| YouTube Channel

प्राणायामः (prANAyAmaH)

 
Apte Hindi
Hindi
प्राणायामः
पुं*
प्राणः-आयामः -
देवगुणों का मानस-पाठ करते हुए साँस रोकना
Wordnet
Sanskrit
Synonyms:
प्राणायामः
noun
योगविशेषः, प्राणस्य आयामरोधः।
"प्राणायामैः दहेत् दोषान्।"
शब्दकल्पद्रुमः
Sanskrit
प्राणायामः,
पुं,
(प्राणस्य वायुविशेषस्य आयामोरोधः यद्वा, प्राण आयम्यतेऽनेनेति +यम् + करणे घञ् ।) योगाङ्गविशेषः (यथा, भागवते २८ ११ ।“प्राणायामैर्दहेद्दोषान् धारणाभिश्च किल्वि-षान् ।प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान्गुणान्
”)तत्राङ्गुलिनियमो ज्ञानार्णवे ।“कनिष्ठानामिकाङ्गुष्ठैर्यन्नासापुटधारणम् ।प्राणायामः विज्ञेयस्तर्जनीमध्यमे विना
”स द्बिविधः सगर्भो निर्गर्भश्च तथा ।सगर्भो मन्त्रजापेन निर्गर्भो मात्रया भवेदिति ।मात्रा ।“वामजानुनि तद्धस्तभ्रामणं यावता भवेत् ।कालेन मात्रा सा ज्ञेया मुनिभिर्व्वेदपारगैः
”अथ प्राणायामः मूलमन्त्रस्य बीजस्य प्रणवस्यवा षोडशवारजपेन वामनासापुटे वायुं पूरयेत् ।तस्य चतुःषष्टिवारजपेन वायुं कुम्भयेत् तस्यद्बात्रिंशद्वारजपेन वायुं रेचयेत् पुनर्द्दक्षिणे-नापूर्य्य उभाभ्यां कुम्भयित्वा वामेन रेचयेत् ।पुनर्वामेनापूर्य्य उभाभ्यां कुम्भयित्वा दक्षिणेनरेचयेत् तथा कालीहृदये ।“प्राणायामत्रयं कुर्य्यान्मूलेन प्रणवेन वा ।अथवा मन्त्रबीजेन यथोक्तविधिना सुधीरिति
”सारसमुच्चयेऽपि ।“विपरीतमतो विदधीत बुधःपुनरेव तु तद्बिपरीतकमिति
”यौगिके पुनर्मात्रानियमः तथा गौतमीये ।“मन्त्रः प्राणायामः प्रोक्तो यौगिकं कथयामि ते ।पूरयेद्वामया विद्वान् मात्राषोडशसंख्ययेति
”यद्बा, चतुःषोडशाष्टवारजपेन पूरकादिकंकुर्य्यात् अथवा एकचतुर्द्विवारेण तथा चतन्त्रान्तरे ।“पूरयेत् षोडशभिर्व्वायुं धारयेत्तच्चतुर्गुणैः ।रेचयेत् कुम्भकार्द्धेन अशक्त्या तत्तुरीयकैः
”तदशक्तौ तच्चतुर्थमेव प्राणस्य संयमः अस्यनित्यत्वमाह तत्रैव ।“प्राणायामं विना मन्त्रपूजने नहि योग्यता
”गोपाले तु विशेषो यथा, --कामबीजस्यैकवारजपेन दक्षिणनासया वायुंरेचयेत् पुनः सप्तवारजपेन वामनासया वायुंपूरयेत् नासापुटौ धृत्वा विंशतिवारजपेनवायुं कुम्भयेत् पुनर्वामेन रेचयेत् दक्षि-णेन पूरयेत् उभाभ्यां कुम्भयेत् पुनर्द्दक्षिणेनरेचयेत् वामेनापूर्य्य उभाभ्यां कुम्भयेत् ।तथा ।“एकेन रेचयेत् कामबीजेनैव पृथक् पृथक् ।पूरयेत् सप्तजप्तेन विंशत्या तेन धारयेत्
सर्व्वेषु कृष्णमन्त्रेषु बीजेनानेन रेचयेत्
”यद्वा मूलमन्त्रेणैव प्राणायामः तथा ।“पवनसंयमनन्त्वमुनाचरेत्यमिह जप्तुमसौ मनुमिच्छति ।”यदि दशाक्षरं जपति तदा दशाक्षरेण चेत्तत्रचाष्टाविंशतिवारं रेचयेत् ।“पूरयेद्बामया तद्वद्धारयेत्तत्प्रमाणतः ।प्राणायामो भवेदेको रेचपूरककुम्भकैः
अष्टादशाक्षरेण चेत् द्वादशैवं समाचरेत्
”अन्यमनुभिर्वर्णानुरूपमित्युक्तत्वात् ।तत्तन्मन्त्रवर्णसंख्याकै रेचकादित्रयं कुर्य्यात् ।क्रमदीपिकायाम् रेचयेन्मारुतं दक्षयादक्षिणः पूरयेद्बामया मध्यनाड्या पुनर्धारये-दित्यादि एतत्तु श्रीकृष्णमन्त्रविषयं नान्यत्र ।इति तन्त्रसारः
*
अपि ।“आसनं पद्मकाद्युक्तं प्राणायामो मरुज्जयः ।मन्त्रध्यानयुतो गर्भो विपरीतो ह्यगर्भकः
अगर्भात्तु सगर्भस्थः प्राणायामस्ततोऽधिकः ।एवं द्विधा त्रिधाप्युक्तः पूरणात् पूरकः
कुम्भको निश्चलत्वात् रेचनाद्रेचकस्त्रिधा ।लघुर्द्वादशमात्रः स्याच्चतुर्व्विंशतिकः परः
षट्त्रिंशन्मात्रिकः श्रेष्ठः प्रत्याहारश्च रोधनम्
”इति गारुडे ४९ अध्यायः
*
तस्य फलं यथा, --“प्रथमे जनयेत् स्वप्नं मध्यमेन वेपथुम् ।विपाकं हि तृतीयेन जयेद्दोषाननुक्रमात्
”इति तत्रैव २३० अध्यायः
*
अन्यच्च ।“यथा पर्व्वतधातूनां ध्मातानां दह्यते मलम् ।तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात्
प्रथमं साधनं कुर्य्यात् प्राणायामस्य योगवित् ।प्राणापाननिरोधस्तु प्राणायाम उदाहृतः
लघुमध्योत्तरीयाख्यः प्राणायामस्त्रिधोदितः ।तस्य प्रमाणं वक्ष्यामि तदलर्क ! शृणुष्व मे
लघुर्द्वादशमात्रस्तु द्विगुणः तु मध्यमः ।त्रिगुणाभिश्च मात्राभिरुत्तरीय उदाहृतः
निमेषोन्मेषणे मात्रा तालो लघ्वक्षरो मतः ।प्राणायामस्य संख्यार्थं स्मृतो द्वादशमात्रकः
प्रथमे जनयेत् स्वेदं मध्यमेन तु वेपथुम् ।विषादं हि तृतीयेन जयेद्दोषाननुक्रमात्
मृदुत्वं सेव्यमानास्तु सिंहशाद्र्दूलकुञ्जराः ।यथा यान्ति तथा प्राणो वश्यो भवति योगिनः
वश्यं सन्तं यथेच्छातो नागं नयति हस्तिपः ।तथैव योगी छन्देन प्राणं नयति साधितम्
यथा हि साधितः सिंहो मृगान् हन्ति नमानुषान् ।तद्वन्निषिद्धः पवनः किल्विषं नृणां तनुम्
तस्माद्युक्तः सदा योगी प्राणायामपरो भवेत् ।श्रूयतां मुक्तिफलदं तस्यावस्थाचतुष्टयम्
ध्वस्तिः प्राप्तिस्तथा सम्बित्प्रसादश्च महीपते ! ।स्वरूपं शृणु चैतेषां कथ्यमानमनुक्रमात्
कर्म्मणामिष्टदुष्टानां जायते फलसंक्षयः ।चेतसो विकषायत्वं यत्र सा ध्वस्तिरुच्यते
”इष्टदुष्टानां पुण्यपापानाम् ।“ऐहिकामुष्मिकान् कामान् लोभमोहात्मकांश्चयान् ।निरुध्यास्ते सदा योगी प्राप्तिः सा सार्व्व-कामिकी
अतीतानागतानर्थान् विप्रकृष्टतिरोहितान् ।विजानन्तीन्दुसूर्य्यर्क्षग्रहाणां ज्ञानसम्पदा
तुल्यप्रभावस्तु यदा योगी प्राप्नोति सम्बिदम् ।तदा सम्बिदिति ख्याता प्राणायामस्य सास्थितिः
यान्ति प्रसादं येनास्य मनः पञ्च वायवः ।इन्द्रियाणीन्द्रियार्थाश्च प्रसाद इति स्मृतः
शृणुष्व महीपाल ! प्राणायामस्य लक्षणम् ।युञ्जतश्च यथायोगं यादृग्विहितमानसम्
”इति मार्कण्डेयपुराणे योगिचिकित्सानामा-ध्यायः
*
अन्यच्च ।“प्राणाख्यमनिलं वश्यमभ्यासात् कुरुते तु यत् ।प्राणायामः विज्ञेयः सबीजोऽबीज एव
परस्परेणाभिभवं प्राणापानौ यदानिलौ ।कुरुतः सद्विधानेन तृतीयः संयमात् तयोः
तस्य चालम्बनवतः स्थूलरूपं द्बिजोत्तम ! ।आलम्बनमनन्तस्य योगिनोऽभ्यसतः स्मृतम्
”एतेषां टीका प्राणायाममाह प्राणाख्यमिति ।सबीजः सालम्बनो भगवन्मूर्त्तिध्यानमन्त्रजप-सहितः द्विविधस्यापि तस्य पुनस्त्रैविध्यमाहपरस्परेणेति उच्छ्वासेन मुखनासिकाभ्यांबहिर्निर्गच्छति वायुः प्राणः निश्वासेनान्तःप्रविशति यः सोऽपानः तत्र प्राणवृत्त्यापान-वृत्तेरभिभवो निरोधो रेचकाख्यः प्राणायामः ।एवमपानवृत्त्या प्राणवृत्तेरभिभवः पूरकाख्यः ।एवमनेन परस्पराभिभवप्रकारद्वयेन प्राणा-यामो द्विधा तयोर्युगपत्संयमात् कुम्भकाख्य-स्तृतीयः प्राणायामः यद्बा सद्बिधानेनेत्येक-मेव पदम् तत्र चायमर्थः सद्विधानेन सद्-गुरूपदिष्टमार्गेण रेचकपूरकाभ्यां यत् पर-स्पराभिभूतं द्बयं यश्च कुम्भकेनोभयोः सहाभि-भवः एवमभिभवत्रयेणैव प्राणायाम इति ।सबीजस्यालम्बनमाह तस्य चेति स्थूलंवक्ष्यमाणं हिरण्यगर्भादिरूपम् ।” इति विष्णु-पुराणे अंशे अध्यायः
*
गायत्त्री-प्राणायामो यथा, --“सव्याहृतिं सप्रणवां गायत्त्रीं शिरसा सह ।त्रिः पठेदायतप्राणः प्राणायामः उच्यते
प्राणायामत्रयं कृत्वा प्राणायामैस्त्रिभिस्त्रिभिः ।अहोरात्रकृतात् पापान्मुच्यते नात्र संशयः
सर्व्वपापहरं प्रोक्तं प्राणायामं द्विजन्मनाम् ।ततस्त्वभ्यधिकं नास्ति तपः परमपावनम्
प्राणसंधारणं मासं कुशाग्रच्युतबिन्दुना ।यः कुर्य्यात् प्रयतो नित्यं प्राणायामस्तु तत्समः
निरोधाज्जायते वायुस्तस्मादग्निस्ततो जलम् ।त्रिभिः शरीरं सकलं प्राणायामेन शुद्ध्यति
आकेशादानखाग्राच्च तपस्तप्येत् सुदारुणम् ।आत्मानं शोधयेद्यस्तु प्राणायामैः पुनः पुनः
श्रावण्यां पौर्णमास्याञ्च सोपवासो जितेन्द्रियः ।प्राणायामशतं कृत्वा मुच्यते सर्व्वकिल्विषैः
”इत्यग्निपुराणम्