| YouTube Channel

प्राग्ज्योतिषः (prAgjyotiSaH)

 
Apte Hindi
Hindi
प्राग्ज्योतिषः
पुं*
प्राच्-ज्योतिषः -
"एक देश का नाम, कामरूप देश का नामांतर"
प्राग्ज्योतिषः
ब* व* प्राच्-ज्योतिषः -
इस देश के रहने वाले लोग
Wordnet
Sanskrit
Synonyms:
प्राग्ज्योतिषः
noun
एकः देशः
"कोशकारैः प्राग्ज्योतिषः उल्लिखितः अस्ति"
Synonyms:
प्राग्ज्योतिषः
noun
प्राग्ज्योतिष-नगर्यां तथा परिसरे निवासिनः
"मार्कण्डेय-पुराणे तथा वराह-मिहिरे प्राग्ज्योतिषाः उल्लिखिताः"
शब्दकल्पद्रुमः
Sanskrit
प्राग्ज्योतिषः,
पुं,
(प्राक् ज्योतिषं नक्षत्रं यत्र ।तदुक्तं कालिकापुराणे ।“अत्रैव हि स्थितो ब्रह्मा प्राङ् नक्षत्रं ससर्ज ।ततः प्राग्ज्योतिषाख्येयं पुरी शक्रपुरीसमा
”)कामरूपदेशः इति हेमचन्द्रः २२
तु नरकराजपुरम् यथा, --श्रीभगवानुवाच ।“करतोया सत्यगङ्गा पूर्व्वभागावधिश्रिता ।यावल्ललितकान्तास्ति तावद्देशं पुरं तदा
तत्र देवी महामाया योगनिद्रा जगत्प्रसूः ।कामाख्यारूपमादाय सदा तिष्ठति शोभना
अत्रास्ति नदराजोऽयं लौहित्यो ब्रह्मणः सुतः ।अत्रैव दशदिक्पालाः स्वे स्वे पीठे व्यवस्थिताः
अत्र स्वयं महादेवो ब्रह्मा चाहञ्च सर्व्वदा ।चन्द्रः सूर्य्यश्च सततं वसतेऽत्रैव पुत्त्रक !
सर्व्वे क्रीडार्थमायाता रहस्यदेशमुत्तमम् ।अत्र श्रीः सर्व्वतो भद्रा भोग्यमत्र सदा बहु
अत्रैव हि स्थितो ब्रह्मा प्राङ्नक्षत्रं ससर्ज्ज ।ततः प्राग्ज्योतिषाख्येयं पुरी शक्रपुरीसमा
अत्र त्वं वस भद्रन्ते ह्यभिषिक्तो मया स्वयम् ।ततो विदर्भराजस्य पुत्त्रीं मायाह्वयां हरिः ।पुत्त्रार्थे वरयामास नरकस्य समां गुणैः
”इति कालिकापुराणे ३७ अध्यायः
(इदानीं प्रसिद्धमासामप्रदेशकियदंशकुचविहार-कामरूपं पुरा प्राग्ज्योतिषाख्ययाभिहितम्
”)