| YouTube Channel

प्रह्लादः (prahlAdaH)

 
Apte 1890
English
प्रह्रा(ह्ला)दः 1 Great joy, pleasure, delight, happiness.
2 Sound.
3 N. of a son of the demon HiraṇyaKaśipu. [According to the PadmaPurāṇa, he was a Brāhmaṇa in his previous existence, and when born as son of Hiraṇya-Kaśipu, he still retained his ardent devotion to Viṣṇu. His father, of course, did not like that his own son should be such a devout worshipper of his mortal enemies, the gods, and with the object of getting rid of him, he subjected him to a variety of cruelties
but Prahlāda, by the favour of Viṣṇu, was quite unscathed, and began to preach with even greater earnestness than before the doctrine that Viṣṇu filled all space and was omni-present, omni-scient, omni-potent. Hiraṇya-Kaśipu in a fit of exasperation asked him “If Viṣṇu is omni-present how do I not see him in the pillar of this hall”? Whereupon Prahlāda struck the pillar with his fist (according to another account, Hiraṇya-Kaśipu himself angrily kicked the pillar to convince his son of the absurdity of his faith), when Viṣṇu came out half-man and half-lion, and tore Hiraṇya-Kaśipu to pieces. Prahlāda succeeded his father, and reigned wisely and righteously.]
Hindi
Hindi
प्रहलाद
Wordnet
Sanskrit
Synonyms:
प्रह्लादः
noun
हिरण्यकश्यपोः पुत्रः यः विष्णोः भक्तः आसीत्।
"प्रह्लादस्य रक्षणार्थे विष्णुः नृसिंहः अभवत्।"
Synonyms:
प्रह्लादः
noun
एका जातिः
"प्रह्लादस्य उल्लेखः कोशे वर्तते"
Tamil
Tamil
ப்ரஹ்லாத3: : அதிக மகிழ்ச்சி, சப்தம், ஒரு விஷ்ணு பக்தன்.
शब्दकल्पद्रुमः
Sanskrit
प्रह्लादः,
पुं,
(प्रह्लादयतीति प्र + ह्लाद् + णिच् +अच् ।) प्रह्रादः पूर्व्वजन्मनि शिव-शर्म्मणः पुत्त्रः सोमशर्म्मनामाभूत् ततो दैत्य-भावनया मृतः अनन्तरं कमलायां हिरण्य-कशिपोः सकाशाद्दैत्यभावेन जातः यथा, सूत उवाच ।“स लोष्टेन समं मेने काञ्चनं भूषणं पुनः ।जिताहारः धर्म्मात्मा निद्रया परिवर्जितः
विषयान् परित्यज्य एकान्तमपि सेवते ।योगासनसमारूढो निराशो निष्परिग्रहः
तस्य वेलां सुसंप्राप्य मृत्युकालः समागतः ।आगतान् दानवान् विप्रः सोमशर्म्मा व्यलो-कयत्
मृत्युकाले तु संप्राप्ते प्राणयात्राप्रवर्त्तके ।शालग्रामे महाक्षेत्रे ऋषीणामेव सन्निधौ
केचिद्बदन्ति वै दैत्याः केचिद्बदन्ति दानवाः ।एवंविधो महाशब्दः कर्णरन्ध्रगतस्तदा
तस्यैव विप्रवर्य्यस्य सुविप्राः सोमशर्म्मणः ।ज्ञानध्यानात् प्रचलतः प्रविष्टं दैत्यजं भयम्
तेन ध्यानेन तस्यापि दैत्यभूतेन वै तदा ।सत्वरं तस्य वै प्राणा गतास्तस्य महात्मनः
दैत्यभावेन संयुक्तः हि मृत्युवशं गतः ।तस्माद्दैत्यगृहे जातो हिरण्यकशिपोस्तदा
देवासुरे महायुद्धे निहतश्चक्रपाणिना ।युध्यमानेन तेनापि प्रह्रादेन महात्मना
सुभृशं वासुदेवं तद्बिश्वरूपं विचिन्तितम् ।योगाभ्यासेन पूर्व्वेण ज्ञानमासीन्महात्मनः
सस्मार पौर्ब्बिकं सर्व्वं चरित्रं शिवशर्म्मणः ।सोऽप्यहं सोमशर्म्मा वै प्रविष्टो दानवीं तनुम्
कस्य कायं कदा पुण्यं केवलं ध्यानमुत्तमम् ।प्रयामि महापुण्यैर्ज्ञानाख्यैर्मोक्षदायिभिः
समरे प्रीयमाणेन प्रह्रादेन महात्मना ।एवं चिन्ता कृता पूर्व्वं श्रूयतां द्विजसत्तम !
एतत्ते सर्व्वमाख्यातं सर्व्वसन्देहनाशनम्
”सूत उवाच ।“प्रह्रादे तु हते संख्ये देवदेवेन चक्रिणा ।संह्रादे महावीर्य्ये तस्मिंश्च कालनेमिनि
प्रह्रादस्य तु या माता हिरण्यकशिपोः प्रिया ।प्रह्रादस्य महाशोकैर्दिवा रात्रौ प्रशोचति
पतिव्रता महाभागा कमला नाम दुःखिता ।खिद्यमाना दिवा रात्रौ नारदस्तामुवाच
मा शुचस्त्वं महाभागे पुत्त्रार्थं पुण्यभागिनि ! ।निहतो वासुदेवेन तव पुत्त्रः समेष्यति
तद्रूपलक्षणोपेतस्तवोदरे महामतिः ।प्रह्रादेति वै नाम पुनरस्य भविष्यति
विहीन आसुरैर्भावैर्वैष्णवेन समन्वितःइन्द्रत्वं भोक्ष्यते भद्रे ! सर्व्वदेवैर्नमस्कृतः
सुखीभव महाभागे ! पुत्त्रेण तेन वै सदा ।न प्रकाश्या त्वया देवि ! स्ववार्त्तेयञ्च कस्यचित्
कर्त्तव्यमज्ञानभावैः सुगोप्यं त्वं सदा कुरु ।एवमुक्त्वा गतो विप्र नारदो मुनिसत्तमः
कमलायाश्चोदरे वै आसीत् तज्जन्म चोत्तमम् ।पुनः प्रह्लादो वै नाम तस्यां जातो महात्मनः
बाल्यभावं गतो विप्र कृष्ण एवं विचिन्त्य ।नरसिंहप्रसादेन देवराजोऽप्यभूत् हि
”इति पाद्मे भूमिखण्डे अध्यायः
*
(अनेन सह नरनारायणयोर्युद्धमासीत् एतद्-विवरणन्तु देवीभागवते चतुर्थस्कन्धे नवमा-ध्याये द्रष्टव्यम्
) प्रमोदः इति विश्वः
(यथा, महाभारते ७० ।“मनःप्रह्लादजननं दृष्टिकान्तमतीव
”)शब्दः इति धरणिः
(नागविशेषः यथा, महाभारते १० ।“प्रह्लादो मूषिकादश्च तथैव जनमेजयः
”)