| YouTube Channel

प्राङ्गणं (prAGgaNaM)

 
शब्दकल्पद्रुमः
Sanskrit
प्राङ्गणं,
क्ली,
(प्रकृष्टमङ्गनमङ्गं यस्य ।) पणव-वाद्यम् इति शब्दरत्नावली
(प्रकर्षेणअङ्गनं गमनं यत्र णत्वम् ।) गृहभूमिः ।आङ्गिना इति उठान इति भाषा तत्-पर्य्यायः अजिरम् चत्वरम् अङ्गनम् ।इति हेमचन्द्रः ७०
(यथा, भविष्यो-त्तरे ।“प्रदोषसमये स्त्रीभिः पूज्यो जीमूतवाहनः ।पुष्करिणीं विधायाथ प्राङ्गणे चतुरस्रिकाम्
”)सूर्य्यविद्धस्य तस्य दोषो यथा, --“अभद्रदं सूर्य्यवेधं प्राङ्गणञ्च तथैव
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०३ अः