| YouTube Channel

प्राकृतः (prAkRtaH)

 
Hindi
Hindi
भौतिकवादी
Apte Hindi
Hindi
प्राकृतः
पुं*
- प्रकृति + अण्
"ओछा मनुष्य, साधारण व्यक्ति, देहाती पुरुष"
शब्दकल्पद्रुमः
Sanskrit
प्राकृतः, त्रि, (प्रकृष्टमकृतमकार्य्यं यस्य ।) नीचः ।इत्यमरः
(यथा, देवीभागवते १५ ३१ ।“अश्रुपातं करोत्यद्य विवशः प्राकृतो यथा
”अविकारकः यथा, भावप्रकाशे अजीर्ण-रोगाधिकारे ।“वदन्ति षष्ठं चाजीर्णं प्राकृतं प्रतिवासरम्
प्राकृतं अविकारकम्
*
) प्रकृतिसम्बन्धी ।यथा, --“इत्युक्त्वासीद्धरिस्तूष्णीं भगवानात्ममायया ।पित्रोः संपश्यतोः सद्यो बभूव प्राकृतः शिशुः
”इति श्रीभागवते दशमस्कन्धे अध्यायः
(यथाच मार्कण्डेये ४५ ७३ ।“इत्येष प्राकृतः सर्गः क्षेत्रज्ञाधिष्ठितस्तु सः
”यथा मनौ ११ १५९ ।“स कृत्वा प्राकृतं कृच्छ्रं व्रतशेषं समापयेत्
”“प्राकृतं प्राजापत्यं प्रकृतौ भवं प्राकृतं सर्व्व-कृच्छ्राणां प्रकृतित्वादेवमुच्यते ।” इति तद्भाष्येमेधातिथिः
*
प्रकृतौ भवस्तत आगतो वा ।प्रकृति + “तत्र भवः ।” ५३ “ततआगतः ।” ७४ इति वा अण् ।)भाषाभेदे, क्ली संस्कृतप्रकृतिकः यथा ।अथ प्राकृतम् अथशब्द आनन्तर्य्यार्थोऽधि-कारार्थश्च प्रकृतिः संस्कृतं तत्र भवं ततआगतं वा प्राकृतम् संस्कृतानन्तरं प्राकृत-मधिक्रियते संस्कृतानन्तरं प्राकृतस्यानुशास-नम् सिद्धसाध्यमानभेदसंस्कृतयोनेरेव तस्यलक्षणं देश्यस्य इति ज्ञापनार्थम् संस्कृत-समन्तु संस्कृतलक्षणेनैव गतार्थम् प्राकृतेप्रकृतिप्रत्ययलिङ्गकारकसमाससं ज्ञादयः संस्कृत-वद्वेदितव्याः लोकादिति वर्त्तते तेन ऋॠ विसर्ज्जनीयप्लुतवर्जोवर्णसमाम्नायो लोकादवगन्तव्यः ङञौ स्ववर्ग्य-संयुक्तौ भवत एव ऐदौ तौ केषाञ्चित् ।कैतवं कैअवम् सौदर्य्यं सौअरिअम् कौरवाःकौअवा तथा स्वरव्यञ्जनं द्विवचनं चतुर्थी-बहुवचनञ्च तु भवति अबहुलं बहुल-मित्यधिकृतं वेदितव्यमाशास्त्रपरिसमाप्तेः ।ततश्च क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्-विभाषा क्वचिदन्यदेव भवति इति हेमचन्द्र-कृतशब्दानुशासनवृत्तौ अष्टमाध्यायस्य चतुर्थःपादः
*
(यथा प्राकृतचन्द्रिकायाम् ।“प्रकृतिः संस्कृतं तत्र भवत्वात् प्राकृतं स्मृतम् ।तद्भवं तत्समं देशीत्येवमेतत् त्रिधा मतम्
”चण्डाचार्य्यादयस्तु आर्षप्राकृतभेदेन प्राकृतंद्विविधं कल्पयन्ति जैनबौद्धानां शास्त्रेषुप्राचीनतमनाटकादिषु आर्षप्राकृतप्रयोगःप्रायशो दृश्यते
कानिचित् विशेषलक्ष्याणिप्राकृतचन्द्रिकायामुक्तानि यथा, --“तच्चार्षं मागधी शौरसेनी पैशाचिकी तथा ।चूलिका पैशाचिकञ्चापभ्रंशश्चेति षड्विधम्
महाराष्ट्रोद्भवां भाषां प्रकृष्टं प्राकृतं विदुः ।आकरः सूक्तिरत्नानां सेतुबन्धादि यन्मयम्
”नाटकादौ उत्तमस्यापि नायकादेः कदाचितुमत्तादिदोषोपहतस्य प्राकृतकथनं नैव दोषाय ।यदुक्तं तत्रैव ।“ऐश्वर्य्यादिप्रमत्तस्य दारिद्रोपप्लुतस्य ।उत्तमस्यापि पठतः प्राकृतं नैव दूष्यति
क्रीडार्थं नृपतेरिष्टं प्राकृतञ्च द्बिजन्मनाम् ।भरतेनोदितं प्राज्यमबाधितमिदं वचः
”नाटकादौ बालस्त्रीवृद्धादीनामगुणान्वितानांप्राकृतकथनमेव युक्ततरम् यथाह भरद्वाजः ।“गाथासु तु महाराष्ट्र्या अन्या नाट्याश्रयामताः ।बालस्त्रीवृद्धभिक्षूणां श्रावकव्याजलिङ्गिनाम् ।ग्रहोपसृष्टमत्तानां प्राकृतं षण्डरूपिणाम्
*
प्रलयविशेषे, पुं यथा, विष्णुपुराणे ।३८ -- ३९ ।“नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिकी द्विज ! ।नित्यश्च सर्व्वभूतानां प्रलयोऽयं चतुर्व्विधः
ब्राह्मो नैमित्तिकस्तत्र यच्छेते जगतः पतिः ।प्रयाति प्राकृते चैव ब्रह्माण्डं प्रकृतौ लयम्
”)