| YouTube Channel

प्राणापानौ (prANApAnau)

 
Hindi
Hindi
ऊपर और नीचे चलती हवा
शब्दकल्पद्रुमः
Sanskrit
प्राणापानौ,
पुं,
(प्राणश्च अपानश्च तौ तदा-ख्यकौ वायू यथा, विष्णुपुराणे ४१ ।“परस्परेणाभिभवं प्राणापानौ यदानिलौ
”)अश्विनीकुमारौ यथा, --“प्राणापानौ कथं देवावश्विनौ संबभूवतुः
”इति प्रजापालप्रश्ने ।महातपा उवाच ।“तस्यां त्वाष्ट्र्यामश्वरूप्यां मार्त्तण्डस्तीव्रतेजसा ।बीजं निर्व्वापयामास तज्जलं तद्द्विधापतत्
तत्र प्राणस्त्वपानश्च योनौ चात्मजितौ पुरा ।वरदानेन पुनर्मूर्त्तिमन्तौ बभूवतुः
तौ त्वाष्ट्र्यामश्वरूपिण्यां जातौ येन नरोत्तमौ ।ततस्तावश्विनौ देवौ कीर्त्त्येते रविनन्दनौ
”इति वाराहे अश्विनोत्पत्तिनामाध्यायः