प्राणायाम (prANAyAma)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
Englishप्राणायाम (-मः) Breathing in a peculiar way through the nostrils,
during the mental recitation of the names or attributes of some
deity
it is differently performed. the Vaidikas or followers
of the Veda close the right nostril first with the thumb, and in-
hale breath through the left, then they close both nostrils, and
finally open the right for exhalation
the followers of the Tantras
close the left nostril first, and exhale also through it
these
operations are severally called पूरक, कुम्भक and रेचक
प्राण breath,
आ before, यम् to restrain, घञ् ।
Yates
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
Englishप्राणायाम
(-मः) Breathing in a peculiar way through the nostrils,
during the mental recitation of the names or attributes of some deity
it is
differently performed: the Vaidyas or followers of the Veda close the
right nostril first with the thumb, and inhale breath through the left, then
they close both nostrils, and finally open the right for exhalation: the
followers of the Tantras close the left nostril first, and exhale also
through it
these operations are severally called पुरक, कुम्भक, and
रेचक.
प्राण breath, आ before यम to restrain, घञ्.
Monier Williams Cologne
EnglishHindi
Hindiसाँस का नियंत्रण
Apte Hindi
Hindiप्राणायामः
प्राणः-आयामः -
देवगुणों का मानस-पाठ करते हुए साँस रोकना
Shabdartha Kaustubha
Kannadaप्राणायाम
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪ್ರಾಣಾಯಾಮ
निष्पत्तिः - > यम (उपरमे) - कर० "अप्" (३-३-६३)
व्युत्पत्तिः - > प्राणायम्यन्तेऽनेन
प्राणायाम
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪ್ರಾಣವಾಯುವಿನ ನಿರೋಧ /ಪ್ರಾಣವಾಯುವನ್ನು ತಡೆದು ನಿಲ್ಲಿಸುವುದು
निष्पत्तिः - > आ + यम (उपरमे) - कर० "घञ्" (३-३-१२१)
व्युत्पत्तिः - > प्राणा आयम्यन्तेऽनेन
विस्तारः - > ಇದು ಅಷ್ಟಾಂಗಯೋಗದ ಒಂದು ಅಂಗ. ಲೋಕದಲ್ಲಿ ದೇಹ ಮತ್ತು ಪ್ರಾಣವಾಯುಗಳ ಸಂಬಂಧವೇ ಜೀವನ. ಶರೀರದಲ್ಲಿ ಪ್ರಾಣವಾಯುವು ಇರುವವರೆಗೆ ಮಾತ್ರ ಮನುಷ್ಯನ ಜೀವನ. ಈ ಪ್ರಾಣವಾಯುವು ಶರೀರದಿಂದ ನಿರ್ಗಮಿಸಿದ ನಂತರ ಮರಣವು ಸಿದ್ಧ. ಆದುದರಿಂದ ದೇಹದಲ್ಲಿ ಪ್ರಾಣವಾಯುವನ್ನು ತಡೆದು ನಿಲ್ಲಿಸಿದಷ್ಟು ಕಾಲವೂ ಮನುಷ್ಯನು ಬದುಕಿರಬಹುದು. ಇದಕ್ಕೆ ಉಪಾಯ ಪ್ರಾಣಾಯಾಮ. "यावद्वायुः स्थितो देहे तावज्जीवनमुच्यते । मरणं तस्यष्क्रान्तिस्ततो वायुं निरोधयेत् ॥" - हठ० २-३
L R Vaidya
Englishअभिधानचिन्तामणिः
Sanskritप्राणायामः प्राणयामः श्वासप्रश्वासरोधनम् ।
प्राणायाम (पुं), प्राणयाम (पुं)
पुराणम्
Englishप्राणायाम / PRĀṆĀYĀMA. prāṇa means the wind in the body and āyāma means restraint. prāṇāyāma means restraining or suspending breath. Spread on the floor a piece of cloth, or animal-skin or kuśa grass and sitting on it cross-legged, controlling all actions of the sense-organs and concentrating on one single object do prāṇāyāma for the purification of the soul. There are three different kinds of prāṇāyāmas namely Recakaprāṇāyāma, Pūrakaprāṇāyāma and Kumbhakaprāṇāyāma.
Holding the nostrils with the left hand and massaging the belly with the other hand one sends out the air within the belly. It is called Recakaprāṇāyāma. Doing just the reverse and getting air inside is called Pūrakaprāṇāyāma. Then the yogī sits, with his belly full of air. Sitting thus without either letting the air out or letting it in is called Kumbhakaprāṇāyāma. Here the yogī sits like a pūrṇa-kumbha (full jar). The body of man is a chariot, the sense organs its horses, mind the charioteer and prāṇāyāma the whip. (Chapter 373, agni purāṇa).
शब्दकल्पद्रुमः
Sanskritप्राणायामः, (प्राणस्य वायुविशेषस्य आयामोरोधः । यद्वा, प्राण आयम्यतेऽनेनेति । आ +यम् + करणे घञ् ।) योगाङ्गविशेषः । (यथा, भागवते । ३ । २८ । ११ ।“प्राणायामैर्दहेद्दोषान् धारणाभिश्च किल्वि-षान् ।प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान्गुणान् ॥
”)तत्राङ्गुलिनियमो ज्ञानार्णवे ।“कनिष्ठानामिकाङ्गुष्ठैर्यन्नासापुटधारणम् ।प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना ॥
”स द्बिविधः । सगर्भो निर्गर्भश्च । तथा च ।सगर्भो मन्त्रजापेन निर्गर्भो मात्रया भवेदिति ।मात्रा च ।“वामजानुनि तद्धस्तभ्रामणं यावता भवेत् ।कालेन मात्रा सा ज्ञेया मुनिभिर्व्वेदपारगैः ॥
”अथ प्राणायामः । मूलमन्त्रस्य बीजस्य प्रणवस्यवा षोडशवारजपेन वामनासापुटे वायुं पूरयेत् ।तस्य चतुःषष्टिवारजपेन वायुं कुम्भयेत् । तस्यद्बात्रिंशद्वारजपेन वायुं रेचयेत् । पुनर्द्दक्षिणे-नापूर्य्य उभाभ्यां कुम्भयित्वा वामेन रेचयेत् ।पुनर्वामेनापूर्य्य उभाभ्यां कुम्भयित्वा दक्षिणेनरेचयेत् । तथा च कालीहृदये ।“प्राणायामत्रयं कुर्य्यान्मूलेन प्रणवेन वा ।अथवा मन्त्रबीजेन यथोक्तविधिना सुधीरिति ॥
”सारसमुच्चयेऽपि ।“विपरीतमतो विदधीत बुधःपुनरेव तु तद्बिपरीतकमिति ॥
”यौगिके पुनर्मात्रानियमः । तथा च गौतमीये ।“मन्त्रः प्राणायामः प्रोक्तो यौगिकं कथयामि ते ।पूरयेद्वामया विद्वान् मात्राषोडशसंख्ययेति ॥
”यद्बा, चतुःषोडशाष्टवारजपेन पूरकादिकंकुर्य्यात् । अथवा एकचतुर्द्विवारेण । तथा चतन्त्रान्तरे ।“पूरयेत् षोडशभिर्व्वायुं धारयेत्तच्चतुर्गुणैः ।रेचयेत् कुम्भकार्द्धेन अशक्त्या तत्तुरीयकैः ॥
”तदशक्तौ तच्चतुर्थमेव प्राणस्य संयमः । अस्यनित्यत्वमाह तत्रैव ।“प्राणायामं विना मन्त्रपूजने नहि योग्यता ॥
”गोपाले तु विशेषो यथा, --कामबीजस्यैकवारजपेन दक्षिणनासया वायुंरेचयेत् । पुनः सप्तवारजपेन वामनासया वायुंपूरयेत् । नासापुटौ धृत्वा विंशतिवारजपेनवायुं कुम्भयेत् । पुनर्वामेन रेचयेत् । दक्षि-णेन पूरयेत् । उभाभ्यां कुम्भयेत् । पुनर्द्दक्षिणेनरेचयेत् । वामेनापूर्य्य उभाभ्यां कुम्भयेत् ।तथा च ।“एकेन रेचयेत् कामबीजेनैव पृथक् पृथक् ।पूरयेत् सप्तजप्तेन विंशत्या तेन धारयेत् ॥
सर्व्वेषु कृष्णमन्त्रेषु बीजेनानेन रेचयेत् ॥
”यद्वा मूलमन्त्रेणैव प्राणायामः । तथा च ।“पवनसंयमनन्त्वमुनाचरेत्यमिह जप्तुमसौ मनुमिच्छति ।”यदि दशाक्षरं जपति तदा दशाक्षरेण चेत्तत्रचाष्टाविंशतिवारं रेचयेत् ।“पूरयेद्बामया तद्वद्धारयेत्तत्प्रमाणतः ।प्राणायामो भवेदेको रेचपूरककुम्भकैः ॥
अष्टादशाक्षरेण चेत् द्वादशैवं समाचरेत् ॥
”अन्यमनुभिर्वर्णानुरूपमित्युक्तत्वात् ।तत्तन्मन्त्रवर्णसंख्याकै रेचकादित्रयं कुर्य्यात् ।क्रमदीपिकायाम् । रेचयेन्मारुतं दक्षयादक्षिणः । पूरयेद्बामया मध्यनाड्या पुनर्धारये-दित्यादि । एतत्तु श्रीकृष्णमन्त्रविषयं नान्यत्र ।इति तन्त्रसारः ॥
* ॥
अपि च ।“आसनं पद्मकाद्युक्तं प्राणायामो मरुज्जयः ।मन्त्रध्यानयुतो गर्भो विपरीतो ह्यगर्भकः ॥
अगर्भात्तु सगर्भस्थः प्राणायामस्ततोऽधिकः ।एवं द्विधा त्रिधाप्युक्तः पूरणात् पूरकः स च ॥
कुम्भको निश्चलत्वात् स रेचनाद्रेचकस्त्रिधा ।लघुर्द्वादशमात्रः स्याच्चतुर्व्विंशतिकः परः ॥
षट्त्रिंशन्मात्रिकः श्रेष्ठः प्रत्याहारश्च रोधनम् ॥
”इति गारुडे ४९ अध्यायः ॥
* ॥
तस्य फलं यथा, --“प्रथमे जनयेत् स्वप्नं मध्यमेन च वेपथुम् ।विपाकं हि तृतीयेन जयेद्दोषाननुक्रमात् ॥
”इति तत्रैव २३० अध्यायः ॥
* ॥
अन्यच्च ।“यथा पर्व्वतधातूनां ध्मातानां दह्यते मलम् ।तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् ॥
प्रथमं साधनं कुर्य्यात् प्राणायामस्य योगवित् ।प्राणापाननिरोधस्तु प्राणायाम उदाहृतः ॥
लघुमध्योत्तरीयाख्यः प्राणायामस्त्रिधोदितः ।तस्य प्रमाणं वक्ष्यामि तदलर्क ! शृणुष्व मे ॥
लघुर्द्वादशमात्रस्तु द्विगुणः स तु मध्यमः ।त्रिगुणाभिश्च मात्राभिरुत्तरीय उदाहृतः ॥
निमेषोन्मेषणे मात्रा तालो लघ्वक्षरो मतः ।प्राणायामस्य संख्यार्थं स्मृतो द्वादशमात्रकः ॥
प्रथमे जनयेत् स्वेदं मध्यमेन तु वेपथुम् ।विषादं हि तृतीयेन जयेद्दोषाननुक्रमात् ॥
मृदुत्वं सेव्यमानास्तु सिंहशाद्र्दूलकुञ्जराः ।यथा यान्ति तथा प्राणो वश्यो भवति योगिनः ॥
वश्यं सन्तं यथेच्छातो नागं नयति हस्तिपः ।तथैव योगी छन्देन प्राणं नयति साधितम् ॥
यथा हि साधितः सिंहो मृगान् हन्ति नमानुषान् ।तद्वन्निषिद्धः पवनः किल्विषं न नृणां तनुम् ॥
तस्माद्युक्तः सदा योगी प्राणायामपरो भवेत् ।श्रूयतां मुक्तिफलदं तस्यावस्थाचतुष्टयम् ॥
ध्वस्तिः प्राप्तिस्तथा सम्बित्प्रसादश्च महीपते ! ।स्वरूपं शृणु चैतेषां कथ्यमानमनुक्रमात् ॥
कर्म्मणामिष्टदुष्टानां जायते फलसंक्षयः ।चेतसो विकषायत्वं यत्र सा ध्वस्तिरुच्यते ॥
”इष्टदुष्टानां पुण्यपापानाम् ।“ऐहिकामुष्मिकान् कामान् लोभमोहात्मकांश्चयान् ।निरुध्यास्ते सदा योगी प्राप्तिः सा सार्व्व-कामिकी ॥
अतीतानागतानर्थान् विप्रकृष्टतिरोहितान् ।विजानन्तीन्दुसूर्य्यर्क्षग्रहाणां ज्ञानसम्पदा ॥
तुल्यप्रभावस्तु यदा योगी प्राप्नोति सम्बिदम् ।तदा सम्बिदिति ख्याता प्राणायामस्य सास्थितिः ॥
यान्ति प्रसादं येनास्य मनः पञ्च च वायवः ।इन्द्रियाणीन्द्रियार्थाश्च स प्रसाद इति स्मृतः ॥
शृणुष्व च महीपाल ! प्राणायामस्य लक्षणम् ।युञ्जतश्च यथायोगं यादृग्विहितमानसम् ॥
”इति मार्कण्डेयपुराणे योगिचिकित्सानामा-ध्यायः ॥
* ॥
अन्यच्च ।“प्राणाख्यमनिलं वश्यमभ्यासात् कुरुते तु यत् ।प्राणायामः स विज्ञेयः सबीजोऽबीज एव च ॥
परस्परेणाभिभवं प्राणापानौ यदानिलौ ।कुरुतः सद्विधानेन तृतीयः संयमात् तयोः ॥
तस्य चालम्बनवतः स्थूलरूपं द्बिजोत्तम ! ।आलम्बनमनन्तस्य योगिनोऽभ्यसतः स्मृतम् ॥
”एतेषां टीका । प्राणायाममाह प्राणाख्यमिति ।सबीजः सालम्बनो भगवन्मूर्त्तिध्यानमन्त्रजप-सहितः । द्विविधस्यापि तस्य पुनस्त्रैविध्यमाहपरस्परेणेति । उच्छ्वासेन मुखनासिकाभ्यांबहिर्निर्गच्छति वायुः स प्राणः । निश्वासेनान्तःप्रविशति यः सोऽपानः । तत्र प्राणवृत्त्यापान-वृत्तेरभिभवो निरोधो रेचकाख्यः प्राणायामः ।एवमपानवृत्त्या प्राणवृत्तेरभिभवः पूरकाख्यः ।एवमनेन परस्पराभिभवप्रकारद्वयेन स प्राणा-यामो द्विधा । तयोर्युगपत्संयमात् कुम्भकाख्य-स्तृतीयः प्राणायामः । यद्बा । सद्बिधानेनेत्येक-मेव पदम् । तत्र चायमर्थः । सद्विधानेन सद्-गुरूपदिष्टमार्गेण रेचकपूरकाभ्यां यत् पर-स्पराभिभूतं द्बयं यश्च कुम्भकेनोभयोः सहाभि-भवः । एवमभिभवत्रयेणैव प्राणायाम इति ।सबीजस्यालम्बनमाह । तस्य चेति । स्थूलंवक्ष्यमाणं हिरण्यगर्भादिरूपम् ।” इति विष्णु-पुराणे ६ अंशे ७ अध्यायः ॥
* ॥
गायत्त्री-प्राणायामो यथा, --“सव्याहृतिं सप्रणवां गायत्त्रीं शिरसा सह ।त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥
प्राणायामत्रयं कृत्वा प्राणायामैस्त्रिभिस्त्रिभिः ।अहोरात्रकृतात् पापान्मुच्यते नात्र संशयः ॥
सर्व्वपापहरं प्रोक्तं प्राणायामं द्विजन्मनाम् ।ततस्त्वभ्यधिकं नास्ति तपः परमपावनम् ॥
प्राणसंधारणं मासं कुशाग्रच्युतबिन्दुना ।यः कुर्य्यात् प्रयतो नित्यं प्राणायामस्तु तत्समः ॥
निरोधाज्जायते वायुस्तस्मादग्निस्ततो जलम् ।त्रिभिः शरीरं सकलं प्राणायामेन शुद्ध्यति ॥
आकेशादानखाग्राच्च तपस्तप्येत् सुदारुणम् ।आत्मानं शोधयेद्यस्तु प्राणायामैः पुनः पुनः ॥
श्रावण्यां पौर्णमास्याञ्च सोपवासो जितेन्द्रियः ।प्राणायामशतं कृत्वा मुच्यते सर्व्वकिल्विषैः ॥
”इत्यग्निपुराणम् ॥
वाचस्पत्यम्
Sanskritप्राणायाम प्राण आयम्यतेऽनेन आ + यम--करणे घञ ।प्राणवायोर्गतिविच्छेदकारकव्यापारभेदे तद्विसिस्तन्त्रसा-रोक्ता यथा “तत्र प्राणायामेऽङ्गुलिनियमो ज्ञानार्णये“भूतशुद्धिं ततः कुर्य्यात् प्राणायामक्रमेण च । कति-ष्ठानामिकाङ्गुष्ठैर्यन्नासापुटधारणम् । प्राणायामः सविज्ञेयस्तर्जनीमध्यमे विना” । प्राणायामो द्विविधः सगर्भोनिगर्भश्च । तथा च “सगर्भो मन्त्रजापेन निर्गर्भोमात्रया भवेत्” । मात्रा च “वामजानुनि तद्धस्तभ्रामणंयावता भवेत् । कालेन मात्रा सा ज्ञेया मुनिभिर्वेदपा-रगैः” । तत्र च मूलमन्त्रस्व वीजस्य प्रणवस्य वा षोडशवारादिजपेन वामनासापुटादिना वायुपूरकादिकं कु-र्य्यात् । तथा च कालीहृदये “प्राणायामत्रयं कुर्य्यात्मूलेन प्रणवेन वा । अथ वा मन्त्रवीजेन यथोक्तवि-धिना सुधीः” । यथा तस्य षोडशवारजपेन वायुं रेच-येत् । तस्य चतुःषष्टिवारजपेन वायुं कुम्भयेत् । तस्यद्वात्रिंशद्वारजपेन वायुं रेचयेत् । पुनर्दक्षिणेनापूर्य्यउभाभ्यां कुम्भयित्वा वामेन रेचयेत् । पुनर्वामेनापूर्य्यउभाभ्यां कुम्भयित्वा दक्षिणेन रेचयेत् । त्रिपुरासारसमुच्चये “विपरीतमतो विदधीत बुधः पुनरेव वा तद्विप-रीतमिति” । यौगिके पुनर्मात्रानियमः । तथा च गौत-मीये “मन्त्रप्राणायामः प्रोक्तो यौगिकं कथयामि ते ।पूरयेद्वामया विद्वान् भात्राषोडशसंख्यया” इत्यादि ।यद्वा चतुःषोडशाष्टवारजपेन पूरकादिकं कुर्य्यात् । तथाच तन्त्रान्तरे “पूरयेत् षोडशभिर्वायुं धारयेत्तु चतु-र्गुणैः । रेचयेत् कुम्भकार्द्धेन अशक्त्या तत्तुरीयकम् ।तदशक्तौ तच्चतुर्थमेवं प्राणस्य संयमः । अस्य नित्यतामाह “प्राणायामं विना मन्त्रपूजने न हि योग्यता”सन्ध्याङ्गप्राणायामस्वरूपफलादिकं ब्राह्मणसर्वस्वे द-र्शितं यथा तत्राग्निपुराणे “गायत्रीं प्रति ब्रह्मवाक्यम्“कुर्वन्तीऽपीह पापानि ये त्वां ध्यायन्ति पावनि! । उभेसन्ध्ये न तेषां हि विद्यते तु विपातकम् । त्रिः पठेदा--यतप्राणः प्राणायामेन यो द्विजः । वर्त्तते न स लिप्येतपातकैरुपपातकैः” । वृहद्विष्णु “प्राणायामान् द्विजःकुर्य्यात् सर्वपापापनुत्तये । दह्यन्ते सर्वपापानि प्राणाया-मैर्द्विजस्य तु” । विष्णुधर्मोत्तराग्निपुराणयोः “सर्वदोष-हरः प्रोक्तः प्राणायामो द्विजन्मनाम् । ततस्त्वभ्यभिकंनास्ति प्रापप्रशमकारणम्” । अत्रिः “कर्मणा मनसाबाचा अह्ना पापं कृतञ्च यत् । आसीनः पश्चिमां सन्ध्यांप्राणायामैर्व्यपोहति” । अग्निपु० “प्राणायामत्रयं कृत्वाप्राणायामैस्त्रिमिर्निशि । अहोरात्रकृतात् पापान्मुच्यतेनात्र संशयः” । बशिष्ठः “प्राणायामान् धारयेत् त्रीन्यथाविधि सुयन्त्रितः । अहोरात्रकृतं पापं तत्क्षणादेवनश्यति” । वृद्धापस्तम्बः “पूर्वमुक्तेषु चैतेषु तथान्येष्वपिसर्वशः । प्राणायामास्त्रयोऽभ्यस्ताः सूर्यस्योदयनं प्रति ।जायन्ते तद्विनाशाय तमसामिव भास्क्रः । सूर्यस्योद-यनं प्राप्य निर्मला धूतकलमषाः । भवन्ति भास्कराकाराविधूमा इव पावकाः” । योगियाज्ञवल्क्यः “यदह्नाकुरुते पापं कर्मणा मनसापि वा । त्रिकालसन्द्याचर-णात् प्राणायामैर्थ्यपोहति” । वृहस्पतिः “प्राणायामैर्दहेद्दोषात् मनोवादेहसम्भवान्” । प्राणायामानुवृत्तौबौधायनः “एतदाद्यं तपः श्रेष्ठमेतद्धर्मस्य लक्षणम् ।सर्वदोषोपघातार्थमेतदेव विशिष्यते” । अत्रिवशिष्ठौ “आ-वर्त्तयेत् सदा युक्तः प्राणायामान् पुनःपुनः । आकेशाग्रा-न्नखाग्राच्च तपस्तप्यत उत्तमम्” । विष्णुधर्मोत्तराग्निपुराणयोः“आकेशाग्रान्नखाग्राच्च तपस्तप्ये सुदारुणम् । आ-त्मानं शोधयत्येव प्राणायामः पुनःपुनः । दह्यन्त ध्माय-मानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्तेदोषाः प्राणस्य निग्रहात् । प्राणायामैदहेद्दोषान् प्रा-खायामः परं तपः” । वृहद्यमः “यथा हि शैलधातूनाधमतां धम्यते रजः । इन्द्रियाणां तथा दोषान् प्राणा-यामैश्च निर्दहेत्” । वृहस्पतिः “धम्यमानं यथा ह्येतद्धा-तूनां संस्कृतं मलम् । तथेन्द्रियकृतो दोषः प्राणायामेनदह्यते” । योगियाज्ञवलक्यः “यथा पर्वतधातूनां दोषान्दहति पावकः । एवमन्तर्गतञ्चैनः प्राणायामेन दह्यते” ।अत्रिवशिष्ठौ “निरोधाज्जायते वायुर्वायोरग्निः प्रजा-यते । अग्नेरापो व्यजायन्त तैरन्तः शुध्यते त्रिभिः” ।विष्णुधर्मोत्तराग्निपुराणयोः “निरोधाज्जायते बायुस्तस्मा-दग्निस्ततो जलम् । त्रिभिः शरीरं सकलं प्राणायामै-र्विशुध्यति” । योगियाज्ञवल्क्यः “तथा निरोधसंयोगात्देवतात्रयचिन्तनात् । अग्नेर्वायोरपां योगादात्मा शुध्यतिवै त्रिभिः” । मनुः “प्राणायामाव्राह्मणस्य त्रयोऽपिविधिवत् कृताः । व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमंतपः” विष्णुधर्मोत्तरमग्निपुराणञ्च “प्राणसंधारणं मासंकुशाग्रच्युतविन्दुना । यः कुर्य्यादम्भसा राजन्! प्राण-यामसु तत्समः” । वृहद्विष्णुः “सव्यार्हातिं सप्रणवांपायर्तौ शिरसा सह । त्रिः पठेदाबतप्राणः प्राक्षायामःस उच्यते । गायत्रीं शिरसा सार्द्धं जपेद्व्याहृतिपू-र्विकास । प्रतिप्रणवर्सयुक्तां त्रिरयं प्राणसंयमः” ।योगियाज्ञवल्क्यः “भूर्भुवः खर्महर्जनस्तपःसत्यंतथैव च । प्रत्योऽङ्कारसमायुक्तं तत्सवितुर्वरेण्यमा ।ओमापोज्योतिरित्येतच्छिरः पश्चात् प्रयोजयेत् । एवंमन्त्रप्रयोगस्तु प्राणायामनिवेशने । त्रिरावर्त्तनयोगेनप्राणायामस्तु शव्दितः” । योगियाज्ञवल्क्यः “षोडशा-क्षरकं ब्रह्म गायत्र्यास्तच्छिरः स्मृतम् । ओमापोज्याति-रित्येष मन्त्रा यस्तु प्रकीर्त्त्यते । तस्य प्रजापतिरृषि-र्यजुष्ट्वाच्छन्दसा विना । व्रह्माग्निवायुसूर्य्याश्च देवताःसमुदाहृताः । प्राणस्यायमने चैव विनियोग उदाहृतः ।गायत्रीशिरसा सार्द्धमेवं श्रुतिनिदर्शनम् । प्रणवव्याहृतियुतां गायत्रीं शिरसा सह । त्रिःपठेदायतप्राणःप्राणायामः स उच्यते । आदानं रोधसंसर्गं वायोस्त्रिस्त्रिः समभ्यसेत् । ब्रह्माणं केशवं शम्भुं ध्यायेदेताननुक्रमात् । रक्तं प्रजापतिं ध्यायेत् विष्णुं नीलोत्पलप्र-भम् । शङ्करं त्र्यम्बकं श्वेतं ध्यायन्मुच्येत बन्धनात् ।पूरके व्रह्मसायुज्यं कुम्भके व्रह्मणोऽन्तिकम् । रेचकेना-द्वितीयन्तु प्राप्नुयादैश्वरं पदम्” अथ प्राणायामविधिःतत्र व्यासपद्यम् “आदौ छन्द ऋषिदेवताविनियोगान्नि-रूप्यते “गायत्रीं शिरसा सार्द्धं सप्तव्याहृतिपूर्विकाम् ।प्राणायामेन त्रिरावर्त्तयेत् ततः शनैः प्रश्वमेच्च प्राणाया-मैदग्धदोषोऽयं यत् श्रेयः तत् सकलं भवति” । व्यासः“गायत्रुष्टिगनुष्टुप् च वृहती पङक्तिरेव च । त्रिष्टुप् चजगती चेति छन्दांस्याहुरनुक्रमात् । अग्निवाय्यर्कवरुणावृहस्थतिशतक्रतू । विश्वेदेवाः व्याहृतीनां दैवतानि यथा-क्रमम् । विनियोगः स्मृतस्तासां प्राणायामे महर्षिभिः” ।योगियाज्ञवल्क्यः “व्याहृतीनाञ्च सर्वासामार्षञ्चैव प्र-जापतिः । सप्त छन्दांसि प्रोक्तानि छादनानि तु सर्वशः ।गायत्र्युष्टिगनुष्टुप् च वृहती तृष्टुबेव च । पङ्क्तिश्चजगती चैव सप्त छन्दांसि तानि वै । अग्निवायुस्तथादित्योवृहस्पत्याप एव च । इन्द्रश्च विश्वदेवाश्च देवताः समुदा-हृताः । अनाम्नातेषु नित्येषु प्रायश्चित्तेष्र सर्वदा ।प्राणायामप्रयोगे च विनियोग उदाहृतः” । वृहस्पतिः“बद्ध्वासनं नियम्यासून् स्मृत्वा ब्रह्मादिकं तथा । सं-निमीलितदृङ् मौनी प्राणायामं समभ्यसेत्” । विष्णु-धर्मोत्तरे “सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।त्रिः पठेदायतप्राणः प्राणायामः स उच्यते । आदानंरोधमुत्सर्गं मनसा त्रिः समभ्यमेत् । ब्रह्माणं केशवंशम्भुं ध्याबन्मुच्येत बन्धनात् । रक्तं पितामहंध्याबेद्विष्णुं नीणोत्पलप्रभम् । सुश्वेतं त्र्यम्बकश्चैवतंसारार्णवतरिञ्चम्” । योगियाज्ञवल्क्यः “बाह्यस्थितंनासपुटेन वायुमाकृष्य तेनैव शनैः समस्तम् । नाडीश्चसर्वाः प्रतिपूरेयुः स पूरको नाम महान्नरोधः । नरेचकोनैव च पूरको वा नासाग्रचारी स्थित एव वायुः ।अनिश्चलं धारयति क्रमेण कुम्भाख्यमेतं प्रवदन्तितज्ज्ञाः । निष्क्रम्य नासाविवरादशेषं प्राणं बहिःशून्यमिवानिलेन । निरुच्छ संस्तिष्ठति चोर्द्ध्ववायुः सरेचको नाम महान्निरोधः । नासिकयाऽऽकृष्योच्छासंध्यान पूरक उच्यते । कुम्भोनिश्चलनिश्वासी रिच्यमा-नस्तु रेचकः” । योगियाज्ञवल्क्यः “प्राणेनाप्यपयानेनवेगवायुं समुत्सृजेत् । येन शत्रूनधस्थाँश्च निश्वासेनच चालयेत् । शनैर्नासापुटे वायुमुत्सृजेन्न तु वेगतः” ।यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽ-ष्टावङ्गानि” पात० सू० तस्य योगाङ्गतोक्ता । तस्य च यो-गाङ्गप्राणायामस्य लक्षणादिः पात० सू० भा० विवरणेषूक्तंयथा “तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणा-यामः” सू० । “सत्यासनजये बाह्यस्य वायोराचमनंश्वासः । कोष्ठ्यस्य वायोर्निःसारणं प्रश्वासः, तयोर्गतिवि-च्छेद उभयाभावः प्राणाधामः” भा० । स तु “बाह्याभ्यन्त-रस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः” सू० ।“यत्रा प्रश्वासपूर्वको गत्यभावः स बाह्यः यत्र श्वासपूर्वकोगत्यभावः स आभ्यन्तरः तृतीयस्तम्भवृत्तिर्यत्रोभयाभावःसकृत्प्रयत्नाद् भवति यथा तप्ते न्यस्तमुपले जलं सर्वतःसङ्कोचमापद्यते । तथा द्वयोर्युगपद्गत्यभाव इतित्रयोऽप्येते देशेन परिदृष्टाः इयानस्य विषयो देश इति ।कालेन परिदृष्टाः क्षणानामियत्तावधारणेनावच्छिन्नाइत्यर्थः । सङ्ख्याभिः परिदृष्टाः, एतावद्भिः श्वासप्रश्वासैःप्रथम उद्घातस्तद्वन्निगृहीतस्यैतावद्भिः द्वितीय उद्-घातः एवं तृतीयः एवं मृदुरेवं मध्य एवं तीव्र इतिसङ्ख्यापरिदृष्टः स खल्वयमेवमभ्यस्तो दीर्घसूक्ष्मः” भा०“बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः” सू० । “देशकालसङ्क्या-भिर्बाह्यविषयः परिदृष्ट आक्षिप्तः तथाभ्यन्तरविषयः परि-दृष्ट आक्षिप्त उमयथा दीर्घसूक्ष्मः तत्पूर्वको भूमिजयात्क्रमेणोभयोर्गत्यभावश्चतुर्थः प्राणायामः । तृतीयस्तुविषयानालोचितो गत्यभावः सकृदारब्ध एव देशकाल-सङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मश्चतुर्थस्तु श्वासप्रश्वासयो-र्विषयावधारणात् क्रमेण भूमिजयादुभयाक्षेपपूर्वको गत्य-भावश्चतुर्थः प्राणायामः इत्ययं विशेष इति” भा० । “ततःक्षीयते प्रकाशावरणम्” सू० । “प्राणायामानभ्यस्यतोऽस्ययोगिनः क्षीयते विवेकज्ञानावरणीयं यत्तदाचक्षतेमहामोहमयेन इन्द्रजालेन प्रकाशशीलं सत्त्वमावृन्य तदे-वाकार्य्ये नियुड्क्ते इति तदस्य प्रकाशावरणं कर्म सं-सारनिबन्धनं प्राणायामाभ्यासात् दुर्बलं भवति प्रतिक्षणंच क्षीयते । तथा चोक्तम् “तपो न परं प्राणायामात्ततोविशुद्धिमलानां दीप्तिश्च ज्ञानस्येति” । किञ्च धारणासु चयोग्यता मनसः प्राणायामाभ्यासादेव । “प्रच्छर्दन-विधारणाभ्यां वा प्राणास्येति” वचनात्” भा० ।“प्राणायामविशेषत्रयलक्षणपरं सूत्रमवतारयति स-त्विति । वृत्तिशब्दः प्रत्येकं संवध्यते । रेचकमाहयत्र प्रश्वामेति । पूरकमाह यत्र श्वामेति । कुम्भकमाहगृतीय इति । तदेव स्फुटयति यत्रोभयोः श्वासप्रश्वासयोःसकृदेव विधारकात् प्रयत्नादभावो भवति न पुनः पूर्व-वदापूरणप्रयत्नौघप्रविधारकः प्रयत्नो नापि रेचकप्रय-त्नौघविधारण्य्रयत्नोऽपेक्ष्यते किन्तु यथा तप्ते उपलेनिहितं जलं परिशुष्यत् सर्वतः सङोचमापद्यते एवमयमपि मारुतो वहनशीलो बलबद्विधारकप्रयत्ननिरुद्धक्रियः शरीर एव सूक्ष्मीभूतोऽवतिष्ठते न तुरेचयति येन रेचक इति । इयानस्य देशो विषयः प्रा-देशवितस्तिहस्तादिपरिमितो निवाते प्रदेशे ईषिकातूलादिक्रियानुमितो बाह्य एवमान्तरोऽप्यापादतलमाम-स्तकं पिपीलिकास्पर्शसदृशेनानुमितः । स्पर्शननिमेषक्रिया-वच्छिन्नस्य कालस्य चतुर्थो भागः क्षणस्तेषामियत्तावधा-रणेनावच्छिन्नः स्वजानुमण्डलं पाणिना त्रिः परा-मृश्य च्छोटिकावच्छिन्नः कालो मात्रा ताभिः षट्त्रिंशन्मात्राभिः परिमितः प्रथम उद्घातो मन्दः । स एव द्वि-गुणीकृतो द्वितीयो मध्यमः स एव त्रिगुणीकृतस्तृतीयस्तीव्रस्तमिमं सङ्ख्यापरिदृष्टं प्राणायाममाह सङ्ख्याभि-रिति । स्वस्थस्य हि पुंसः श्वासप्रश्वासक्रियावञ्छिन्नेनकालेन यथोक्तच्छोटिकाकालः समानः प्रथमोथातकर्मतां नीतः उद्घातो विजितो वशीकृतो निगृहीतःक्षणानामियत्ताकालो विवक्षितः श्वासप्रश्वासेयत्ता संख्येतिकथञ्चिद्भेदः । स खल्वयं प्रत्यहमभ्यस्ती दिवसपक्षमासादि-कमेण देशकालप्रचयव्यापितया दीर्घः परमनैपुण्यं सभधिगमनीयः तया च सूक्ष्मो न तु मन्दतया” विवृतिः ।भोगाङप्राणायामविधिः दत्तात्रेयसंहितायामुक्तो यथा“तस्मिन् शस्तं समास्तीर्य्य आसनं विष्टरादिकम् ।तत्रो पविश्य मेधावी पद्मासनसमन्वितः । समकायः प्राञ्ज-लिश्च प्रणम्य चेष्टदेवताम् । ततो दक्षिणहस्तस्याप्यङ्गुष्ठेनतु पिङ्गलाम् । निरुध्य पूरयेद्वायुमिडया तु शनैःशनेः । यथाशक्त्यानिरोधेन ततः कुर्य्याच्च कुम्भकम् ।ततस्त्वजेत् पिङ्गलया शनैरेव न बेगतः । पुनःपिङ्गलया-ऽऽकृत्य पूरयेदुदरं शनैः । धारयित्वा यथाशक्ति रेचये-न्मारुतं शनैः । यथा त्यजेतयाऽपूर्व्व घारयेदविरोघतः ।एवं प्रातः समासीनः कुर्य्याद्विंशातकुम्भकान् । कुम्भकःसहितो नाम सर्वग्रहविवर्जितः । मध्याह्नेऽपि तथाकुर्य्यात् पुनर्विंशतिकुम्भकान् । एवं सायं प्रकुर्वीतपुनर्विंशतिकुम्भकान् । कुर्वीत रेककुम्भाभ्यां सही-तान् प्रतिवासरम् । कुर्य्यादेवं चतुर्वारमनालस्यो दिनेदिने । एव मासत्रयं कुर्य्यान्नाडीशुद्धिस्ततो भवेत्” ।ग्रहजामले त्रयोदशपटले “प्राणायामस्त्रिधा प्रोक्तो रेच-कुम्भकपूरकैः । सहितः केवलश्चेति कुम्भको द्विविधोमतः । रेचपूरणयुक्तो यः स वै सहितकुम्भकः ।यावत् केवलसिद्धिः स्यात् सहितं तावदभ्यसेत् । रेचकंपूरकं त्यक्त्वा सुखं यद्वायुधारणम् । प्राणायामोऽय-मित्युक्तः स वै केवलकुम्भकः । गुरूपदिष्टमार्नेण प्राणा-यामं समाचरेत् । यावद्वायुः स्थितो देहे तावज्जीवित-मुच्यते । मरणं तस्य निषक्रान्तिस्ततो वायुं निबन्धयेत् ।मलाकुलासु नाडोषु मासता नैव मध्यगः । कथं स्यात्निर्मलीभावः कायशुद्धिः कथं भवेत् । शुद्धिमेति यदासर्वं नाडीचक्रं मलाकलम् । तदैव जायते योगोप्राणसंग्रहणे क्षमः । प्राणायामं ततः कुर्य्यान्नित्यंसात्त्विकया धिया । तथा सुषुम्णापार्श्वस्था मलाःशोषं प्रयान्ति हि । बद्धपद्मासनोयोगी प्राणं चन्द्रेणपूरयेत् । धारयित्वा यथाशक्ति पुनः सूर्य्येण रेचयेत् ।प्राणं सूर्य्येण चाकृत्य पूरयेदुदरं शनैः । विधिवतकुम्भकं कृत्वा पुनश्चन्द्रेण रेचयेत् । येन त्यजेच्च तेनैवपूरयेदविरोधतः । रेचयेच्च ततोऽन्येन रेचयेच्च न वेगतः”चन्द्रेण वामनासया सूर्य्येण दक्षिणनासया । “प्राणंचेदिडया पिवेन्नियमितं भूयोऽन्यया रेचयेत् पीत्वापिङ्गलया समीरणमथो बद्ध्वा त्यजेद्वामया । सूर्था-चन्द्रमसोरनेन विधिना विम्बद्वयं ध्यायतः शुद्धा नाडि-गणा भवन्ति मलिना मासत्रयाद्रर्द्धतः । प्रातर्मध्यन्दिनंसायं मध्यरात्रे च कुम्भकान् । चतुरशीतिपर्य्यन्गं चतु-र्बारं समभ्यसेत् । प्राणायामे महान् धर्मो बोगिनो मो-क्षदायिनि । प्राणायामे दिवारात्रौ देहचालं परि-त्यजेत् । अधमे द्वादशी मात्रा मध्यमे द्विगुणा स्मृता ।उत्तमे त्रिगुणा ज्ञेया प्राणायामस्य निर्णये । कनीयसिभवेत् स्वेदः कम्पो भवति मध्यमे । उत्तिष्ठत्युत्तमे प्राणीबद्धपद्मासनो मुहुः । जलेन श्रमजातेन गात्रमार्जन-माचरेत् । दृढता लघुता दीप्तिस्तेन गात्रस्य जायते ।यदा तु नाडीशुद्धिः स्यात्तदा चिह्नानि बाह्यतः ।जायन्ते योगिनो देहे तानि वक्ष्याम्यशेषतः । शरीर-लघुता दीप्तिर्जठराग्निविवर्द्धनम् । कृशत्वञ्च शरीरस्यतस्य जायेत निश्चितम् । पूर्वोक्तकाले कुर्वीत परमाभ्यास-मेव च । ततःपरं यथेष्टन्तु शक्तिः स्याद् वायुधारणे ।यथेष्टधारणाद्वायोः सिद्धिः कुम्भस्यकेवला । केवले कुम्भकेसिद्धे रेचपूरकवर्जिते । न तस्य दुर्लभं किञ्चित् त्रिषुलोकेषु विद्यते” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
