| YouTube Channel

प्रहतं (prahataM)

 
शब्दकल्पद्रुमः
Sanskrit
प्रहतं, त्रि, (प्रहन्यते स्मेति प्र + हन् + त्त ।)विततम् क्षुण्णम् इति शब्दरत्नावली
प्रक-र्षेण हिंसितम् (यथा, महाभारते ३० ।“प्रहतरथनराश्वकुञ्जरंप्रतिभयदर्शनमुल्वणव्रणम् ।तदहितहतमावभौ बलंपितृपतिराष्ट्रमिव प्रजाक्षये
”)प्रकर्षेण गतञ्च
(विताडितम् यथा, भाग-वते १० ७२ ३८ ।“इत्थं तयोः प्रहतयोर्गदयोर्नृवीरौक्रुद्धौ स्वमुष्टिभिरयःस्पर्शैरपिष्टाम्
”वादितम् यथा, रघुः १९ १४ ।“स स्वयं प्रहतपुष्करः कृतीलोलमाल्यबलयो हरन् मनः ।नर्त्तकीरभिनयातिलङ्घिनीःपार्श्ववर्त्तिषु गुरुष्वलज्जयत्
”)