| YouTube Channel

प्राणाहुति (prANAhuti)

 
Monier Williams Cologne
English
प्राणाहुति
f.
an oblation to the 5 Prāṇas,
A.
Shabdartha Kaustubha
Kannada
प्राणाहुति
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಬೋಜನಕ್ಕೆ ಪೂರ್ವದಲ್ಲಿ ಪ್ರಾಣರೂಪವಾದ ಅಗ್ನಿಯನ್ನು ಉದ್ದೇಶಿಸಿ ಮಾಡುವ ಹವಿಸ್ಸಿನ ಆಹುತಿ
व्युत्पत्तिः - > प्राणरूपेभ्यः अग्निभ्यः आहुतिः
वाचस्पत्यम्
Sanskrit
प्राणाहुति स्त्री प्राणरूपेभ्योऽग्निभ्य आहुतिः भोजनात्प्राक् गृहस्थकर्त्तव्ये प्राणरूपाग्न्युद्देश्यकाहुतौ तत्-प्रकारच आह्नि० त० दर्शितो यथाछन्दोगपरिशिष्टे “प्राणेभ्यस्त्वथ पञ्चभ्यः स्वाहा प्रण-वसंयुताः पञ्चाहुतीस्तु जुहुयात् प्रलयाग्निनिभेषुच” प्राणांहुतिमुद्रामाह शौनकः “तर्जनीमध्यमाङ्गु-ष्ठैर्लग्ना प्राणाहुतिर्भवेत् मध्यमानामिकाङ्गुष्ठैरपानेजुहुयात्ततः कनिष्ठानामिकाङ्गुष्ठैर्व्याने जुहुया-द्धविः तर्जनीन्तु बहिष्कृत्वा उदाने जुहुयात्ततः ।समाने सर्बहस्तेन समुदायाहुतिर्भवेत्” स्मृत्यर्थसारे“प्राणाहुतौ घृताभावे पश्चात् भुञ्जीत नो घृतम्” अत्रपाठक्रमेण प्राणापानव्यानोदानसमानरूपेभ्य आहुति-रुक्ता वैश्वानरविदस्तु छान्दो० उ० अन्यक्रम उक्तो यथा“तद्यद्भक्त प्रथममागच्छे त्तद्धोमीयं, यां प्रथमामाहुतिंजुहुयात्तां जुहुवात् प्रणाय स्वाहेति प्राणस्तुप्यति” ।अथ यां द्वितीयां जुहुयात्तां जुहुयाद्व्यानाय स्वाहेतिव्यानस्तृप्यति” “अथ यां तृतीयां जुहुयात्ता जुहुया-दषनाय स्वाहेत्यपानस्तृप्यति” “अथ यां चतुर्थीं जुहु-यात्तां जुहुयात् समानाय स्वाहेति समानस्तृप्यति” ।“अथ यां पञ्चमीं जुहुयात्तां जुहुयादुदानाय स्वाहेत्यु-दानस्तृप्यति”