प्राणाः (prANAH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English प्राणाः prANAH pl. life
Shabdartha Kaustubha
Kannadaप्राणाः
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ದೇಹದೊಳಗಿರುವ ಪಂಚ ಪ್ರಾಣಗಳು
निष्पत्तिः - > प्र + अन (प्राणने) - कर० "घञ्" (३-३-१२१)
व्युत्पत्तिः - > प्राणित्येभिः
प्रयोगाः - > "प्राणैः पणैः स्वं निपुणं भणन्तः"
उल्लेखाः - > नैष० ३-८८
Wordnet
Sanskrit पञ्च, पाण्डवः, शिवास्यम्, इन्द्रियम्, स्वर्गः, व्रताग्निः, महापापम्, महाभूतम्, महाकाव्यम्, महामखः, पुराणलक्षणम्, अङ्गम्, प्राणाः, वर्गः, इन्द्रियार्थः, बाणः
एकाधिकं चत्वारि।
"पञ्चाधिकं पञ्च आहत्य दश भवन्ति।"
प्राणाः, आत्मा, असवः
सा चेतना यया सजीवाः जीवन्ति।
"यदा शरीरात् प्राणाः निर्गच्छन्ति तदा मृत्युः भवति।"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Sanskrit Tibetan
Tibetansku srog
प्राणाः
अभिधानचिन्तामणिः
Sanskritजीवेऽसुजीवितप्राणा जीवातुर्जीवनौषधम् ॥ १३६७ ॥
जीव (त्रि), असवः (पुंब), जीवित (क्ली), प्राणाः (पुंब), जीवातु (पुंक्ली), जीवनौषध (क्ली)
अभिधानरत्नमाला
Sanskritअसवः
असवः, जीवित, प्राणाः, जीव, जीवाः
असवो जीवितं प्राणा जीवो जीवा च कथ्यते ।
verse 1.1.1.134
page 0016
शब्दकल्पद्रुमः
Sanskritप्राणाः, (प्राणित्येभिरिति । प्र + अन + करणेघञ् ।) असवः । इत्यमरः । २ । ९ । ११९ ॥
“द्वे अङ्गसन्निहितेषु पञ्चवायुषु । अस्यन्ते असवःनाम्नीति उः । प्राणिति एभिः प्राणाः घञ् ।एवमिति असुवत् प्राणा अपि पुं बहुत्वे इत्यर्थः ।असुप्राणशब्दाभ्यां बहुवचनान्ताभ्यां पञ्चप्राणा-दय उच्यन्ते न पुनरेकैकाभिधाने बहुवचनम्अतएव प्राणोऽपान इत्युक्तं हृदि प्राणो गुदे-ऽपान इत्यादि च दृश्यते ।” इति तट्टीकायांभरतः ॥
(यथा हितोपदेशे । १ । ७३ ।“प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा ।आत्मौपम्येन भूतानां दयां कुर्व्वन्ति साधवः ॥
”शरीरस्थपञ्चप्राणा यथा, --“प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ॥
”शरीरस्था इमे -- ॥
”इत्यमरः । १ । १ । ६७ ॥
“इमे प्राणादयः पञ्च वायवः शरीरे तिष्ठन्ति तेच नियतस्थानस्थाः ॥
यदाहुः ।‘हृदि प्राणो गुदेऽपानः समानो नाभि-संस्थितः ।उदानः कण्ठदेशे च व्यानः सर्व्वशरीरगः ॥
’एवं तद्व्यापाराश्च यथा, --अन्नप्रवेशनं मूत्राद्युत्सर्गोऽन्नविपाचनम् ।भाषणादिनिमेषादितद्ब्यापाराः क्रमादमी ॥
”इति च भरतः ॥
प्राणकराणि यथा, --“सद्योमांसं नवान्नञ्च बालास्त्री क्षीरभोजनम् ।घृतमुष्णोदकञ्चैव सद्यः प्राणकराणि षट् ॥
”प्राणहराणि यथा, --“शुष्कं मांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि ।प्रभाते मैथुनं निद्रा सद्यःप्राणहराणि षट् ॥
”इति चाणक्यकर्म्मलोचने ॥
प्राणवियोगकालकर्त्तव्यं यथा, --“कण्ठस्थानं गते जीवे भीतिविभ्रान्तमानसः ।ज्ञात्वा च विह्वलं तत्र शीघ्रं निःसारयेद्गृहात् ॥
कुशास्तरणशायी च दिशः सर्व्वा न पश्यति ।लब्धस्मृतिर्मुहूर्त्तात्तु यावज्जीवो न नश्यति ॥
वाचयेत् स्नेहभावेन भूमे देवा द्विजातयः ।सुवर्णञ्च हिरण्यञ्च यथोत्पन्नेन माधवि ॥
परलोकहितार्थाय गोप्रदानं विशिष्यते ।सर्व्वदेवमया गाव ईश्वरेणावतारिताः ॥
अमृतं क्षरयन्त्यश्च प्रचरन्ति महीतले ।एतासाञ्चैव दानेन शीघ्रं मुच्येत किल्विषात् ॥
पश्चात् श्रुतिपथं दिव्यमुत्कर्णेन च श्रावयेत् ॥
यावत्प्राणान् प्रमुच्येत कृत्वा कर्म्म सुदुष्करम् ॥
दृष्ट्वा सुविह्वलं ह्येनं मम मार्गानुसारिणम् ।प्रयाणकाले तु नरो मन्त्रेण विधिपूर्व्वकम् ॥
मन्त्रेणानेन कर्त्तव्यं सर्व्वसंसारमोक्षणम् ।मधुपर्कं त्वरन् गृह्य इदं मन्त्रमुदाहरेत् ॥
”मन्त्रः ।“गृहाण चेमं मधुपर्कमाद्यंसंसारनाशनकरं त्वमृतेन तुल्यम् ।नारायणेन रचितं भगवत्-प्रियाणांदाहे च शान्तिकरणं सुरलोकपूज्यम् ॥
तत एतेन मन्त्रेण दद्याद्बै मधुपर्ककम् ।पुरुषो मृत्युकाले तु परलोकसुखावहम् ॥
एवं विनिःसृतात् प्राणात् संसारञ्च न गच्छति ।नष्टसंज्ञं समुद्दिश्य ज्ञात्वा मृत्युवशं गतम् ॥
महावनस्पतिं गत्वा गन्धांश्च विविधानपि ॥
घृततैलसमायुक्तं कृत्वा वै देहशोधनम् ॥
तेजोव्ययकरं वास्य तत्सर्व्वं परिकल्प्य च ।दक्षिणायां शिरः कृत्वा सलिले तं निधाय च ॥
तीर्थाद्यावाहनं कृत्वा स्नापनं तस्य कारयेत् ॥
गयादीनि च तीर्थानि ये च पुण्याः शिलो-च्चयाः ।कुरुक्षेत्रञ्च गङ्गा च यमुना च सरिद्बरा ॥
कौशिकी च पयोष्णी च सर्व्वपापप्रणाशिनी ।गण्डकी भद्रनामा च सरयूर्बलदा तथा ॥
वनानि नववाराहं तीर्थं पिण्डारकं तथा ।पृथिव्यां यानि तीर्थानि चत्वारः सागरास्तथा ।सर्व्वाणि मनसा ध्यात्वा स्नानमेवन्तु कारयेत् ॥
प्राणाद्गतन्तु तं ज्ञात्वा चितां कृत्वा विधानतः ।तस्या उपरि तं स्थाप्य दक्षिणाग्रं शिरस्तथा ॥
देवानग्निमुखान् ध्यात्वा गृह्य हस्ते हुताशनम् ।प्रज्वाल्य विधिवत्तत्र मन्त्रमेतदुदाहरेत् ॥
”मन्त्रः ।“कृत्वा तु दुष्करं कर्म्म जानता वाप्यजानता ।मृत्युकालवशं प्राप्य नरः पञ्चत्वमागतः ॥
धर्म्माधर्म्मसमायुक्तो लोभमोहसमावृतः ।दहेयं तस्य गात्राणि दैवलोकाय गच्छतु ॥
एवमुक्त्वा ततः शीघ्रं कृत्वा चैव प्रदक्षिणम् ।ज्वलमानं तदा वह्निं शिरःस्थाने प्रदापयेत् ॥
चातुर्व्वर्ण्येषु संस्कारमेवम्भवति पुत्त्रक ! ।गात्राणि वाससी चैव प्रक्षाल्य विनिवर्त्तयेत् ॥
मृतनाम तथोद्दिश्य दद्यात् पिण्डं महीतले ।तदाप्रभृति चाशौचं दैवकर्म्म न कारयेत् ॥
”इति वराहपुराणे श्राद्धोत्पत्तिनामाध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
