| YouTube Channel

प्राकृतमित्रं (prAkRtamitraM)

 
शब्दकल्पद्रुमः
Sanskrit
प्राकृतमित्रं,
क्ली,
(प्राकृतं स्वाभाविकं मित्रंसुहृत् ।) स्वदेशव्यवहितदेशावस्थितराजादिः ।यथा, माघे ३६ ।“सखा गरोयान् शत्रुश्च कृत्रिमस्तौ हि कार्य्यतः ।स्याताममित्रौ मित्रे सहजप्राकृतावपि
”अस्य टीका “ननु क्षुद्रोऽयं चैद्यः किं नःकरिष्यतीत्याशङ्क्य तस्य बलवत्तां वक्तुं मित्रा-मित्रबलाबलविवेकं तावत् करोति सखेति ।क्रियया उपकारापकारान्यतररूपया निर्वृत्तःकृत्रिमः सखा सुहृत् गरीयान् बलवान् एवंशत्रुश्च कृत्रिमो गरीयान् कुतः हि यस्मात्तौकृत्रिममित्रशत्रू कार्य्यतः उपकारापकार-रूपकार्य्यवशात् निर्वृत्ताविति शेषः उक्तकार्य्यो-पाधेर्यावज्जीवमनपायादनयोर्म्मित्रामित्रभावो-ऽपि अनपायीति गरीयस्त्वमिति भावः सहज-प्राकृतौ तु नैवमित्याह स्यातामिति सह-जातः सहजः एकशरीरावयवत्वात् तत्र सहजंमित्रं मातृष्वसेयपितृष्वसेयादि सहजशत्रुस्तुपितृव्यतत्पुत्त्रादिः प्रकृत्या सिद्धः प्राकृतःपूर्व्वोक्तसहजकृत्रिमलक्षणरहित इत्यर्थः तत्रविषयान्तरः प्राकृतः शत्रुः तदनन्तरः प्राकृतंमित्रं अपि त्वर्थे तौ सहजप्राकृतौ शत्रुमित्रे चस्यातां त्वात्मकार्य्यवशादनियमेनोभयरूपता-मापद्येते कृत्रिमशत्रुमित्रे कृत्रिमशत्रुः शत्रु-रेव मित्रञ्च मित्रमेवेति कृत्रिमावेव मित्रामित्रौगरीयांसौ तु सहजौ नापि प्राकृतावित्यर्थः ।अनेन कृत्रिमत्वं सर्व्वापवादीति सिद्धम् ।” इतिमल्लिनाथः