| YouTube Channel

प्राक्तनः (prAktanaH)

 
शब्दकल्पद्रुमः
Sanskrit
प्राक्तनः, त्रि, (प्राक् प्राचि काले देशे प्राच्यांदिशि वा भवः प्राक् + कालवाचिनोऽ-व्ययात् ट्युट्युलौ ।) प्राग्भवः यथा “प्रपेदिरेप्राक्तनजन्मविद्याः
इति कुमारसम्भवम्
अन्यच्च ।“प्राक्तनेन शुभं सर्व्वं सुखञ्च विभवश्चिरम् ।दुःखं शोकः प्राक्तनेन विपत् सम्पच्च साम्प्रतम्
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १४ अध्यायः
अपि तत्रैव १२९ अध्याये ।“विधाता लिखितं कर्म्म प्राक्तनं केन वार्य्यते ।मा भुक्तं क्षीयते कर्म्म कल्पकोटिशतैरपि