| YouTube Channel

प्राचीनावीतं (prAcInAvItaM)

 
शब्दकल्पद्रुमः
Sanskrit
प्राचीनावीतं,
क्ली,
(प्राचीनं प्रदक्षिणं आवीयतेस्मेति + वी गत्यादौ + क्तः यद्बा, प्राचीनं आवेतीति “गत्यर्थेति ।” क्तः ।)श्राद्धादौ वामकरे बहिष्कृते सति दक्षिणस्कन्धा-र्पितयज्ञसूत्रम् इत्यमरभरतौ ५०
तथाहि कौर्म्मे उपविभागे १० अध्याये ।“सव्यं बाहुं समुद्धृत्य दक्षिणे तु धृतं द्बिजाः ।प्राचीनावीतमित्युक्तं पित्रे कर्म्मणि योजयेत्