| YouTube Channel

प्रहुतं (prahutaM)

 
शब्दकल्पद्रुमः
Sanskrit
प्रहुतं,
क्ली,
(प्रहूयते स्मेति प्र + हु + क्तः ।)भूतयज्ञः इति जटाधरः
(यथा, मनुः ।३ ७३ -- ७४ ।“अहुतञ्च हुतञ्चैव तथा प्रहुतमेव ।ब्राह्म्यं हुतं प्राशितञ्च पञ्च यज्ञान् प्रचक्षते
जपोऽहुतो हुतो होमः प्रहुतो भौतिको वलिः ।ब्राह्म्यं हुतं द्बिजाग्र्यार्च्चा प्राशितं पितृतर्प-णम्
”)