| YouTube Channel

प्राचीरं (prAcIraM)

 
Apte 1890
English
प्राचीरं An enclosure, fence, wall.
शब्दकल्पद्रुमः
Sanskrit
प्राचीरं,
क्ली,
(प्राचीयते इति प्र + +चि ञ्न चयने + “शुसिचिमिञां दीर्घश्च ।” उणा०२ २५ इति क्रन् दीर्घश्च ।) प्रान्ततोवृतिः ।इत्यमरः
पाँचील इति भाषा
दुर्गार्थं नगरादेः प्रान्तभागे वेणुकण्टकवेत्रादि-मयी वृतिर्वेष्टनिका इति भरतः
मृण्मय्या-मपि वृतौ प्राचीरमुपचारादिति स्वाम्यादयः
तत्पर्य्यायः वृतिः इति भट्टः
प्राची-नम् इति मुकुटः
“प्राचीरं प्रावरोऽपि स्यात् प्रावृतिः प्रान्ततो-वृतिः ।इष्टकामृत्तिकाद्यैश्च गृहवाट्यादिवेष्टने
”इति शब्दरत्नावली
*
अथ प्राचीरनिर्णयः ।“गजैरभेद्या मनुजैरलङ्घ्याःप्राचीरखण्डा नृपतेर्भवन्ति
राजदण्डोन्नताः सर्व्वे प्राचीराः पृथिवीभुजः ।विशतिस्ते तु पञ्चाग्रे पार्श्वयोः पञ्च पञ्च
पञ्चात् पञ्च विज्ञेयाः प्राचीराः पृथिवीभुजः ।सर्व्वप्रान्ते त्वावरणो नाम प्राचीर उच्यते
प्रतिप्राकारनं स्थानं द्वारं नाभिमुखस्थितम्
*
तत्र जयाख्यस्य दीर्घस्य वास्तुखण्डस्य निर्णयः ।तद्यथा, --“राजच्छत्रान्तरे पञ्च राजद्बारे महीपतेः ।राजदण्डत्रये सार्द्धे जयद्वारे प्रतिष्ठिताः
अद्वारे राजदण्डार्द्धे प्राचीराः पृथिवीपतेः ।एवं व्यवस्थिते स्थाने मध्यमे तद्धि तिष्ठति
राजच्छत्रद्वयं सार्द्धमायामे जयवास्तुनि ।परिणाहे पञ्च राजदण्डास्तिष्ठन्ति मध्यतः
राजपट्टाभिधानेन स्थानमेतन्निगद्यते ।अस्मिन् गृहं नृपः कृत्वा सुचिरं सुखमश्नुते
अज्ञानाद्दम्भतो राजा योऽन्यत्र गृहमारभेत् ।सोऽचिरान्मृत्युमाप्नोति रोगं शोकं भयन्तथा
यमदण्डोदयदण्डौ कोणाहतिरुपप्लवः
ये चान्ये वास्तुदोषाः स्युः स्थाने दोषाश्च ये पुनः
स्पृश्यते राजपट्टस्तैः सर्पैर्गरुडो यथा ।द्विगुणादिरतोऽपि स्यात् क्रमाद्भङ्गादिवास्तुषु
राजच्छत्रमितेऽप्येवं प्राचीरे गुणदोषकौ
”इति युक्तिकल्पतरुः