| YouTube Channel

प्राजापत्यं (prAjApatyaM)

 
शब्दकल्पद्रुमः
Sanskrit
प्राजापत्यं,
क्ली,
(प्रजापतिर्देवतास्येति प्रजापति +“दित्यदित्यादित्यपत्युत्तरपदात् ण्यः ।” ।८५ इति ण्यः ।) द्बादशाहसाध्यव्रतविशेषः ।तत्र दिवसत्रयं रात्रिमात्रभोजनम् २२ ग्रासाः ।दिवसत्रयं दिवामात्रभोजनम् २६ ग्रासाः ।दिवसत्रयं अयाचितभोजनम् २४ ग्रासाः ।दिवसत्रयं उपवासः यथा, --“त्र्यहं सायं त्र्यहं प्रातस्त्र्यहमद्यादयाचि-तम् ।त्र्यहं परन्तु नाश्नीयात् प्राजापत्यं चरन् द्विजः
”ग्राससंख्या पराशरेणोक्ता ।“सायं द्वाविंशतिर्ग्रासाः प्रातः षड्विंशतिस्तथाअयाचिते चतुर्व्विंशः परञ्चानशनं स्मृतम्
”इति प्रायश्चित्ततत्त्वम्
*
तत्तु अगम्यागमनादिप्रायश्चित्तम् यथा, --“अगम्यागमनं कृत्वा मद्यगोमांसभक्षणम् ।शुध्येच्चान्द्रायणाद्विप्रः प्राजापत्येन भूमिपः ।वैश्यः शान्तपनाच्छूद्रः पञ्चाहोभिर्व्विशुध्यति
प्रायश्चित्ते कृते दद्याद्गवां ब्राह्मणभोजनम्
”इति गारुडे २२६ अध्यायः
*
रोहिणीनक्षत्रम् यथा, --“ऐन्द्रे गुरुः शशी चैव प्राजापत्ये रविस्तथा ।पूर्णिमा गुरुवारेण महाज्यैष्ठी प्रकीर्त्तिता
”इति प्रायश्चित्ततत्त्वम्
(प्रजापतेरपत्यमिति ण्यः प्रजपतिपुत्त्रः ।यथा, कुमारे ३४ ।“तस्मिन् संयमिनामाद्ये जाते परिणयोन्मुखे ।जहुः परिग्रहव्रीडां प्राजापत्यास्तपस्विनः
”प्रजापतेरिदमिति प्रजापतिसम्बन्धिनि, त्रि ।यथा, मार्कण्डेये ४९ ७७ ।“प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रिया-वताम् ।स्थानमैन्द्रं क्षत्त्रियाणां संग्रामेष्वपलायिनाम्
”)