| YouTube Channel

प्राचीनामलकं (prAcInAmalakaM)

 
शब्दकल्पद्रुमः
Sanskrit
प्राचीनामलकं,
क्ली,
(प्राचीनमामलकमिति नित्य-कर्म्मधारयः ।) पानीयामलकम् पानी आमलाइति भाषा तत्पर्य्यायः वारिवदरम् ।इति त्रिकाण्डशेषः
(यथा, महाभारते ।२०८ ४१ ।“प्राचीनामलकैर्लोध्रैरङ्कोलैश्च सुपुष्पितैः
”)अस्य गुणः दोषत्रयगरनाशित्वम् इति भाव-प्रकाशः
(यथा ।“गरदोषहरं नीपं प्राचीनामलकन्तथा
”इति सुश्रुते सूत्रस्थाने ४६ अध्यायः
)