस्तौ चामणिबन्धाभ्यां पश्चादासीत संयतः
”आजानु आमणिबन्धाभ्यामित्यवध्युपादानं तत्-पर्य्यन्ताशुचित्वशङ्कायां अध्वश्रमापनोदनायअतिशयशौचाय वा अतएवोक्तं अङ्गप्रकर्षात्फलप्रकर्ष इति
*
शिखाबन्धने विशेषमाहब्रह्मपुराणम् ।“गायत्त्र्या तु शिखां बद्ध्वा नैरृत्यां ब्रह्मरन्ध्रतः ।जुटिकाञ्च ततो बद्ध्वा ततः कर्म्म समाचरेत्
*
पिबेदित्यत्रान्तर्जान्वाह याज्ञवल्क्यः ।“अन्तर्जानु शुचौ देशे उपविष्ट उदड्मुखः ।प्राग्वा ब्राह्मेण तीर्थेन द्विजो नित्यमुपस्पृशेत्
”अन्तर्जानु जानुनोर्म्मध्ये हस्तौ कृत्वेति शेषः ।वाशब्दादीशानाभिमुखः ।“ईशानाभिमुखो भूत्वोपस्पृशेत्तु यथाविथि
”इति मरीच्युक्तेः
ब्राह्मेण तीर्थेन अङ्गुष्ठमूलेन ।“कनिष्ठदेशिन्यङ्गुष्ठमूलान्यग्रं करस्य ।प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात्
”इति याज्ञवल्क्यात्
देशिनी तर्ज्जनी करस्य दक्षिणस्य यथामार्कण्डेयपुराणम् ।“अङ्गुष्ठोत्तरतो रेखा या पाणेर्दक्षिणस्य ।एतद्ब्राह्ममिति ख्यातं तीर्थमाचमनाय वै
”अत्र द्विजो स्त्रीशूद्राविति मिताक्षरा
अत-एव ।“स्त्रियास्त्रैदशिकं तीर्थं शूद्रजातेस्तथैव ।सकृदाचमनाच्छुद्धिरेतयोरेव चोभयोः
”ब्राह्मतीर्थावरोधे तु मनुः ।“कायत्रैदशिकाभ्यां वा पैत्र्येण कदाचन ।”उक्ततीर्थत्रयस्य ब्रणादिनावरोधे करमध्यात्म-काग्नेयेनापि एवञ्च सर्व्वाविरोधे सुवर्णादि-पात्रेणाप्याचमनं कार्य्यं स्वयमसामर्थेऽन्येनाच-मनं कारयितव्यम् याज्ञवल्क्यः ।“अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनवुद्वुदः ।हृत्कण्ठतालुगाभिस्तु यथासंख्यं द्बिजातयः
शुध्येरन् स्त्री शूद्रश्च सकृत् स्पृष्ठाभिरन्ततः
”अन्ततः ओष्ठोपान्ते उत्तरोत्तरमुपकर्षात् ।अतएव स्पृष्टाभिरित्युक्तं तु भक्षिताभिरिति ।स्त्री शूद्रो वाथ नित्याम्भः क्षालनाच्च करोष्ठयो-रिति ब्रह्मपुराणाच्च आचमनार्थे पाणिपाद-प्रक्षालनमेवेत्येके इति शूद्राधिकारे गोतमो-क्तेश्च आचमनार्हजलाभावे इदमित्याचारा-ध्यायः मनुः ।“हृद्गाभिः पूयते विप्रः कण्ठगाभिश्च भूमिपः ।वैश्योऽद्भिः प्राशिताभिश्च शूद्रः स्पृष्टाभिर-न्ततः
”अत्र वश्यावधिप्राशनमुक्तम् अनुपनीतानान्तुस्त्रीशूद्रवदाचमनं यावदुपनीयेत इतिप्रागुक्तशौचे तथादर्शनात् मिताक्षरादयो-ऽप्येवम् अम्बु विशेषयति वौधायनः पाद-प्रक्षालनाच्छेषेण नाचामेत यद्याचामेत् भूमौस्रावयित्वाचामेदिति उशनाः ।“कांस्यायसेन पात्रेण त्रपुसीसकपित्तलः ।आचान्तः शतकृत्वोऽपि कदाचिच्छुचि-र्भवेत्
”कांस्यादिपात्रकरणकाचमनं कांस्यायसेनेत्या-दिना निषिद्बमिति केचित् हस्तेनाचमनेऽपिकांस्यादिपात्रावर्ज्जितं तन्निषिद्धमित्यपरे ।आचमनजलनिषेधे शङ्खलिखितौ शूद्राशुच्येकपाण्या वर्ज्जितेनेति अत्राशुचिपदम्आचमनकर्त्तृभिन्नपरम् शूद्रसाहचर्य्यात् एकपाणिपदमपि आचमनकर्त्तृभिन्नपाणिपरम् ।तेन स्वीयवामपाण्यावर्ज्जितमनिषिद्धम् तथाच कमण्डल्वधिकारे बौधायनः मूत्रपुरीषेकुर्व्वन् दक्षिणहस्तेन गृह्णाति सव्येनाचमनीय-मिति गृह्णाति जलपात्रमिति शेषः आचा-मेदित्यनुवृत्तौ देवलः ।“शिखां बद्धा वसित्वा द्वे निर्निक्ते वाससी शुभे ।तूष्णीं भूत्वा समादाय नोद्गच्छन्नविलोकयन्
”एकवस्त्राः प्राचीनावीतिन इत्यादिपारस्कर-दर्शनात् यत्र प्रेतस्नानतर्पणादौ एकवस्त्रत्वंविहितं तत्र तदङ्गत्वादेकवासा एवाचमनंकुर्य्यात् प्रचेताः ।“अनुष्णाभिरफेनाभिः पूताभिर्वीक्ष्य चक्षुषा ।हृद्गताभिरशब्दाभिस्त्रिश्चतुर्व्वाद्भिराचमेत्
”चतुर्व्वेति भावशुद्ध्यपेक्षया विकल्पः तुफलभूयस्त्वार्थं कल्पनागौरवापत्तेः वीक्षणा-नुष्णयोर्भट्टभाष्यमाधवाचार्य्यकृतपराशरभाष्य-योरपवादमाह यमः ।“रात्राववीक्षितेनापि शुद्धिरुक्ता मनीषिभिः ।उदके नातुराणाञ्च तथोष्णेनोष्णपायिनाम्
”आचामेदित्यनुवृत्तौ वशिष्ठः प्रदरादपि यागोस्तर्पणाय स्युर्न वर्णरसदुष्टाभिर्याश्च स्युरशु-भागमा इति प्रदरो विदीर्णभूभागः अशु-भागमाः अशुचिदेशादागताः यस्मिन् देशेवर्णादिदुष्टमेव तोयं तत्र तदपि ग्राह्यम् तथाच मरीचिः ।“येषु स्थानेषु यच्छौचं धर्म्माचारश्च यादृशः ।तत्र तन्नावमन्येत धर्म्मस्तत्रैव तादृशः
येषु स्थानेषु ये देवा येषु देशेषु ये द्बिजाः ।येषु स्थानेषु यत्तोयं या यत्रैव मृत्तिका
”आचमने उदकग्रहणप्रकारं परिमाणञ्चाहभरद्वाजः ।“आयतं पर्व्वणां कृत्वा गोकर्णाकृतिवत् करम् ।संहताङ्गुलिना तोयं गृहीत्वा पाणिना द्विजः
मुक्ताङ्गुष्ठकनिष्ठाभ्यां शेषेणाचमनञ्चरेत् ।माषमज्जनमात्रास्तु संगृह्य त्रिः पिबेदपः
”पाणिना दक्षिणेन त्रिः पिबेद्दक्षिणेनापिइत्यादिपुराणोक्तेः मार्कण्डेयः ।“सपवित्रेण हस्तेन कुर्य्यादाचमनक्रियाम् ।नोच्छिष्टं तत्पवित्रन्तु भुक्तोच्छिष्टन्तु वर्ज्जयेत्
”मदनपारिजाते हारीतः ।“ग्रन्थिर्यस्य पवित्रस्य तेनाचमनञ्चरेत्
”ग्रन्थनाद्ग्रन्थिरिति समुद्रकरेऽपि आचमना-नुवृत्तौ देवलः ।“न गच्छन्न शयानश्च चलन्न परान् स्पृ शन् ।न हसन्नैव संजल्पन्नात्मानञ्चैव वीक्षयन्
”चलन् कम्पमान इति रत्नाकरः
आत्मानंआत्मस्थानं हृदयम् वीक्षयन्निति स्वार्थे णिच् ।“केशान्नीवीमधःकायं स्पृशन् धरणीमपि ।यदि स्पृशति चैतानि भूयः प्रक्षालयेत् करम्
”अधःकायं नाभेरधःप्रदेशम् करं दक्षिणम् ।आचमनानुवृत्तौ गोभिलः ।“नान्तरीयैकदेशेन कल्पयित्वोत्तरीयकम्
”अन्तरीयमधःपरीधानं तदेकदेशमुत्तरीयं कृत्वामरीचिः ।“न बहिर्जानुस्त्वरया नासनस्थो चोत्थितः ।न पादुकास्थोऽन्यचित्तः शुचिः प्रयतमानसः
उपस्पृश्य द्विजो नित्यं शुद्धः पूतो भवेन्नरः ।भुक्त्रासनस्थो नाचामेन्नान्यकाले कदाचन
जलस्थलोभयकर्म्मानुष्ठानार्थन्तु जलस्थलैकचर-णेनाचमनं कर्त्तव्यमित्याह पैठीनसिः अन्त-रुदके आचान्तोऽन्तरेव शुद्धः स्यात् तस्मा-दन्तरेकं बहिरेकञ्च कृत्वा पादमाचामेत् सर्व्वत्रशुद्धो भवतीति जले तूत्तिष्ठन्नाचामेत् जानो-रुर्द्ध्वं जले तिष्ठन्नाचान्तः शुचितामियात् ।अधस्तात् शतकृत्वोऽपि समाचान्तो शुध्य-तीति विष्णूक्तेः हारीतः ।“आर्द्रवासा जले कुर्य्यात्तर्पणाचमनं जपम् ।शुष्कवासाः स्थले कुर्य्यात्तर्पणाचमनं जपम्
”कात्यायनः ।“स्नानमाचमनं होमं भोजनं देवतार्च्चनम् ।प्रौढपादो कुर्व्वीत स्वाध्यायं पितृतर्पणम्
आसनारूढपादस्तु जानुनोर्जङ्घयोस्तथा ।कृतावसक्थिको यस्तु प्रौढपादः उच्यते
”आसनारूढपादः आसनारोपितपादतलः ।जानुनोर्जङ्घयोः कृतावसक्थिको वस्त्रादिनाकृतपृष्ठजानुजङ्घाबन्धः तुद्बयेन भेदप्रतीतेःप्रौढपादस्य द्विविधत्वं प्रतीयते
*
अत्र चअनेकोद्बाह्ये दारुशिले भूमिसमे इष्टकाश्चसङ्कीर्णोभूता इति वौधायनवचनात्तथाविधेआरूढपादोऽपि कुर्य्यात् व्यासः ।“शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखोऽपिवा ।अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचि-र्भवेत्
”तथा ।“अपः पाणिनखाग्रेण आचामेद्यस्तु ब्राह्मणः ।सुरापानेन तत्तुल्यमित्येवमृषिरब्रवीत्
”संवृत्येति मुखं संवृत्य अलोमकोष्ठस्पर्शो यथान भवतीति तात्पर्य्यम् तथा वशिष्ठः ।“आचान्तः पुनराचामेद्बासो विपरिधाय ।ओष्ठौ संस्पृश्य तथा यत्र स्यातामलोमकौ
”एवञ्च प्रागुक्तहारीतवचने ओष्ठयोर्म्मार्जनमुक्तंतत् सलोमकयोरेवेति एतदनन्तरं वामहस्तंपादौ शिरश्च दक्षिणेन पाणिनाभ्युक्षयेत् ।तथा कामधेनावापस्तम्बः त्रिराचामेत्हृद्गाभिस्त्रिरोष्ठौ परिमृजेत् द्विरित्येके दक्षिणेनपाणिना सव्यं प्रोक्ष्य पादौ शिरश्चेति ।गोभिलः त्रिराचामेत् द्विः परिमृजीत पादा-वभ्युक्ष्य शिरोऽभ्युक्षयेदिति इन्द्रियाण्यद्भिःस्पृशेत् अक्षिणी नासिके कर्णाविति इन्द्रि-याणि इन्द्रियायतनानि इन्द्रियाणाममूर्त्तत्वात् ।तिसृभिरिति तर्ज्जनीमध्यमानामिकाभिः
*
सर्व्वत्राङ्गुष्ठयोगेन आचमनकारणमाह पैठी-नसिः अग्निरङ्गुष्ठस्तस्मात्तेनापि सर्व्वाणिस्थानानि स्पृशेत् निष्ठीवनादावाचमनंयथा वायुपुराणे ।“निष्ठीवने तथाभ्यङ्गे तथा पादावसेचने ।उच्छिष्ठस्य सम्भाषादशुच्युपहतस्य
सन्देहेषु सर्व्वेषु शिखां मुक्त्वा तथैव ।विना यज्ञोपवीतेन नित्यमेव उपस्य शेत्
उष्ट्रवायससंस्पर्शे दर्शने चान्त्यवासिनाम्
”हारीतः ।“स्त्रीशूद्रोच्छिष्टसंभाषणे मूत्रपुरीषोत्मर्गदर्शनेदेवमभिगन्तुकाम आचामेदिति ।” याज्ञवल्क्यः ।“स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे ।आचान्तः पुनराचामेद्बासो विपरिधाय
”ब्रह्मपुराणे ।“होमे भोजनकाले सन्ध्ययोरुभयोरपि ।आचान्तः पुनराचामेदन्यत्रापि सकृत् सकृत्
द्विराचम्य ततः शुद्धः स्मृत्वा विष्णुं सनातनम्
”स्मृतिः ।“क्षुते निष्ठीविते सुप्ते परिधानेऽश्रुपातने ।कर्म्मस्थ एषु नाचामेत् दक्षिणं श्रवणंस्पृ शेत्
”अत्र हेतुमाह पराशरः ।“प्रभासादीनि तीर्थानि गङ्गाद्याः सरितस्तथा ।विप्रस्य दक्षिणे कर्णे वसन्ति मनुरब्रवीत्
”सांख्यायनः ।“आदित्या वसवो रुद्रा वायुरग्निश्च धर्म्मराट् ।विप्रस्य दक्षिणे कर्णे नित्यं तिष्ठन्ति देवतः
”पुराणसारवायुपुराणयोः ।“यः कर्म्म कुरुते मोहादनाचन्यैव नास्तिकः ।भवन्ति हि वृथा तस्य क्रियाः सर्व्वा नसंशयः
*
अथ दन्तधावनम् वृद्धशातातपः ।“मुखे पर्य्युषिते नित्यं भवत्यप्रयतो नरः ।तस्मात् सर्व्वप्रयत्नेन भक्षयेद्दन्तधावनम्
”श्राद्धदिनादौ तस्य वर्ज्यत्वं यथा विष्णुः ।“श्राद्धे जन्मदिने चैव विवाहेऽजीर्णसम्भवे ।व्रते चैवोपवासे वर्ज्जयेद्दन्तधावनम्
”दन्तधावनमद्यादुदङ्मुखः प्राङ्मुखो वेति
*
दन्तलग्नस्य दन्ततुल्यत्वं यथा गोतमः ।दन्तश्लिष्टे दन्तवदन्यत्र जिह्वाभिधर्षणात् प्राक्च्युतेरित्येके च्युतेरास्राववद्विद्यान्निगरन्नेवतच्छुचिरिति जिह्वाभिघर्षणायोग्यं दन्तलग्नंअशौचजनकं भवतीत्यर्थः इदञ्चानुलभ्य-मानरसविषयम् दन्तवद्दन्तलग्नेषु रसवर्ज-मिति शङ्खवचनात् जिह्वाभिघर्षणेऽपि अश-क्योद्धरणे दोषः ।“भोजने दन्तलग्नानि निर्हत्याचमनञ्चरेत् ।दन्तलग्नमसंहार्य्यं लेपं मन्येत दन्तवत्
तत्र कुर्य्याद्बहुशो यत्नमुद्धरणे पुनः ।भवेदशौचमत्यर्थं तृणवेधाद्व्रणे कृते
”इति देवलवचनात्
च्युतेरित्युपलभ्यमानरसविषयम् आस्रावोलाला तद्वन्निगरन्नित्यर्थः अतएव शोणितंयथा भवति तथा तृणादिना दन्तलग्न-निःसारणाचरणम्
*
छन्दोगपरिशिष्टम् ।“नारदाद्युक्तवार्क्षेयमष्टाङ्गुलमपाटितम् ।सत्वचं दन्तकाष्ठं स्थात्तदग्रेण प्रधावयेत्
उत्थाय नेत्रे प्रक्षाल्य शुचिर्भूत्वा समाहितः
परिजप्य तु मन्त्रेण भक्षयेद्दन्तधावनम्
आयुर्बलं यशो वर्च्चः प्रजा पशुवसूनि ।ब्रह्मप्रज्ञाञ्च मेधाञ्च त्वन्नो धेहि वनस्पते
”शुचिर्भूत्वा द्विराचमनेनेति शेषः
*
नर-सिंहपुराणम्
“दन्तकाष्ठस्य वक्ष्यामि समासेन प्रशस्तताम् ।सर्व्वे कण्टकिनः पुण्याः क्षीरिणश्च यशस्विनः
”प्रमाणं स्थौल्यञ्चाह विष्णुः ।“कनीन्यग्रनिभस्थौल्यं सकूर्च्चं द्बादशाङ्गुलम् ।प्रातर्भूत्वा यतवाक् भक्षयेद्दन्तधावनम्
प्रक्षाल्य भुक्त्वा तज्जह्याच्छुचौ देशे समाहितः
”सकूर्च्चं दलिताग्रम् द्बादशाङ्गुलन्तु छन्दोगेत-रेषाम् ।“द्बादशाङ्गुलन्तु विप्राणां क्षत्त्रियाणां नवाङ्गुलम् ।अष्टाङ्गुलन्तु वैश्यानां शूद्राणान्तु षडङ्गुलम् ।भक्षयेत् शास्त्रदृष्टानि पर्व्वस्वपि वर्जयेत्
”तिथिविशेषे तस्य वर्ज्जनं यथा नृसिंहपुरा-णम् ।“प्रतिपद्दर्शषष्ठीषु नवम्याञ्चैव सत्तमाः ।दन्तानां काष्ठसंयोगो दहत्यासप्तमं कुलम्
अलामे दन्तकाष्ठानां प्रतिषिद्धदिने तथा ।अपां द्बादशगण्डूषैर्मुखशुद्धिर्विधीयते
”गण्डूषस्य दन्तकाष्ठकार्य्यकारित्वेऽपि तत्रमन्त्रान्वयः शातातपः ।“प्रतिपद्दर्शषष्ठीषु नवम्यां दन्तधावनम् ।पत्रैरन्यत्र काष्ठैश्च जिह्वोल्लेखः सदैव हि
”गुवाकादिपत्रैर्द्दन्तधावनं निषिद्धं यथा क्रिया-कौमुद्यां वशिष्ठः ।“गुवाकतालहिन्तालास्तथा ताडी केतकी ।खर्ज्जूरनारिकेलौ सप्तैते तृणराजकाः
तृणराजशिरापत्रैर्यः कुर्य्याद्दन्तधावनम् ।तावद्भवति चाण्डालो यावद्गां नैव पश्यति
”पराशरभाष्ये याज्ञवल्क्यः ।“नेष्टकालोष्टपाषाणैरितराङ्गुलिभिस्तथा ।त्यक्त्वा अनामिकाङ्गुष्ठौ वर्ज्जयेद्दन्तधावनम्
”प्रचेताः ।“मध्याह्नस्नानकाले तु यः कुर्य्याद्दन्तधावनम् ।निराशास्तस्य गच्छन्ति देवाः पितृगणैः सह
”स्मृतिः ।“वमन्तं जम्भमाणञ्च कुर्व्वन्तं दन्तधावनम् ।अभ्यक्तशिरसञ्चैव स्नातं नैवाभिवादयेत्
”हारीतः ।“शुचिं देवाभिरक्षन्ति पितरः शुचिमन्वियुः ।शुचेर्बिभ्यति रक्षांसि ये चान्ये दुष्टचारिणः
”तथा ।“स्नानं दानं तपस्त्यागो मन्त्रकर्म्मविधिक्रियाः ।मङ्गलाचारनियमाः शौचभ्रष्टस्य निष्फलाः
शौचन्तु द्बिविधं प्रोक्तं बाह्यमाभ्यन्तरन्तथा ।मृज्जलाभ्यां भवेत् बाह्यं भावशुद्धिस्तथापरम्
”अथ प्रातःस्नानसन्ध्ये ब्रह्मपुराणम् ।“प्रातःस्नानं ततः कृत्वा संक्षेपेण यथोदितम् ।सन्ध्याञ्चापि तथा कुर्य्यात् नित्यनैमित्तिके तथा
”कात्यायनः ।“यथाहनि तथा प्रातर्नित्यं स्नायादनातुरः ।दन्तान् प्रक्षाल्य नद्यादौ गेहे चेत्तदमन्त्रवत्
”दन्तान् प्रक्षाल्य प्रातरनातुरः स्नायात्
*
आतुरं विशेषयति आयुर्व्वेदीये ।“स्नानमर्द्दितनेत्रास्यकर्णरोगातिसारिषु ।आध्मानपीनसाजीर्णभुक्तवत्सु गर्हितम्
”तत्कालमाह विष्णुः प्रातःस्राय्यरुणकिरण-ग्रस्तां प्राचीमवलोक्य स्नायात् इति समुद्र-करधृतम्
*
“मृत्तिकातिलकं कुर्य्यात् स्नात्वा हुत्वा चभस्मना ।दृष्टदोषविधातार्थं चाण्डालाद्यादिदर्शने
”उशनाः ।“अभावे तूदकेनापि पितृदैवतमर्च्चयेत्
”ब्रह्माण्डपुराणे ।“कर्म्मादौ तिलकं कुर्य्याद्रूपं तद्वैष्णवं परम् ।गोप्रदानं जपो होमः स्वाध्यायः पितृतर्पणम्भस्मीभवति तत्सर्व्वमूर्द्ध्वपुण्ड्रं विना कृतम्
”ब्राह्मे ।“अङ्गुष्ठः पुष्टिदः प्रोक्तो मध्यमायुष्करी भवेत्अनामिकार्थदा नित्यं मुक्तिदा प्रदेशिनी
व्यासः ।“जाह्नवीतीरसम्भूतां मृदं मूर्द्ध्ना बिभर्त्ति यः ।बिभर्त्ति रूपं सोऽर्कस्य तमोनाशाय केवलम्
”गीपीचन्दनमाह शातातपः ।“गोमतीतीरसम्भूतां गोपीदेहसमुद्भवाम् ।मृदं मूर्द्ध्ना वहेद्यस्तु सर्व्वपापैः प्रमुच्यते
”ब्रह्माण्डपुराणे ।“ऊर्द्ध्वपुण्ड्रं मृदा कुर्य्यात् त्रिपुण्ड्रं भस्मना सदा ।तिलकं वै द्बिजः कुर्य्यात् चन्दनेन यदृच्छया
ऊर्द्ध्वपुण्ड्रं द्विजः कुर्य्यात् क्षत्त्रियश्च त्रिपुण्ड्रकम् ।अर्द्धचन्द्रञ्च वैश्यश्च वर्त्तुलं शूद्रयोनिजः
*
आतुराणान्तु ।“अशिरस्कं भवेत स्नानं स्नानाशक्तौ कर्म्मि-णाम् ।आर्द्रेण वाससा वापि मार्ज्जनं दैहिकं विदुः
”इति जावालवचनात् शिरो विहाय गात्रप्रक्षा-लनम् तदशक्तावार्द्रवाससा गात्रमार्जनंकुर्य्यात् तदनन्तरं सन्ध्यां कुर्य्यात् एतत्परमेवप्रातःसन्ध्यां ततः कुर्य्यात् दन्तधावनपूर्व्वकमितियाज्ञवल्क्यवचनम् इत्याह्निकाचारतत्त्वम्