| YouTube Channel

प्राड्विवाकः (prADvivAkaH)

 
Apte Hindi
Hindi
प्राड्विवाकः
पुं*
प्राछ्- विवाकः -
"न्यायाधीश, कचहरी या अदालत में प्रधान पद पर अधिष्ठित अधिकारी"
शब्दकल्पद्रुमः
Sanskrit
प्राड्विवाकः,
पुं,
(पृच्छतीति प्राट् विविच्य वक्तीतिविवाकः ततः कर्म्मधारयः ।) व्यवहारद्रष्टा ।जज् इति इङ्गरेजी भाषा तत्पर्य्यायः अक्ष-दर्शकः इत्यमरः
व्यवहार-दर्शी इति शब्दरत्नावली
द्वे व्यव-हाराणां ऋणादानादिविवादानां द्रष्टरि निर्णे-तरि धर्म्माध्यक्षे इत्यर्थः पृच्छति वादिप्रति-वादिवाक्यं प्राट् ददृज्जुहूवाक् प्राडिति निपातः ।विविच्य वक्ति विवाकः कभावेऽमी इति घञ्प्राट् चासौ विवाकश्चेति प्राड्विवाकः ।“विवादानुगतं पृष्ट्वा पूर्व्ववाक्यं प्रयत्नतः ।विचारयति येनासौ प्राड्विवाकस्ततः स्मृतः
”इति स्मृतिः इति भरतः
अपि अर्थिप्रत्यर्थिनौ पृच्छतीति प्राट्तयोर्व्वचनं विरुद्धाविरुद्धञ्च सभ्यैः सह विवि-नक्ति विवेचयति वेति विवाकः प्राट् चासौविवाकश्चेति प्राड्विवाकः उक्तञ्च ।“विवादानुगतं पृष्ट्वा ससभ्यस्तत् प्रयत्नतः ।विचारयति येनासौ प्राड्विवाकस्ततः स्मृतः
”इति मिताक्षरा